भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 375

375.001

:ए इत्य् आग्नेये महापुराणे धारणा नाम
चतुःसप्तत्यधिकत्रिशततमो ऽध्यायः ॥
% छप्तेर् {375}
:श् अथ पञ्चसप्तत्यधिकत्रिशततमो ऽध्यायः
समाधिः
अग्निर् उवाच
यदात्ममात्रं निर्भासं स्तिमितोदधिवत् स्थितं ।अप्_375.001अब्।
चैतन्यरूपवद्ध्यानं तत् समाधिरिहोच्यते

375.002

ध्यायन्मनः सन्निवेश्य यस्तिष्ठेदचलस्थिरः ।अप्_375.002अब्।
निर्वातानलवद्योगी समाधिस्थः प्रकीर्तितः

375.003

न शृणोति न चाघ्राति न पश्यति न वम्यति ।अप्_375.003अब्।
न च स्पर्शं विजानाति न सङ्कल्पयते मनः

375.004

न चाभिमन्यते किञ्चिन्न च बुध्यति काष्ठवत् ।अप्_375.004अब्।
एवमीश्वरसंलीनः समाधिस्थः स गीयते

375.005

:प् 326
यथा दीपो निवातस्यो नेङ्गते सोपमा स्मृता ।अप्_375.005अब्।
ध्यायतो विष्णुमात्मानं समाधिस्तस्य योगिनः

375.006

उपसर्गाः प्रवर्तन्ते दिव्याः सिद्धिप्रसूचकाः ।अप्_375.006अब्।
पातितः श्रावणो धातुर्दशनस्वाङ्गवेदनाः

375.007

प्रार्थयन्ति च तं देवा भोगैर् दिव्यैश् च योगिनं ।अप्_375.007अब्।
नृपाश् च पृथिवीदानैर् धनैश् च सुधनाधिपाः

375.008

वेदादिसर्वशास्त्रञ्च स्वयमेव प्रवर्तते ।अप्_375.008अब्।
अभीष्टछन्दोविषयं काव्यञ्चास्य प्रवर्तते

375.009

रसायनानि दिव्यानि दिव्याश् चौषधयस् तथा ।अप्_375.009अब्।
समस्तानि च शिल्पानि कलाः सर्वाश् च विन्दति

375.010

सुरेन्द्रकन्या इत्य् आद्या गुणाश् च प्रतिभादयः ।अप्_375.010अब्।
तृणवत्तान्त्यजेद् यस्तु तस्य विष्णुः प्रसीदति

375.011

अणिमादिगुणैश्वर्यः शिष्ये ज्ञानं प्रकाश्य च ।अप्_375.011अब्।
भुक्त्वा भोगान् यथेच्छातस्तनुन्त्यक्त्वालयात्ततः

375.012

तिष्ठेत् स्वात्मनि विज्ञान आनन्दे ब्रह्मणीश्वरे।अप्_375.012अब्।
मलिनो हि यथादर्श आत्मज्ञानाय न क्षमः

375.013

सर्वाश्रयन्निजे देहे देही विन्दति वेदनां ।अप्_375.013अब्।
योगयुक्तस्तु सर्वेषां योगान्नाप्नोति वेदनां

375.014

आकाशमेकं हि यथा घटादिषु पृथग् भवेत् ।अप्_375.014अब्।
तथात्मैको ह्य् अनेकेषु जलाधारेष्विवांशुमान्

375.015

ब्रह्मखानिलतेजांसि जलभूक्षितिधातवः ।अप्_375.015अब्।
इमे लोका एष चात्मा तस्माच्च सचराचरं

375.016

:प् 327
गृद्दण्दचक्रसंयोगात् कुम्भकारो यथा घटं ।अप्_375.016अब्।
करोति तृणमृत्काष्ठैर् गृहं वा गृहकारकः

375.017

करणान्येवमादाय तासु तास्विह योनिषु ।अप्_375.017अब्।
मृजत्यात्मानमात्मैवं सम्भूय करणानि च

375.018

कर्मणा दोषमोहाभ्यामिच्छयैव स बध्यते ।अप्_375.018अब्।
ज्ञानाद्विमुच्यते जीवो धर्माद् योगी न रोगभाक्

375.019

वर्त्याधारस्नेहयोगाद् यथा दीपस्य संस्थितिः ।अप्_375.019अब्।
विक्रियापि च दृष्ट्वैवमकाले प्राणसंक्षयः

375.020

अनन्ता रश्मयस्तस्य दीपवद् यः स्थितो हृदि ।अप्_375.020अब्।
सितासिताः कद्रुनीलाः कपिलाः पीतलोहिताः

375.021

ऊर्ध्वमेकः स्थितस्तेषां यो भित्त्वा सूर्यमण्डलं ।अप्_375.021अब्।
ब्रह्मलोकमतिक्रम्य तेन याति पराङ्गतिं

375.022

यदस्यान्यद्रश्मिशतमूर्ध्वमेव व्यवस्थितं ।अप्_375.022अब्।
तेन देवनिकायानि धामानि प्रतिपद्यते

375.023

ये नैकरूपाश्चाधस्ताद्रश्मयो ऽस्य मृदुप्रभाः ।अप्_375.023अब्।
इह कर्मोपभोगाय तैश् च सञ्चरते हि सः

375.024

बुद्धीन्द्रियाणि सर्वाणि मनः कर्मेन्द्रियाणि च ।अप्_375.024अब्।
अहङ्कारश् च बुद्धिश् च पृथिव्यादीनि चैव हि

375.025

अव्यक्त आत्मा क्षेत्रज्ञः क्षेत्रस्त्यास्य निगद्यते ।अप्_375.025अब्।
ईश्वरः सर्वभूतस्य सन्नसन् सदसच्च सः

375.026

बुद्धेरुत्पत्तिरव्यक्ता ततो ऽहङ्कारसम्भवः ।अप्_375.026अब्।
तस्मात् खादीनि जायन्ते एकोत्तरगुणानि तु

375.027

:प् 328
शब्दः स्पर्शश् च रूपञ्च रसो गन्धश् च तद्गुणाः ।अप्_375.027अब्।
यो यस्मिन्नाश्रितश् चैषां स तस्मिन्नेव लीयते

375.028

सत्त्वं रजस्तमश् चैव गुणास्तस्यैव कीर्तिताः ।अप्_375.028अब्।
रजस्तमोभ्यामाविष्टश् चक्रवद्भ्राभ्यते हि सः

375.029

अनादिरादिमान् यश् च स एव पुरुषः परः ।अप्_375.029अब्।
लिङ्गेन्द्रियैर् उपग्राह्याः स विकार उदाहृतः

375.030

यतो देवाः पुराणानि विद्योपनिषदस् तथा ।अप्_375.030अब्।
श्लोकाः सूत्राणि भाष्याणि यच्चान्यद्माङ्भयं भवेत्

375.031

पितृयानोपवीथ्याश् च यदगस्त्यस्य चान्तरं ।अप्_375.031अब्।
तेनाग्निहोत्रिणो यान्ति प्रजाकामा दिवं प्रति

375.032

ये च दानपराः सम्यगष्टाभिश् च गुणैर् युताः ।अप्_375.032अब्।
अष्टाशीतिसहस्राणि मुनयो गृहमेधिनः

375.033

पुनरावर्तने वीजभूता धर्मप्रवर्तकाः ।अप्_375.033अब्।
सप्तर्षिनाग्वीथ्याश् च देवलोकं समाश्रिताः

375.034

तावन्त एव मुनयः सर्वारम्भविवर्जिताः ।अप्_375.034अब्।
तपसा ब्रह्मचर्येण सङ्गत्यागेन मेधया

375.035

यत्र यत्रावतिष्ठन्ते यावदाहूतसंप्लवं ।अप्_375.035अब्।
वेदानुवचनं यज्ञा ब्रह्मचर्यं तपो दमः

375.036

श्रद्धोपवासः सत्यत्वमात्मनो ज्ञानहेतवः ।अप्_375.036अब्।
स त्वाश्रमैर् निदिध्यास्यः समस्तैर् एवमेव तु

375.037

द्रष्टव्यस्त्वथ मन्तव्यः श्रोतव्यश् च द्विजातिभिः ।अप्_375.037अब्।
य एवमेनं विन्दन्ति ये चारण्यकमाश्रिताः

375.038

उपासते द्विजाः सत्यं श्रद्धया परया युताः ।अप्_375.038अब्।
:प् 329
क्रमात्ते सम्भवन्त्यर्चिरहः शुक्लं तथोत्तरं

375.039

अयनन्देवलोकञ्च सवितारं सविद्युतं ।अप्_375.039अब्।
ततस्तान् पुरुषो ऽभ्येत्य मानसो ब्रह्मलौकिकान्

375.040

करोति पुनरावृत्तिस्तेषामिह न विद्यते ।अप्_375.040अब्।
यज्ञेन तपसा दानैर् ये हि स्वर्गजितो जनाः

375.041

धूमं निशां कृष्णपक्षं दक्षिणायनमेव च ।अप्_375.041अब्।
पितृलोकं चन्द्रमसं नभो वायुं जलं महीं

375.042

क्रमात्ते सम्भवन्तीह पुनरेव व्रजन्ति च ।अप्_375.042अब्।
एतद्यो न विजानाति मार्गद्वितयमात्मनः

375.043

दन्दशूकः पतङ्गो वा भवेद्कीटो ऽथवा कृमिः ।अप्_375.043अब्।
हृदये दीपवद्ब्रह्म ध्यानाज्जिवो मृतो भवेत्

375.044

न्यायागतधनस्तत्त्वज्ञाननिष्ठो ऽतिथिप्रियः ।अप्_375.044अब्।
श्राद्धकृत्सत्यवादी च गृहस्थो ऽपि विमुच्यते

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc