भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 374

374.001

:ए इत्य् आग्नेये महापुराणे ध्यानं नाम त्रिसप्तत्यधिकत्रिशततमो
ऽध्यायः ॥
:न्
1 प्राप्नुयाद्धरिमिति ख.. । प्राप्यते फलमिति ञ..
:प् 323
% छप्तेर् {374}
:श् अथ चतुःसप्तत्यधिकत्रिशततमो ऽध्यायः
धारणा
अग्निर् उवाच
धारणा मनसोध्येये संस्थितिर्ध्यानवद्द्विधा ।अप्_374.001अब्।
मूर्तामूर्तहरिध्यानमनोधारणतो हरिः

374.002

यद्वाह्यावस्थितं लक्षयं तस्मान्न चलते मनः ।अप्_374.002अब्।
तावत् कालं प्रदेशेषु धारणा मनसि स्थितिः

374.003

कालावधि परिच्छिन्नं देहे संस्थापितं मनः ।अप्_374.003अब्।
न प्रच्यवति यल्लक्ष्याद्धारणा साभिधीयते

374.004

धारणा द्वादशायामा ध्यानं द्वदशधारणाः ।अप्_374.004अब्।
ध्यानं द्वादशकं यावत्समाधिरभिधीयते

374.005

धारणाभ्यासयुक्तात्मा यदि प्राणैर् विमुच्यते ।अप्_374.005अब्।
कुलैकविंशमुत्तार्य स्वर्याति परमं पदं(1)

374.006

यस्मिन् यस्मिन् भवेदङ्गे योगिनां व्याधिसम्भवः ।अप्_374.006अब्।
तत्तदङ्गं धिया व्याप्य धारयेत्तत्त्वधारणं

374.007

आग्नेयी वारुणी चैव ऐशानी चामृतात्मिका ।अप्_374.007अब्।
साग्निः शिखा फडन्ता च विष्णोः कार्या द्विजोत्तम

374.008

नाडीभिर्विकटं दिव्यं शूलाग्रं वेधयेच्छुभम् ।अप्_374.008अब्।
पादाङ्गुष्ठात् कपालान्तं रश्मिमण्डलमावृतं

374.009

:न्
1 स्वयं याति परं पदमिति ख..
:प् 324
तिर्यक्चाधोर्ध्वभागेभ्यः प्रयान्त्यो ऽतीव तेजसा(1) ।अप्_374.009अब्।
चिन्तयेत् साधकेन्द्रस्तं यावत्सर्वं महामुने

374.010

भस्प्रीभूतं शरीरं स्वन्ततश् चैवीपसंहरेत् ।अप्_374.010अब्।
शीतश्लेष्मादयः पापं विनश्यन्ति द्विजातयः

374.011

शिरो धीरञ्च(2) कारञ्च कण्ठं चाधोमुखे स्मरेत् ।अप्_374.011अब्।
ध्यायेदच्छिन्नचिन्तात्मा भुयो भूतेन चात्मना

374.012

स्फुरच्छीकरसंस्मर्शप्रभूते हिमगामिभिः ।अप्_374.012अब्।
धाराभिरखिलं विश्वमापूर्य भुवि चिन्तयेत्

374.013

ब्रह्मरन्ध्राच्च संक्षोभाद्यावदाधारमण्डलग् ।अप्_374.013अब्।
सुषुम्नान्तर्गतो भूत्वा संपूर्णेन्दुकृतालयं

374.014

संप्लाव्य हिमसंस्पर्शतोयेनामृतमूर्तिना ।अप्_374.014अब्।
क्षुत्पिपासाक्रमप्रायसन्तापपरिपीडितः

374.015

धारयेद्वारुणीं मन्त्रो तुष्ट्यर्थं चाप्यतन्त्रितः ।अप्_374.015अब्।
वारुणीधारणा प्रोक्ता ऐशानीधारणां शृणु

374.016

व्योम्नि ब्रह्ममये पद्मे प्राणापाणे क्षयङ्गते ।अप्_374.016अब्।
प्रसादं चिन्तयेद् विष्णोर्यावच्चिन्ता क्षयं गता

374.017

महाभावञ्जपेत् सर्वं ततो व्यापक ईश्वरः ।अप्_374.017अब्।
अर्धेन्दुं परमं शान्तं निराभासन्निरञ्जनं

374.018

असत्यं सत्यमाभाति तावत्सर्वं चराचरं ।अप्_374.018अब्।
यावत् स्वस्यन्दरूपन्तु न दृष्टं गुरुवक्त्रतः

374.019

दृष्ठे तस्मिन् परे तत्त्वे आब्रह्म सचराचरं ।अप्_374.019अब्।
:न्
1 पाठो ऽयमादर्शदोषेण दुष्टः
2 वीरश्चेति ञ..
:प् 325
प्रमातृमानमेयञ्च ध्यानहृत्पद्मकल्पनं

374.020

मातृमोदकवत्सर्वं जपहोमार्चनादिकं ।अप्_374.020अब्।
विष्णुमन्त्रेण वा कुर्यादमृतां धारणां वदे

374.021

संपूर्णेन्दुनिभं ध्यायेत् कमलं तन्त्रिमुष्टिगम् ।अप्_374.021अब्।
शिरःस्थं चिन्तयेद् यत्नाच्छशाङ्कायुतवर्चसं

374.022

सम्पूर्णमण्डलं व्योम्नि शिवकल्लोलपूर्णितं ।अप्_374.022अब्।
तथा हृत्कमले ध्यायेत्तन्मध्ये स्वतनुं स्मरेत् ।अप्_374.022च्द्।
साधको विगतक्लेशो जायते धारणादिहिः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc