भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 378

378.001

:ए इत्य् आग्नेये महापुराणे समाधिर्नाम सप्तसप्तत्यधिकत्रिशततमो
ऽध्यायः ॥
:प् 335
% छप्तेर् {378}
:श् अथाष्टसप्तत्यधिकत्रिशततमो ऽध्यायः
ब्रह्मज्ञानं
अग्निर् उवाच
यज्ञैश् च देवानाप्नोति वैराजं तपसा पदं ।अप्_378.001अब्।
ब्रह्मणः कर्मसन्न्यासाद्वैराग्यात् प्रकृतौ लयं

378.002

ज्ञानात् प्राप्नोति कैवल्यं पञ्चैता गतयःस्मृताः ।अप्_378.002अब्।
प्रीतितापविषादादेर्विनिवृत्तिर्विरक्तता

378.003

सन्न्यासः कर्मणान्त्यागः कृतानामकृतैः सह ।अप्_378.003अब्।
अव्यक्तादौ विशेषान्ते विकारो ऽस्मिन्निवर्तते

378.004

चेतनाचेतनान्यत्वज्ञानेन ज्ञानमुच्यते ।अप्_378.004अब्।
परमात्मा च सर्वेषामाधारः परमेश्वरः

378.005

विष्णुनाम्ना च देवेषु वेदान्तेषु च गीयते ।अप्_378.005अब्।
यज्ञेश्वरो यज्ञपुमान् प्रवृत्तैर् इज्यते ह्य् असौ

378.006

निवृत्तैर् ज्ञानयोगेन ज्ञानमूर्तिः स चेक्ष्यते ।अप्_378.006अब्।
ह्रस्वदीर्घप्लुताद्यन्तु वचस्तत्पुरुषोत्तमः

378.007

तत्प्राप्तिहेतुर्ज्ञानञ्च कर्म चोक्तं महामुने ।अप्_378.007अब्।
आगमोक्तं विवेकाच्च द्विधा ज्ञानं तथोच्यते

378.008

शब्दब्रह्मागममयं परं ब्रह्म विवेकजम् ।अप्_378.008अब्।
द्वे ब्रह्मणी वेदितव्ये ब्रह्मशब्दपरञ्च यत्

378.009

वेदादिविद्या ह्य् अपरमक्षरं ब्रह्मसत्परम् ।अप्_378.009अब्।
तदेतद्भगवद्वाच्यमुपचारे ऽर्चने ऽन्यतः

378.010

सम्भर्तेति तथा भर्ता भकारो ऽर्थद्वयान्वितः ।अप्_378.010अब्।
नेता गमयिता स्रष्टा गकारो ऽयं महमुने

378.011

:प् 336
ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ।अप्_378.011अब्।
ज्ञानवैराग्ययोश् चैव षणां भग इतीङ्गना

378.012

वसन्ति विष्णौ भुतानि स च धातुस्त्रिधात्मकः ।अप्_378.012अब्।
एवं हरौ हि भगवान् शब्दो ऽन्यत्रोपचारतः

378.013

उत्पत्तिं प्रलयश् चैव भूतानामगतिं गतिं ।अप्_378.013अब्।
वेत्ति विद्यामविद्याञ्च स वाच्यो भगवानिति

378.014

ज्ञानशक्तिः परैश्वर्यं वीर्यं तेजांस्यशेषतः ।अप्_378.014अब्।
भगवच्छब्दवाच्यानि विना हेयैर् गुणादिभिः

378.015

खाण्डिक्यजनकायाह योगं केशिध्वजः पुरा ।अप्_378.015अब्।
अनात्मन्यात्मबुद्धिर्या आत्मस्वमिति या मतिः

378.016

अविद्याभवम्भूतिर्वीजमेतद्द्विधा स्थिरम् ।अप्_378.016अब्।
पञ्चभूतात्मके देहे देही मोहतमाश्रितः

378.017

अहमेतदितीत्युच्चैः कुरुते कुमतिर्मतिं ।अप्_378.017अब्।
इत्थञ्च पुत्रपौत्रेषु तद्देहोत्पातितेषु च

378.018

करोति पण्डितः साम्यमनात्मनि कलेवरे ।अप्_378.018अब्।
सर्वदेहोपकाराय कुरुते कर्म मानवः

378.019

देहश्चान्यो यदा पुंसस्तदा बन्धाय तत्परं ।अप्_378.019अब्।
निर्वाणमय एवायमात्मा ज्ञानमयो ऽमलः

378.020

दुःखज्ञानमयो ऽधर्मः प्रकृतेः स तु नात्मनः ।अप्_378.020अब्।
जलस्य नाग्निना सङ्गः स्थालीसङ्गात्तथापि हि

378.021

शब्दास्ते कादिका धर्मास्तत् कृता वै महामुने ।अप्_378.021अब्।
तथात्मा प्रकृतौ सङ्गादहंमानादिभूषितः

378.022

भजते प्राकृतान्धर्मान् अन्यस्तेभ्यो हि सो ऽव्ययः ।अप्_378.022अब्।
:प् 337
वन्धाय विषयासङ्गं मनो निर्विषयं धिये

378.023

विषयात्तत्समाकृष्य ब्रह्मभूतं हरिं स्मरेत् ।अप्_378.023अब्।
आत्मभावं नयत्येनं तद्ब्रह्मध्यायिनं मुने

378.024

विचार्य स्वात्मनः शक्त्या लौहमाकर्षको यथा ।अप्_378.024अब्।
आत्मप्रयत्नसापेक्षा विशिष्टा या मनोगतिः

378.025

तस्या ब्रह्मणि संयोगो योग इत्य् अभिधीयते ।अप्_378.025अब्।
विनिष्पन्दः समाधिस्थः परं ब्रह्माधिगच्छति

378.026

यमैः सन्नियमैः स्थित्या प्रत्याहृत्या मरुज्जयैः ।अप्_378.026अब्।
प्राणायामेन पवनैः प्रत्याहारेण चेन्द्रियैः

378.027

वशीकृतैस्ततः कुर्यात् स्थितं चेतः शुभाश्रये ।अप्_378.027अब्।
आश्रयश्चेतसो ब्रह्म मूर्तञ्चामूर्तकं द्विधा

378.028

सनन्दनादयो ब्रह्मभावभावनया युताः ।अप्_378.028अब्।
कर्मभावनया चान्ये देवाद्याः स्थावरान्तकाः

378.029

हिरण्यगर्भादिषु च ज्ञानकर्मात्मिका द्विधा ।अप्_378.029अब्।
त्रिविधा भावना प्रोक्ता विश्वं ब्रह्म उपास्यते

378.030

प्रत्यस्तमितभेदं यत् सत्तामात्रमगोचरं ।अप्_378.030अब्।
वचसामात्मसंवेद्यं तज्ज्ञानं ब्रह्म संज्ञितम्

378.031

तच्च विष्णोः परं रूपमरूपस्याजमक्षरं ।अप्_378.031अब्।
अशक्यं प्रथमं ध्यातुमतो मूर्तादि चिन्तयेत्

378.032

सद्भावभावमापन्नस्ततो ऽसौ परमात्मना ।अप्_378.032अब्।
भवत्यभेदी भेदश् च तस्याज्ञानकृतो भवेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc