अग्नि पुराण · अध्याय 379
:ए इत्य् आग्नेये महापुराणे ब्रह्मज्ञानं
नामाष्टसप्तत्यधिकत्रिशततमो ऽध्यायः ॥
:प् 338
% छप्तेर् {379}
:श् अथोनाशीत्यधिकत्रिशततमो ऽध्यायः
अद्वैतब्रह्मविज्ञानं
अग्निर् उवाच
अद्वैतब्रह्मविज्ञानं वक्ष्ये यद्भवतो ऽगदत् ।अप्_379.001अब्।
शालग्राने तपश् चक्रे वासुदेवार्चनादिकृत्
मृगसङ्गाम्मृगो भूत्वा ह्य् अन्तकाले स्मरन् मृगं ।अप्_379.002अब्।
जातिस्मरो मृगस्त्यक्त्वा देहं योगात्स्वतो ऽभवत्
अद्वैतब्रह्मभूतश् च जडवल्लोकमाचरत् ।अप्_379.003अब्।
क्षत्तासौ वीरराजस्य विष्टियोगममन्यत
उवाह शिविक्रामस्य क्षत्तुर्वचनचोदितः ।अप्_379.004अब्।
गृहीतो विष्टिना ज्ञानी उवाहात्मक्षयाय तं
ययौ जडगतिः पश्चात् ये त्वन्ये त्वरितं ययुः ।अप्_379.005अब्।
शीघ्रान् शीघ्रगतीन् दृष्ट्वा अशीघ्रं तं नृपोऽब्रवीत्
राजोवाच
किं श्रान्तो ऽस्यल्पमध्वानं त्वयोढा शिविका मम ।अप्_379.006अब्।
किमायाससहो न त्वं पीवानसि निरीक्ष्यसे
ब्राह्मण उवाच
नाहं पीवान्न वैषोढा शिविका भवतो मया ।अप्_379.007अब्।
न श्रान्तो ऽस्मि न वायासो वोढव्यो ऽसि महीपते
भूमौ पादयुगन्तस्थौ जङ्घे पादद्वये स्थिते ।अप्_379.008अब्।
उरू जङ्घाद्वयावस्थौ तदाधारं तथोदरम्
वक्षःस्थलं तथा वाहू स्कन्धौ चोदरसंस्थितौ ।अप्_379.009अब्।
स्कन्धस्थितेयं शिविका मम भावो ऽत्र किं कृतः
:प् 339
शिविकायां स्थितञ्चेदं देहं त्वदुपलक्षितं ।अप्_379.010अब्।
तत्र त्वमहमप्यत्र प्रोच्यते चेदमन्यथा
अहं त्वञ्च तथान्ये च भूतैरुह्याम(1) पार्थिव ।अप्_379.011अब्।
गुणप्रवाहपतितो गुणवर्गो हि यात्ययं
कर्मवश्या गुणाश् चैते सत्त्वाद्याः पृथिवीपते ।अप्_379.012अब्।
अविद्यासञ्चितं कर्म तच्चाशेषेषु जन्तुषु
आत्मा शुद्धो ऽक्षरः शान्तो निर्गुणः प्रकृतेः परः ।अप्_379.013अब्।
प्रवृद्ध्यपचयौ नास्य एकस्याखिलजन्तुषु
यदा नोपचयस्तस्य यदा नापचयो नृप ।अप्_379.014अब्।
तदा पीवानसीति त्वं कया युक्त्या त्वयेरितं
भूजङ्घापादकट्यूरुजठरादिषु संस्थिता ।अप्_379.015अब्।
शिविकेयं तथा स्कन्धे तदा भावःसमस्त्वया
तदन्यजन्तुभिर्भूप शिविकोत्थानकर्मणा ।अप्_379.016अब्।
शैलद्रव्यगृहोत्थोपि पृथिवीसम्भवोपि वा
यथा पुंसः पृथग्भावः प्राकृतैः करणैर् नृप ।अप्_379.017अब्।
सोढव्यः स महाभारः कतरो नृपते मया
यद्द्रव्या शिविका चेयं तद्द्रव्यो भूतसंग्रहः ।अप्_379.018अब्।
भवतो मे ऽखिलस्यास्य समत्वेनोपवृंहितः
तच्छ्रुत्वोवाच राजा तं गृहीत्वाङ्घ्री क्षमाप्य च ।अप्_379.019अब्।
प्रसादं कुरु त्यक्त्वेमां शिविकां ब्रूहि शृण्वते ।अप्_379.019च्द्।
यो भवान् यन्निमित्तं वा यदागमनकारणम्
ब्राह्मण उवाच
श्रूयतां कोहमित्येतद्वक्तुं नैव च शक्यते ।अप्_379.020अब्।
:न्
1 पाठो ऽयं न समीचीनः
:प् 340
उपभोगनिमित्तञ्च सर्वत्रागमनक्रिया
सुखदुःखोपभोगौ तु तौ देशाद्युपपादकौ ।अप्_379.021अब्।
धर्माधर्मोद्भवौ भोक्तुं जन्तुर्देशादिमृच्छति
रजोवाच
यो ऽस्ति सोहमिति ब्रह्मन् कथं वक्तुं न शक्यते ।अप्_379.022अब्।
आत्मन्येषु न दोषाय शब्दोहमिति यो द्विज
ब्राह्मण उवाच
शब्दोहमिति दोषाय नात्मन्येष तथैव तत् ।अप्_379.023अब्।
अनात्मन्यात्मविज्ञानं शब्दो वा भ्रान्तिलक्षणः
यदा समस्तदेहेषु पुमानेको व्यवस्थितः ।अप्_379.024अब्।
तदा हि को भवान् कोहमित्येतद्विफलं वचः
त्वं राजा शिविका चेयं वयं वाहाः पुरःसराः ।अप्_379.025अब्।
अयञ्च भवतो लोको न सदेतन्नृपोच्यते
वृक्षाद्दारु ततश्चेयं शिविका त्वदधिष्ठिता ।अप्_379.026अब्।
का वृक्षसंज्ञा जातस्य दारुसंज्ञाथ वा नृप
वृक्षारूढो महाराजो नायं वदति चेतनः ।अप्_379.027अब्।
न च दारुणि सर्वस्त्वां ब्रवीति शिविकागतं
शिविकादारुसङ्घातो रचनास्थितिसंस्थितः ।अप्_379.028अब्।
अन्विष्यतां नृपश्रेष्ठ तद्भेदे शिविका त्वया
पुमान् स्त्री गौरयं वाजी कुञ्चरो विहगस्तरुः ।अप्_379.029अब्।
देहेषु लोकसंज्ञेयं विज्ञेया कर्महेतुषु
जिह्वा ब्रवीत्यहमिति दन्तौष्ठौ तालुकं नृप ।अप्_379.030अब्।
एते नाहं यतः सर्वे वाङ्निपादनहेतवः
किं हेतुभिर्वदत्येषा वागेवाहमिति स्वयं ।अप्_379.031अब्।
तथापि वाङ्नाहमेतदुक्तं मिथ्या न युज्यते
:प् 341
पिण्डः पृथग् यतः पुंसः शिरःपाय्वादिलक्षणः ।अप्_379.032अब्।
ततो ऽहमिति कुत्रैतां संज्ञां राजन् करोम्यहं
यदन्यो ऽस्ति परः कोपि मत्तः पार्थिवसत्तम ।अप्_379.033अब्।
तदेषोहमयं चान्यो वक्तुम् एवमपीष्यते
परमार्थभेदो न नगो न पशुर्नच पादपः ।अप्_379.034अब्।
शरीराश् च विभेदाश् च य एते कर्मयोनयः
यस्तु राजेति यल्लोके यच्च राजभटात्मकम् ।अप्_379.035अब्।
तच्चान्यच्च नृपेत्थन्तु न सत् सम्यगनामयं
त्वं राजा सर्वलोकस्य पितुः पुत्रो रिपोरिपुः।अप्_379.036अब्।
पत्न्याः पतिः पिता सूनोः कस्त्वां भूप वदाम्यहं
त्वं किमेतच्छिरः किन्नु शिरस्तव तथोदरं ।अप्_379.037अब्।
किमु पादादिकं त्वं वै तवैतत् किं महीपते
समस्तावयेभ्यस्त्वं पृथग्भूतो व्यवस्थितः ।अप्_379.038अब्।
कोहमित्यत्र निपुणं भूत्वा चिन्तय पार्थिव ।अप्_379.038च्द्।
तच्छ्रत्वोवाच राजा तमवधूतं द्विजं हरिं
रजोवाच
श्रेयो ऽर्थमुद्यतः प्रष्टुं कपिलर्षिमहं द्विज ।अप्_379.039अब्।
तस्यांशः कपिलर्षेस्त्वं मत् कृते ज्ञानदो भुवि ।अप्_379.039च्द्।
ज्ञानवीच्युदछेर्यस्माद्यच्छ्रेयस्तच्च मे वद
ब्राह्मण उवाच
भूयः पृच्छसि किं श्रेयः परमार्थन्न पृच्छसि ।अप्_379.040अब्।
श्रेयांस्यपरमार्थानि अशेषाण्येव भूपते
देवताराधनं कृत्वा धनसम्पत्तिमिच्छति ।अप्_379.041अब्।
पुत्रानिच्छति राज्यञ्च श्रेयस्तस्यैव किं नृप
विवेकिनस्तु संयोगः श्रेयो यः परमात्मनः ।अप्_379.042अब्।
:प् 342
यज्ञादिका क्रिया न स्यात् नास्ति द्रव्योपपत्तिता
परमार्थात्मनोर्योगः परमार्थ इतीष्यते ।अप्_379.043अब्।
एको व्यापी समः शुद्धो निर्गुणः प्रकृतेः परः
जन्मवृद्ध्यादिरहित आत्मा सर्वगतो ऽव्ययः ।अप्_379.044अब्।
परं ज्ञानमयो ऽसङ्गी गुणजात्यादिभिर्विभुः
निदाधऋतुसंवादं वदामि द्विज तं शृणु(1) ।अप्_379.045अब्।
ऋतुर्ब्रह्मसुतो ज्ञानी तच्छिष्यो ऽभूत् पुलस्त्यजः
निदाघः प्राप्तविद्यो ऽस्मान्नगरे वै पुरे स्थितः ।अप्_379.046अब्।
देविकायास्तटे तञ्च तर्कयामास वै ऋतुः
दिव्ये वर्षसहस्रे ऽगान्निदाघमवलोकितुं ।अप्_379.047अब्।
निदाघो वैश्वदेवान्ते भुक्त्वान्नं शिष्यमब्रवीत् ।अप्_379.047च्द्।
भुक्तन्ते तृप्तिरुत्पन्ना तुष्टिदा साक्षया यतः
ऋतुर् उवाच
क्षुदस्ति यस्य भुते ऽन्ने तुष्टिर्ब्राह्मण जायते ।अप्_379.048अब्।
न मे क्षुदभवत्तृप्तिं कस्मात्त्वं परिपृच्छसि
क्षुत्तृष्णे देहधर्माख्ये न ममैते यतो द्विज ।अप्_379.049अब्।
पृष्टोहं यत्त्वया ब्रूयां(2) तृप्तिरस्त्ये व मे सदा
पुमान् सर्वगतो व्यापी आकाशवदयं यतः ।अप्_379.050अब्।
अतो ऽहं प्रत्यगात्मास्मीत्येतदर्थे भवेत् कथं(3)
सो ऽहं गन्ता(4) न चागन्ता नैकदेशनिकेतनः ।अप्_379.051अब्।
त्वं चान्यो न भवेन्नापि नान्यस्त्वत्तो ऽस्मि वा प्यहं
:न्
1 निदाघऋतुसंवादमद्वैतबुद्धये शृण्विति ख.. , ञ.. च
2 ततः क्षुत्सम्भवाभावादिति ख.. , ञ.. च
3 कुतः कुत्र क्व गन्तासीत्येतदप्यर्थवत् कथमिति ख.. , ञ.. च
4 भोक्तेति क..
:प् 343
मृण्मयं हि गृहं यद्वन्मृदालिप्तं स्थिरीभवेत् ।अप्_379.052अब्।
पार्थिवो ऽयं तथा देहः पार्थिवैः परमाणुभिः
ऋतुरस्मि तवाचार्यः प्रज्ञादानाय ते द्विज ।अप्_379.053अब्।
इहागतो ऽहं यास्यामि परमार्थस्तवोदितः
एकमेवमिदं विद्धि न भेदः सकलं जगत् ।अप्_379.054अब्।
वासुदेवाभिधेयस्य स्वरूपं परमात्मनः
ऋतुर्वर्षसहस्रान्ते पुनस्तन्नगरं ययौ ।अप्_379.055अब्।
निदाघं नगरप्रान्ते एकान्ते स्थितमब्रवीत् ।अप्_379.055च्द्।
एकान्ते स्थीयते कस्मान्निदाघं ऋतुरब्रवीत्
निदाघ उवाच
भो विप्र जनसंवादो महानेष नरेश्वर ।अप्_379.056अब्।
प्रविवीक्ष्य पुरं रम्यं तेनात्र स्थीयते मया
ऋतुर् उवाच
नराधिपो ऽत्र कतमः कतमश्चेतरो जनः ।अप्_379.057अब्।
कथ्यतां मे द्विजश्रेष्ठ त्वमभिज्ञो द्विजोत्तम
यो ऽयं गजेन्द्रमुन्मत्तमद्रिशृङ्गसमुत्थितं ।अप्_379.058अब्।
अधिरूढो नरेन्द्रो ऽयं परिवारस्तथेतरः(1)
गजो यो ऽयमधो ब्रह्मन्नुपर्येष स भूपतिः ।अप्_379.059अब्।
ऋतुराह गजः को ऽत्र राजा चाह निदाघकः
ऋतुर्निदाघ आरूढो दृष्टान्तं पश्य वाहनं ।अप्_379.060अब्।
उपर्यहं यथा राजा त्वमधः कुञ्जरो यथा
ऋतुः(2) प्राह निदाघन्तं कतमस्त्वामहं वदे ।अप्_379.061अब्।
उक्तो निदाघस्तन्नत्वा प्राह मे त्वं गुरुर्ध्रुवम्
:न्
1 आरूढो ऽयं गजं राजा परलोकस्तथेतर इति ख.. , ञ.. च
2 क.. पुस्तके सर्वत्र ऋभुरिति ऋतुस्थानीयः पाठः
:प् 344
नान्यस्माद्द्वैतसंस्कारसंस्कृतं मानसं तथा ।अप्_379.062अब्।
ऋतुः प्राह निदाघन्तं ब्रह्मज्ञानाय चागतः ।अप्_379.062च्द्।
परमार्थं सारभूतमद्वैतं दर्शितं मया
ब्राह्मण उवाच
निदाघो ऽप्युपदेशेन तेनाद्वैतपरो ऽभवत् ।अप्_379.063अब्।
सर्वभूतान्यभेदेन ददृशे स तदात्मनि
अवाप मुक्तिं ज्ञानात्स तथा त्वं मुक्तिमाप्स्यसि ।अप्_379.064अब्।
एकः समस्तं त्वञ्चाहं विष्णुः सर्वगतो यतः
पीतनीलादिभेदेन यथैकं दृश्यते नभः ।अप्_379.065अब्।
भ्रान्तिदृष्टिभिरात्मापि तथैकः स पृथक् पृथक्
अग्निर् उवाच
मुक्तिं ह्य् अवाप भवतो ज्ञानसारेण भूपतिः(1) ।अप्_379.066अब्।
संसाराज्ञानवृक्षारिज्ञानं ब्रह्मेति चिन्तय
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0