भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 37

37.001

:ए इत्य् आदिमहापुराणे आग्नेये विष्णुपवित्रारोहणं नाम
षट्त्रिंशो ऽध्यायः ॥
% छप्तेर् {37}
:श् अथ सप्तत्रिंशो ऽध्यायः
सर्वदेवपवित्रारोहणविधिः
अग्निर् उवाच
सङ्क्षेपात् सर्वदेवानां पवित्रारोहणं(1) शृणु ।अप्_37.001अब्।
पवित्र सर्वलक्ष्म स्यात् स्वरसानलगं त्वपि

37.002

जगद्योने समागच्छ परिवारगणैः सह ।अप्_37.002अब्।
निमन्त्रयाम्यहं प्रातर्दद्यान्तुभ्यं पवित्रकं ।

37.003

जगत्सृजे(2) नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ।अप्_37.003अब्।
:न्
1 पवित्रारोपणमिति ख, चिह्नितपुस्तकपाठः
2 जगत्सूते इति ङ, चिह्नितपुस्तकपाठः
:प् 107
पवित्रीकरणार्थाय वर्षपूजाफलप्रदं

37.004

शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं ।अप्_37.004अब्।
मणिविद्रुममालाभिर्मन्दारकुसुमादिभिः

37.005

इयं सांवत्सरी पूजा तवास्तु वेदवित्पते ।अप्_37.005अब्।
सांवत्सरीमिमां पूजां सम्पाद्य विधिमन्मम

37.006

व्रज पवित्रकेदानीं स्वर्गलोकं विसर्जितः ।अप्_37.006अब्।
सूर्यदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं

37.007

पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।अप्_37.007अब्।
शिवदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं

37.008

पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।अप्_37.008अब्।
वाणेश्वर(1) नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं

37.009

पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।अप्_37.009अब्।
शक्तिदेव नमस्तुभ्यं गृह्णीष्वेदं पवित्रकं

37.010

पवित्रीकरणार्थाय वर्षपूजाफलप्रदं ।अप्_37.010अब्।
नारायणमयं सूत्रमनिरुद्धमयं वरं(2)

37.011

धनधान्यायुरारोग्यप्रदं सम्प्रददामि ते ।अप्_37.011अब्।
कामदेवमयं सूत्रं सङ्कर्षणमयं वरं

37.012

विद्यासन्ततिसौभाग्यप्रदं सम्प्रददामि ते ।अप्_37.012अब्।
वासुदेवमयं सूत्रं धर्मकामार्थमोक्षदं

37.013

संसारसागरोत्तारकारणं प्रददामि ते ।अप्_37.013अब्।
विश्वरूपमयं सूत्रं सर्वदं पापनाशनं

37.014

:न्
1 गणेश्वर इति ग, घ, ङ, चिह्नितपुस्तकत्रयपाठः
2 परमिति ङ, चिह्नितपुस्तकपाठः
:प् 108
अतीतानागतकुलसमुद्धारं ददामि ते ।अप्_37.014अब्।
कनिष्ठादीनि चत्वारि मनुभिस्तु क्रमाद्ददे

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc