भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 38

38.001

:ए इत्य् आदिमहापुराणे आग्नेये सङ्क्षेपपवित्रारोहणं नाम
सप्तत्रिंशो ऽध्यायः ॥
% छप्तेर् {38}
:श् अथ अष्टत्रिंशो ऽध्यायः
देवालयनिर्माणफलं
अग्निर् उवाच
वासुदेवाद्यालयस्य कृतौ वक्ष्ये फलादिकं ।अप्_38.001अब्।
चिकीर्षोर्देवधामादि सहस्रजनिपापनुत्

38.002

मनसा सद्मकर्तॄणां शतजन्माघनाशनं ।अप्_38.002अब्।
येनुमोदन्ति कृष्णस्य क्रियमाणं नरा गृहं(1)

38.003

तेपि पापैर् विनिर्मुक्ताः प्रयान्त्यच्युतलोकतां ।अप्_38.003अब्।
समतीतं भविष्यञ्च कुलानामयुतं नरः

38.004

विष्णुलोकं नयत्याशु कारयित्वा हरेर्गृहं ।अप्_38.004अब्।
वसन्ति(2) पितरो दृष्ट्वा(3) विष्णुलोके ह्य् अलङ्कृताः

38.005

विमुक्ता नारकैर् दुःखैः कर्तुः कृष्णस्य मन्दिरं ।अप्_38.005अब्।
ब्रह्महत्यादिपापौघघातकं देवतालयं

38.006

फलं यन्नाप्यते यज्ञैर् धाम कृत्वा तदाप्यते ।अप्_38.006अब्।
देवागारे कृते सर्वतीर्थस्नानफलं लभेत्

38.007

देवाद्यर्थे हतानाञ्च रणे यत्तत्फलादिकं ।अप्_38.007अब्।
शाठ्येन पांशुना वापि कृतं धाम च नाकदं

38.008

:न्
1 गृहादिकं ग, घ, चिह्नितपुस्तकद्वयपाठः
2 नन्दन्ति इति ख, ग, चिह्नितपुस्तकद्वयपाठः । वल्गन्ति इति ङ,
चिह्नितपुस्तकपाठः
3 हृष्टा इति ख, ग, चिह्नितपुस्तकद्वयपाठः
:प् 109
एकायतनकृत् स्वर्गी त्र्यगारी ब्रह्मलोकभाक् ।अप्_38.008अब्।
पञ्चागारी शम्भुलोकमष्टागाराद्धरौ स्थितिः

38.009

षोडशालयकारी तु(1) भुक्तिमुक्तिमवाप्नुयात् ।अप्_38.009अब्।
कनिष्ठं मध्यमं श्रेष्ठं कारयित्वा हरेर्गृहं

38.010

स्वर्गं च वैष्णवं लोकं मोक्षमाप्नोति च क्रमात् ।अप्_38.010अब्।
श्रेष्ठमायतनं विष्णोः कृत्वा यद्धनवान् लभेत्

38.011

कनिष्ठेनैव तत् पुण्यं प्राप्नोत्यधनवान्नरः ।अप्_38.011अब्।
समुत्पाद्य धनं कृत्या स्वल्पेनापि(2) सुरालयं

38.012

कारयित्वा हरेः पुण्यं सम्प्राप्नोत्यधिकं वरं ।अप्_38.012अब्।
लक्षणाथ सहस्रेण शतेनार्धेन वा हरेः

38.013

कारयन् भवनं याति यत्रास्ते गरुडध्वजः ।अप्_38.013अब्।
बाल्ये तु क्रीडमाणा ये पांशुभिर्भवनं हरेः

38.014

वासुदेवस्य कुर्वन्ति तेपि तल्लोकगामिनः ।अप्_38.014अब्।
तीर्थे चायतने पुण्ये सद्धक्षेत्रे तथाष्टमे

38.015

कर्तुरायतनं विष्णोर्यथोक्तात्त्रिगुणं फलं ।अप्_38.015अब्।
बन्धूकपुष्पविन्यासैः सुधापङ्केन वैष्णवं

38.016

ये विलिम्पन्ति भवनं ते यान्ति भगवत्पुरं ।अप्_38.016अब्।
पतितं पतमानन्तु तथार्धपतितं नरः

38.017

समुद्धृत्य हरेर्धाम प्राप्नोति द्विगुणं फलं ।अप्_38.017अब्।
पतितस्य तु यः कर्ता पतितस्य च रक्षिता

38.018

विष्णोरायतनस्येह नरो विष्णुलोकभाक् ।अप्_38.018अब्।
इष्टकानिचयस्तिष्ठेद् यावदायतने हरेः

38.019

सकुलस्तस्य वै कर्ता विष्णुलोके महीयते ।अप्_38.019अब्।
:न्
1 षोडशागारकारी तु इति ग, चिह्नितपुस्तकपाठः
2 स्वल्पेनैवेति ख, चिह्नितपुस्तकपाठः
:प् 110
स एव पुण्यवान् पूज्य इह लोके परत्र च

38.020

कृष्णस्य वासुदेवस्य यः कारयति केतनं ।अप्_38.020अब्।
जातः स एव सुकृती कुलन्तेनैव पावितं

38.021

विष्णुरुद्रार्कदेव्यादेर्गृहकर्ता स कीर्तिभाक् ।अप्_38.021अब्।
किं तस्य वित्तनिचयैर् मूढस्य परिरक्षितः

38.022

दुःखार्जितैर् यः कृष्णस्य न कारयति केतनं ।अप्_38.022अब्।
नोपभोग्यं धनं यस्य पितृविप्रदिवौकसां

38.023

नोपभोगाय बन्धूनां व्यर्थस्तस्य धनागमः ।अप्_38.023अब्।
यथा ध्रुवो नृणां मृत्युर्वित्तनाशस् तथा ध्रुवः

38.024

मूढस्तत्रानुबध्नाति जीवितेथ चले घने ।अप्_38.024अब्।
यदा वित्तं न दानाय नोपभोगाय देहिनां

38.025

नापि कीर्त्यै न धर्माथं तस्य स्वाम्येथ को गुणः ।अप्_38.025अब्।
तस्माद्वित्तं समासाद्य दैवाद्वा पौरुषादथ

38.026

दद्यात् सम्यग् द्विजाग्र्येभ्यः कीर्तनानि च कारयेत् ।अप्_38.026अब्।
दानेभ्यश्चाधिकं यस्मात् कीर्तनेभ्यो वरं यतः

38.027

अतस्तत्कारयेद्धीमान् विष्ण्वादेर्मन्दिरादिकं ।अप्_38.027अब्।
विनिवेश्य हरेर्धाम भक्तिमद्भिर् नरोत्तमैः

38.028

निवेशितं भवेत् कृत्स्नं त्रैलोक्यं सचराचरं ।अप्_38.028अब्।
भूतं भवयम् भविष्यञ्च स्थूलं सूक्ष्मं तथेतरत्(1)

38.029

आब्राह्मस्तम्बपर्यन्तं सर्वं विष्णोः समुद्भवं ।अप्_38.029अब्।
तस्य देवादिदेवस्य सर्वगस्य(2) महात्मनः

38.030

निवेश्य भवनं विष्णोर् न भूयो भुवि जायते ।अप्_38.030अब्।
यथा विष्णोर्धामकृतौ फलं तद्वद्दिवौकसां

38.031

:न्
1 तथैव च इति ग, चिह्नितपुस्तकपाठः
2 सर्वेशस्य इति ख, चिह्नितपुस्तकपाठः
:प् 111
शिवब्रह्मार्कविघ्नेशचण्डीलक्ष्म्यादिकात्मनां ।अप्_38.031अब्।
देवालयकृतेः पुण्यं प्रतिमाकरणेधिकं(3)

38.032

प्रतिमास्थापने यागे फलस्यान्तो न विद्यते ।अप्_38.032अब्।
मृण्मयाद्दारुजे पुण्यं दारुजादिष्ट्काभवे

38.033

इष्टकोत्थाच्छैलजे स्याद्धेमादेरधिकं फलं ।अप्_38.033अब्।
सप्तजन्मकृतं पापं प्रारम्भादेव नश्यति

38.034

देवालयस्य स्वर्गी स्यान्नरकं न स गच्छति ।अप्_38.034अब्।
कुलानां शतमुद्धृत्य विष्णुलोकं नयेन्नरः

38.035

यमो यमभटानाह देवमन्दिरकारिणः ।अप्_38.035अब्।
यम उवाच
प्रतिमापूजादिकृतो नानेया नरकं नराः

38.036

देवालयाद्यकर्तार आनेयास्ते तु गोचरे(1) ।अप्_38.036अब्।
विसारध्वं यथान्यायन्नियोगो मम पाल्यतां (2)

38.037

नाज्ञाभङ्गं करिष्यन्ति भवतां जन्तवः क्वचित् ।अप्_38.037अब्।
केवलं ते जगत्तातमनन्तं समुपाश्रिताः

38.038

भवद्भिः परिहर्तव्यास्तेषां नात्रास्ति संस्थितिः ।अप्_38.038अब्।
ये च भगवता लोके तच्चित्तास्तत्परायणाः

38.039

पूजयन्ति सदा विष्णुं ते वस्त्याज्याः सुदूरतः ।अप्_38.039अब्।
यस्तिष्ठन् प्रस्वपन् गच्छन्नुत्तिष्ठन् स्खलिते स्थिते(4)

38.040

सङ्कीर्तयन्ति गोविन्दं ते वस्त्याज्याः सुदूरतः ।अप्_38.040अब्।
नित्यनैमित्तिकैर् देवं ये यजन्ति जनार्दनम्

38.041

नावलोक्या भवद्भिस्ते तद्गता यान्ति तद्गतिम् ।अप्_38.041अब्।
:न्
1 आनेयास्त्वविशेषत इति ग, चिह्नितपुस्तकपाठः
2 नियमो मे ऽनुपाल्यतामिति ख, चिह्नितपुस्तकपाठः
3 जन्तवः क्वचिदिति ख, चिह्नितपुस्तकपाठः
:प् 112
ये पुष्पधूपवासोभिर्भूषणैश्चातिवल्लभैः

38.042

अर्चयन्ति न ते ग्राह्या नराः कृष्णालये गताः(1) ।अप्_38.042अब्।
उपलेपनकर्तारः सम्मार्जनपराश् च ये

38.043

कृष्णालये परित्यज्यास्तेषां पुत्रास् तथा कुलम् ।अप्_38.043अब्।
येन चायतनं विष्णोः कारितं तत्कुलोद्भवम्

38.044

पुंसां शतं नावलोक्यं भवद्भिर्दुष्टचेतसा ।अप्_38.044अब्।
यस्तु देवालयं विष्णोर्दारुशैलमयं तथा

38.045

कारयेन् मृण्मयं वापि सर्वपापैः प्रमुच्यते ।अप्_38.045अब्।
अहन्यहनि यज्ञेन यजतो यन् महाफलम्

38.046

प्राप्नोति तत् फलं विष्णोर्यः कारयति केतनं ।अप्_38.046अब्।
कुलानां शतमागामि समतीतं तथा शतं

38.047

कारयन् भगवद्धाम नयत्यच्युतलोकतां ।अप्_38.047अब्।
सप्तलोकमयो विष्णुस्तस्य यः कुरुते गृहं

38.048

तारयत्यक्षयांल्लोकानक्षयान् प्रतिपद्यते ।अप्_38.048अब्।
इष्टकाचयविन्यासो यावन्त्यब्दानि तिष्ठति

38.049

तावद्वर्षसहस्राणि तत्कर्तुर्दिवि संस्थितिः ।अप्_38.049अब्।
प्रतिमाकृद्विष्णुलोकं स्थापको लीयते हरौ ।अप्_38.049च्द्।
देवसद्मप्रतिकृतिप्रतिष्ठाकृत्तु गोचरे

38.050

अग्निर् उवाच
यमोक्ता नानयंस्तेथ प्रतिष्ठादिकृतं हरेः ।अप्_38.050अब्।
हयशीर्षः प्रतिष्ठार्थं(2) देवानां ब्रह्मणे ऽब्रवीत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc