अग्नि पुराण · अध्याय 377
:ए इत्य् आग्नेये महापुराणे ब्रह्मज्ञानं नाम
षट्सप्तत्यधिकत्रिशततमो ऽध्यायः
% छप्तेर् {377}
:श् अथ सप्तसप्तत्यधिकत्रिशततमो ऽध्यायः
ब्रह्मज्ञानं
अग्निर् उवाच
अहं ब्रह्म परं ज्योतिः पृथिव्यवनलोज्झितं ।अप्_377.001अब्।
अहं ब्रह्म परं ज्योतिर्वाय्वाकाशविवर्जितं
अहं ब्रह्म परं ज्योतिरादिकार्यविवर्जितम् ।अप्_377.002अब्।
अहं ब्रह्म परं ज्योतिर्विराडात्मविवर्जितं
अहं ब्रह्म परं ज्योतिर्जाग्रत्स्थानविवर्जितम् ।अप्_377.003अब्।
अहं ब्रह्म परं ज्योतिर्विश्वभावविवर्जितम्
अहं ब्रह्म परं ज्योतिराकाराक्षरवर्जितं ।अप्_377.004अब्।
अहं ब्रह्म परं ज्योतिर्वाक्पाण्यङ्घ्रिविवर्जितम्
:प् 333
अहं ब्रह्म परं ज्योतिः पायूपस्थविवर्जितं ।अप्_377.005अब्।
अहं ब्रह्म परं ज्योतिः श्रोत्रत्वक्चक्षुरुज्झितं
अहं ब्रह्म परं ज्योतीरसरूपविवर्जितम् ।अप्_377.006अब्।
अहं ब्रह्म परं ज्योतिः सर्वगन्धविवर्जितम्
अहं ब्रह्म परं ज्योतिर्जिह्वाघ्राणविवर्जितं ।अप्_377.007अब्।
अहं ब्रह्म परं ज्योतिः स्पर्शशब्दविवर्जितं
अहं ब्रह्म परं ज्योतिर्मनोबुद्धिविवर्जितं ।अप्_377.008अब्।
अहं ब्रह्म परं ज्योतिश्चित्ताहङ्कारवर्जितं
अहं ब्रह्म परं ज्योतिः प्राणापानविवर्जितं ।अप्_377.009अब्।
अहं ब्रह्म परं ज्योतिर्व्यानोदानविवर्जितं
अहं ब्रह्म परं ज्योतिः समानपरिवर्जितं ।अप्_377.010अब्।
अहं ब्रह्म परं ज्योतिर्जरामरणवर्जितं
अहं ब्रह्म परं ज्योतिः शोकमोहविवर्जितं ।अप्_377.011अब्।
अहं ब्रह्म परं ज्योतिः क्षुत्पिपासाविवर्जितं
अहं ब्रह्म परं ज्योतिः शब्दोद्भूतादिवर्जितं ।अप्_377.012अब्।
अहं ब्रह्म परं ज्योतिर्हिरण्यगर्भवर्जितं
अहं ब्रह्म परं ज्योतिः स्वप्नावस्थाविवर्जितं ।अप्_377.013अब्।
अहं ब्रह्म परं ज्योतिस्तैजसादिविवर्जितं
अहं ब्रह्म परं ज्योतिरपकारादिवर्जितं ।अप्_377.014अब्।
अहं ब्रह्म परं ज्योतिः सभाज्ञानविवर्जितं
अहं ब्रह्म परं ज्योतिरध्याहृतविवर्जितं ।अप्_377.015अब्।
अहं ब्रह्म परं ज्योतिः सत्त्वादिगुणवर्जितं
अहं ब्रह्म परं ज्योतिः सदसद्भाववर्जितं ।अप्_377.016अब्।
:प् 334
अहं ब्रह्म परं ज्योतिः सर्वावयववर्जितं
अहं ब्रह्म परं ज्योतिर्भेदाभेदविवर्जितं ।अप्_377.017अब्।
अहं ब्रह्म परं ज्योतिः सुषुप्तिस्थानवर्जितम्
अहं ब्रह्म परं ज्योतिः प्राज्ञभावविवर्जितम् ।अप्_377.018अब्।
अहं ब्रह्म परं ज्योतिर्मकारादिविवर्जितम्
अहं ब्रह्म परं ज्योतिर्मानमेयविवर्जितम् ।अप्_377.019अब्।
अहं ब्रह्म परं ज्योतिर्मितिमाहृविवर्जितम्
अहं ब्रह्म परं ज्योतिः साक्षित्वादिविवर्जितम् ।अप्_377.020अब्।
अहं ब्रह्म परं ज्योतिः कार्यकारणवर्जितम्
देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितं ।अप्_377.021अब्।
जाग्रत् सप्नसुषुप्त्यादिमुक्तं ब्रह्म तुरीयकं
नित्यशुद्धबुद्धमुक्तं सत्यमानन्दमद्वयम् ।अप्_377.022अब्।
ब्रह्माहमस्म्यहं ब्रह्म सविज्ञानं विमुक्त ओं ।अप्_377.022च्द्।
अहं ब्रह्म परं ज्योतिः समाधिर्मोक्षदः परः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0