अग्नि पुराण · अध्याय 380
:ए इत्य् आग्नेये महापुराणे अद्वैतव्रह्मविज्ञानं
नमोनाशीत्यधिकत्रिशततमो ऽध्यायः
% छप्तेर् {380}
:श् अथाशीत्यधिकत्रिशततमो ऽध्यायः
गीतासारः
अग्निर् उवाच
गीतासारं प्रवक्ष्यामि सर्वगीतोत्तमोत्तमं ।अप्_380.001अब्।
कृष्णो ऽर्जुनाय यमाह पुरा वै भुक्तिमुक्तिदं(2)
श्रीभगवानुवाच
गतासुरगतासुर्वा न शोच्यो देहवानजः ।अप्_380.002अब्।
आत्माजरो ऽमरो ऽभेद्यस्तस्माच्छोकादिकं त्यजेत्
:न्
1 ज्ञानात् सौवीरभूपतिरिति ख.. , ञ.. च
2 पठतां भुक्तिमुक्तिदमिति ख..
:प् 345
ध्यायतो विषयान् पुंसः सङ्गस्तेषूपजायते ।अप्_380.003अब्।
सङ्गात् कामस्ततः क्रोधः क्रोधात्सम्मोह एव च
अम्मोहात् स्मृतिविभ्रंशो बुद्धिनाशात् प्रणश्यति ।अप्_380.004अब्।
दुःसङ्गहानिः सत्सङ्गान्मोक्षकाभी च कामनुत्
कामत्यागादात्मनिष्ठः स्थिरप्रज्ञस्तदोच्यते ।अप्_380.005अब्।
या निशा सर्वभूतानां तस्यां जागर्ति संयमी
यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ।अप्_380.006अब्।
आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते
नैव तस्य कृते नार्थो नाकृते नेह कश् चनः ।अप्_380.007अब्।
तत्त्ववित्तु महावहो गुणकर्मविभागयोः
गुणा गुनेषु वर्तन्ते इति मत्वा न सज्जते ।अप्_380.008अब्।
सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यति
ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते ऽर्जुन ।अप्_380.009अब्।
ब्रह्मण्याधाय कर्माणि सङ्गन्त्यक्त्वा करोति यः
लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ।अप्_380.010अब्।
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ।अप्_380.011अब्।
शुचीनां श्रीमतां गेहे योगभ्रष्टो ऽभिजायते
न हि कल्याणकृत् कश्चिद्दुर्गतिं तात गच्छति ।अप्_380.012अब्।
देवी ह्य् एषा गुणमयी मम माया दुरत्यया
मामेव ये प्रपद्यन्ते मायामेतान्तरन्ति ते ।अप्_380.013अब्।
आर्तो जिज्ञासुरर्थार्थो ज्ञानी च भरतर्षभ
चतुर्विधा भजन्ते मां ज्ञानी चैकत्वमास्थितः ।अप्_380.014अब्।
:प् 346
अक्षरं ब्रह्म परमं स्वभावो ऽध्यात्ममुच्यते
भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ।अप्_380.015अब्।
अधिभूतं क्षरोभावः पुरुषश्चाधिदैवतं
अधियज्ञोहमेवात्र देहे देहभृतां वर ।अप्_380.016अब्।
अन्तकाले स्मरन्माञ्च मद्भावं यात्यसंशयः
यं यं भावं स्मरन्नन्ते त्यजेद्देहन्तमाप्नुयात् ।अप्_380.017अब्।
प्राणं न्यस्य भ्रुवोर्मध्ये अन्ते प्राप्नोति मत्परम्
ओमित्येकाक्षरं ब्रह्मवदन् देहं त्यजन्तथा ।अप्_380.018अब्।
ब्रह्मादिस्तम्भपर्यन्ताः सर्वे मम विभूतयः
श्रीमन्तश्चोर्जिताः सर्वे ममांशाः(1) प्राणिनःस्मृताः ।अप्_380.019अब्।
अहमेको विश्वरूप इति ज्ञात्वा विमुच्यते
क्षेत्रं शरीरं यो वेत्ति क्षेत्रज्ञः स प्रकोर्तितः ।अप्_380.020अब्।
क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम
महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च ।अप्_380.021अब्।
इन्द्रयाणि देशैकञ्च पञ्च चेन्द्रियगोचराः
इच्छा द्वेषः सुखं दुःखं सङ्घातश्चेतना धृतिः ।अप्_380.022अब्।
एतत्क्षेत्रं समासेन सविकारमुदाहृतं
अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् ।अप्_380.023अब्।
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः
इन्द्रियार्थेषु वैराग्यमनहङ्कार एव च ।अप्_380.024अब्।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनं
आसक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु ।अप्_380.025अब्।
:न्
1 ममाङ्गा इति ख..
:प् 347
नित्यञ्च समचित्तत्त्वमिष्टानिष्टोपपत्तिषु
मयि चानन्ययोगेन भक्तिरव्यभिचारिणी ।अप्_380.026अब्।
विविक्तदेशसेवित्वमरतिर्जनसंसदि
अध्यात्मज्ञाननिष्ठत्वन्तत्त्वज्ञानानुदर्शनं ।अप्_380.027अब्।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतो ऽन्यथा
ज्ञेयं यत्तत् प्रवक्ष्यामि यं ज्ञात्वामृतमश्नुते ।अप्_380.028अब्।
अनादि परमं ब्रह्म सत्त्वं नाम तदुच्यते
सर्वतः पाणिपादान्तं सर्वतो ऽक्षिशिरोमुखम् ।अप्_380.029अब्।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति
सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ।अप्_380.030अब्।
असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च
वहिरन्तश् च भूतानामचरञ्चरमेव च ।अप्_380.031अब्।
सूक्ष्मत्वात्तदविज्ञेयं दूरस्थञ्चान्तिके ऽपि यत्
अविभक्तञ्च भूतेषु विभक्तमिव च स्थितम् ।अप्_380.032अब्।
भूतभर्तृ च विज्ञेयं ग्रसिष्णु प्रभविष्णु च
ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते ।अप्_380.033अब्।
ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितं
ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना ।अप्_380.034अब्।
अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे
अन्ये त्वेवमजानन्तो श्रुत्वान्येभ्य उपासते ।अप्_380.035अब्।
तेपि चाशु तरन्त्येव मृत्युं श्रुतिपरायणाः
सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।अप्_380.036अब्।
प्रमादमोहौ तमसो भवतो ज्ञानमेव च
:प् 348
गुणा वर्तन्त इत्य् एव यो ऽवतिष्ठति नेङ्गते ।अप्_380.037अब्।
मानावमानमित्रारितुल्यस्त्यागी स निर्गुणः
ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययं ।अप्_380.038अब्।
छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित्
द्वौ भूतसर्गौ लोके ऽस्मिन् दैव आसुर एव च ।अप्_380.039अब्।
अहिंसादिः क्षमा चैव दैवीसम्पत्तितो नृणां
न शौचं नापि वाचारो ह्य् आसुरीसम्पदोद्धवः ।अप्_380.040अब्।
नरकत्वात् क्रोधलोभकामस्तस्मात्त्रयं त्यजेत्
यज्ञस्तपस् तथा दानं सत्त्वाद्यैस्त्रिविधं स्मृतम् ।अप्_380.041अब्।
आयुः सत्त्वं बलारोग्यसुखायान्नन्तु सात्त्विकं
दुःखशोकामयायान्नं तीक्ष्णरूक्षन्तु राजसं ।अप्_380.042अब्।
अमेध्योच्छिष्टपूत्यन्नं तामसं नीरसादिकं
यष्टव्यो विधिना यज्ञो निष्कामाय स सात्त्विकः ।अप्_380.043अब्।
यज्ञः फलाय दम्भात्मी राजसस्तामसः क्रतुः
श्रद्धामन्त्रादिविध्युक्तं तपः शारीरमुच्यते ।अप्_380.044अब्।
देवादिपूजाहिंसादि वाङ्मयं तप उच्यते
अनुद्वेगकरं वाक्यं सत्यं स्वाध्यायसज्जपः ।अप्_380.045अब्।
मानसं चित्तसंशुद्धेर्सौनमात्सविनिग्रहः
सात्त्विकञ्च तपो ऽकामं फलाद्यर्थन्तु राजसं ।अप्_380.046अब्।
तामसं परपीडायै सात्त्विकं दानमुच्यते
देशादौ चैव दातव्यमुपकाराय राजसं ।अप्_380.047अब्।
आदेशादाववज्ञातं तामसं दानमीरितं
:प् 349
ओंतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः ।अप्_380.048अब्।
यज्ञदानादिक कर्म बुक्तिमुक्तिप्रदं नृणां
अनिष्टमिष्टं मिश्रञ्च त्रिविधं कर्मणः फलं ।अप्_380.049अब्।
भवत्यत्यागिनां(1) प्रेत्य न तु सन्न्यासिनां क्वचित्
तामसः कर्मसंयोगात् मोहात्क्लेशभयादिकात् ।अप्_380.050अब्।
राजसः सात्त्विको ऽकामात् पञ्चैते कर्महेतवः
अधिष्ठानं तथा कर्ता करणञ्च पृथग्विधम् ।अप्_380.051अब्।
त्रिविधाश् च पृथक् चेष्टा दैवञ्चैवात्र पञ्चमं
एकं ज्ञानं सात्त्विकं स्यात् पृथग् ज्ञानन्तु राजसं ।अप्_380.052अब्।
अतत्त्वार्थन्तामसं स्यात् कर्माकामाय सात्त्विकं
कामाय राजसं कर्म मोहात् कर्म तु तामसं ।अप्_380.053अब्।
सीध्यसिद्ध्योः समः कर्ता सात्त्विको राजसो ऽत्यपि
शठो ऽलसस्तामसः स्यात् कार्यादिधीश् च सात्त्विकी ।अप्_380.054अब्।
कार्यार्थं सा राजसी स्याद्विपरीता तु तामसी
मनोधृतिः सात्त्विकी स्यात् प्रीतिकामेति राजसी ।अप्_380.055अब्।
तामसी तु प्रशोकादौ मुखं सत्त्वात्तदन्तगं
सुखं तद्राजसञ्चाग्रे अन्ते दुःखन्तु तामसं ।अप्_380.056अब्।
अतः प्रवृत्तिर्भूतानां येन सर्वमिदन्ततं
स्वकर्मणा तमभ्यर्च्य विष्णुं सिद्धिञ्च विन्दति ।अप्_380.057अब्।
कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा
:न्
1 भवत्ययोगिनामिति ख..
:प् 350
ब्रह्मादिस्तम्भपर्यन्तं जगद्विष्णुञ्च वेत्ति यः ।अप्_380.058अब्।
सिद्धिमाप्नोति भगवद्भक्तो भागवतो ध्रुवं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0