भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 376

376.001

:ए इत्य् आग्नेये महापुराणे समाधिर्नाम पञ्चसप्तत्यधिकत्रिशततमो
ऽध्यायः
:प् 330
% छप्तेर् {376}
:श् अथ षट्सप्तत्यधिकत्रिशततमो ऽध्यायः
ब्रह्मज्ञानं
अग्निर् उवाच
ब्रह्मज्ञानं प्रवक्ष्यामि संसाराज्ञानमुक्तये ।अप्_376.001अब्।
अयमात्मा पर्ं ब्रह्म अहमस्मीति मुच्यते

376.002

देह आत्मा न भवति दृस्यत्वाच्च घटादिवत् ।अप्_376.002अब्।
प्रसप्ते मरणे देहादात्मान्यो ज्ञायते ध्रुवं

376.003

देहः स चेदव्यवहरेद्विकार्यादिसन्निभः ।अप्_376.003अब्।
चक्षुरादीनीन्द्रियाणि नात्मा वै करणं त्वतः

376.004

मनो धीरपि आत्मा न दीपवत् करणं त्वतः ।अप्_376.004अब्।
प्राणो ऽप्यात्मा न भवति सुषुप्ते चित्प्रभावतः

376.005

जाग्रत्स्वप्ने च चैतन्यं सङ्कीर्णत्वान्न बुध्यते ।अप्_376.005अब्।
विज्ञानरहितः प्राणः सुषुप्ते ज्ञायते यतः

376.006

अतो नात्मेन्द्रियं तस्मादिन्त्रियादिकमात्मनः ।अप्_376.006अब्।
अहङ्कारो ऽपि नैवात्मा देहवद्व्यभिचारतः

376.007

उक्तेभ्यो व्यतिरिक्तो ऽयमात्मा सर्वहृदि स्थितः ।अप्_376.007अब्।
सर्वद्रष्टा च भोक्ता च नक्तमुज्ज्वलदीपवत्

376.008

समाध्यारम्भकाले च एवं सञ्चिन्तयेन्मुनिः ।अप्_376.008अब्।
यतो ब्रह्मण आकाशं खाद्वायुर्वायुतो ऽनलः

376.009

अग्नेरापो जलात्पृथ्वी ततः सूक्ष्मं शरीरकं ।अप्_376.009अब्।
अपञ्चीकृतभूतेभ्य आसन् पञ्चीकृतान्यतः

376.010

:प् 331
स्थूलं शरीरं ध्यात्वास्माल्लयं ब्रह्मणि चिन्तयेत् ।अप्_376.010अब्।
पञ्चीकृतानि भूतानि तत्कार्यञ्च विराट्स्मृतम्

376.011

एतत् स्थूलं शरीरं हि आत्मनो ज्ञानकल्पितं ।अप्_376.011अब्।
इन्द्रियैर् अथ विज्ञानं धीरा जागरितं विदुः

376.012

विश्वस्तदभिमानी स्यात् त्रयमेतदकारकं ।अप्_376.012अब्।
अपञ्चीकृतभूतानि तत्कार्यं लिङ्गमुच्यते

376.013

संयुक्तं सप्तदशभिर्हिरण्यगर्भसंज्ञितं ।अप्_376.013अब्।
शरीरमात्मनः सूक्ष्मं लिङ्गमित्यभिधीयते

376.014

जाग्रत्संस्कारजः स्वप्नः प्रत्ययो विषयात्मकः ।अप्_376.014अब्।
आत्मा तदुपमानी स्त्यात्तैजसो ह्य् अप्रपञ्चतः

376.015

स्थूलसूक्ष्मशरीराख्यद्वयस्यैकं हि कारणं ।अप्_376.015अब्।
आत्मा ज्ञानञ्च साभासं तदध्याहृतमुच्यते

376.016

न सन्नासन्न सदसदेतत्सावयवं न तत् ।अप्_376.016अब्।
निर्गतावयवं नेति नाभिन्नं भिन्नमेव च

376.017

भिन्नाभिन्नं ह्य् अनिर्वाच्यं बन्धसंसारकारकं ।अप्_376.017अब्।
एकं स ब्रह्म विज्ञानात् प्राप्तं नैव च कर्मभिः

376.018

सर्वात्मना हीन्द्रियाणां संहारः कारणात्मनां ।अप्_376.018अब्।
बुद्धेः स्थानं सुषुप्तं स्यात्तद्द्वयस्याभिमानवान्

376.019

प्राज्ञ आत्मा त्रयञ्चैतत् मकारः प्रणवः स्मृतः ।अप्_376.019अब्।
अकारश् च उकारो ऽसौ मकारो ह्य् अयमेव च

376.020

अहं साक्षी च चिन्मात्रो जाग्रत्स्वप्नादिकस्य च ।अप्_376.020अब्।
नाज्ञानञ्चैव तत्कार्यं संसारादिकबन्धनं

376.021

नित्यशुद्धबन्धमुक्तसत्यमानन्दमद्वयं ।अप्_376.021अब्।
:प् 332
ब्रह्माहमस्म्यहं ब्रह्म परं ज्योतिर्विमुक्त ओं

376.022

अहं ब्रह्म परं ज्ञानं समाधिर्बन्धघातकः ।अप्_376.022अब्।
चिरमानन्दकं ब्रह्म सत्यं ज्ञानमनन्तकं

376.023

अयमात्मा परम्ब्रह्म तद् ब्रह्म त्वमसीति च ।अप्_376.023अब्।
गुरुणा बोधितो जीवो ह्य् अहं ब्रह्मास्मि वाह्यतः

376.024

सो ऽसावादित्यपुरुषः सो ऽसावहमखण्ड ओं ।अप्_376.024अब्।
मुच्यते ऽसारसंसाराद्ब्रह्मज्ञो ब्रह्म तद्भवेत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc