भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 373

373.001

:ए इत्य् आग्नेये महापुराणे आसनप्राणायामप्रत्याहारा नाम
द्विसप्तत्यधिकत्रिशततमो ऽध्यायः
% छप्तेर् {373}
:श् अथ त्रिसप्तत्यधिकत्रिशततमो ऽध्यायः
ध्यानम्
अग्निर् उवाच
ध्यै चिन्तायां स्मृतो धातुर्विष्णुचिन्ता मुहूर्मुहुः ।अप्_373.001अब्।
अनाक्षिप्तेन मनसा ध्यानमित्यभिधीयते

373.002

आत्मनः समनस्कस्य मुक्ताशेषोपधस्य च ।अप्_373.002अब्।
ब्रह्मचिन्तासमा शक्तिर्ध्यानं नाम तदुच्यते

373.003

ध्येयालम्बनसंस्थस्य सदृशप्रत्ययस्य च ।अप्_373.003अब्।
प्रत्यान्तरनिर्मुक्तः प्रत्ययो ध्यानमुच्यते

373.004

ध्येयावस्थितचित्तस्य प्रदेशे यत्र कुत्रिचित् ।अप्_373.004अब्।
ध्यानमेतत्समुद्दिष्टं प्रत्ययस्यैकभावना

373.005

एवं ध्यानसमायुक्तः खदेहं यः परित्यजेत् ।अप्_373.005अब्।
कुलं स्वजनमित्राणि समुद्धृत्य हरिर्भवेत्

373.006

एवं मुहूर्तमर्धं वा ध्यायेद् यः श्रद्धया हरिं ।अप्_373.006अब्।
सोपि यां गतिमाप्नोति न तां सर्वैर् महामखैः

373.007

:न्
1 भोगनद्यभिवेशेनेति ञ..
:प् 320
ध्याता ध्यानं तथा ध्येयं यच्च ध्यानप्रयोजनं ।अप्_373.007अब्।
एतच्चतुष्टयं ज्ञात्वा योगं युञ्जीत तत्त्ववित्

373.008

योगाभ्यासाद्भवेन्मूक्तिरैश्वर्यञ्चाष्टधा महत् ।अप्_373.008अब्।
ज्ञानवैराग्यसम्पन्नः श्रद्दधानः क्षमान्वितः

373.009

विष्णुभक्तः सदोत्साही ध्यातेत्थं पुरुषः स्मृतः ।अप्_373.009अब्।
मूर्तामूर्तं परम्ब्रह्म हरेर्ध्यानं हि चिन्तनम्

373.010

सकलो निष्कलो ज्ञेयः सर्वज्ञः परमो हरिः ।अप्_373.010अब्।
अणिमादिगुणैश्वर्यं मुक्तिर्ध्यानप्रयोजनम्

373.011

फलेन योजको विष्णुरतो ध्यायेत् परेश्वरं ।अप्_373.011अब्।
गच्छंस्तिष्ठन् स्वपन् जाग्रदुन्मिषन् निमिषन्नपि

373.012

शुचिर्वाप्यशुचिर्वापि ध्यायेत् शततमीश्वरम् ।अप्_373.012अब्।
स्वदेहायतनस्यान्ते मनसि स्थाप्य केशवम्

373.013

हृत्पद्मपीठिकामध्ये ध्यानयोगेन(1) पूजयेत् ।अप्_373.013अब्।
ध्यानयज्ञः परः शुद्धः सर्वदोषविवर्जितः

373.014

तेनेष्ट्वा मुक्तिमाप्नोति वाह्यशुद्धैश् च नाध्वरैः ।अप्_373.014अब्।
हिंसादोषविमुक्तित्वाद्विशुद्धिश्चित्तसाधनः

373.015

ध्यानयज्ञः परस्तस्मादपवर्गफलप्रदः ।अप्_373.015अब्।
तस्माद्शुद्धं सन्त्यज्य ह्य् अनित्यं वाह्यसाधनं

373.016

यज्ञाद्यं कर्म सन्त्यज्य योगमत्यर्थमभ्यसेत् ।अप्_373.016अब्।
विकारमुक्तमव्यक्तं भोग्यभोगसमन्वितं

373.017

चिन्तयेद्धृदये पूर्वं क्रमादादौ गुणत्रयं ।अप्_373.017अब्।
तमः प्रच्छाद्य रजसा सत्त्वेन च्छादयेद्रजः

373.018

:न्
1 ध्यानमार्गेणेति ख.. , ज.. च
:प् 321
ध्यायेत्त्रिमण्डलं पूर्वं कृष्णं रक्तं सितं क्रमात् ।अप्_373.018अब्।
सत्त्वोपाधिगुणातीतः पुरुषः पञ्चविंशकः(1)

373.019

ध्येयमेतदशुद्धञ्च त्यक्त्वा शुद्धं विचिन्तयेत् ।अप्_373.019अब्।
ऐश्वर्यं पङ्कजं दिव्यं पुरुशोपरि संस्थितं

373.020

द्वादशाङ्गुलविस्तीर्णं शुद्धं विकशितं सितं ।अप्_373.020अब्।
नालमष्टाङ्णूलं तस्य नाभिकन्दसमुद्भवं

373.021

पद्मपत्राष्टकं ज्ञेयमणिमादिगुणाष्टकम् ।अप्_373.021अब्।
कर्णिकाकेशरं नालं ज्ञानवैराग्यमुत्तमम्

373.022

विष्णुधर्मश् च तत्कन्दमिति पद्मं विचिन्तयेत् ।अप्_373.022अब्।
तद्धर्मज्ञानवैराग्यं शिवैश्वर्यमयं परं

373.023

ज्ञात्वा पद्मासनं सर्वं सर्वदुःखान्तमाप्नुयात् ।अप्_373.023अब्।
तत्पद्मकर्णिकामध्ये शुद्धदीपशिखाकृतिं(2)

373.024

अङ्गुष्ठमात्रममलं ध्यायेदोङ्कारमीश्वरं ।अप्_373.024अब्।
कदम्बगोलकाकारं तारं रूपमिव स्थितं

373.025

ध्यायेद्वा रश्मिजालेन दीप्यमानं समन्ततः ।अप्_373.025अब्।
प्रधानं पुरुषातीतं स्थितं पद्मस्थमीश्वरं

373.026

ध्यायेज्जपेच्च सततमोङ्कारं परमक्षरं ।अप्_373.026अब्।
मनःस्थित्यर्थमिच्छान्ति स्थूलध्यानमनुक्रमात्

373.027

तद्भूतं निश् चलीभूतं लभेत् सूक्ष्मे ऽपि संस्थितं ।अप्_373.027अब्।
नाभिकन्दे स्थितं नालं दशाङ्गुलसमायतं

373.028

नालेनाष्टदलं पद्मं द्वादशाङ्गुलविस्तृतं ।अप्_373.028अब्।
:न्
1 सत्त्वोपाधिसमायुक्तः सदा ध्येयश् च केशव इति ख..
2 लब्धदीपशिखाकृतिमिति ख.. , ञ.. च
:प् 322
सकर्णिके केसराले सूर्यसोमाग्निमण्डलं

373.029

अग्निमण्डलमध्यस्थः शङ्खचक्रगदाधरः ।अप्_373.029अब्।
पद्मी चतुर्भुजो विष्णुरथ वाष्टभुजो हरिः

373.030

शार्ङ्गाक्षवलयधरः पाशाङ्कुशधरः परः ।अप्_373.030अब्।
स्वर्णवर्णः श्वेतवर्णः सश्रोवत्सः सकौस्तुभः

373.031

वनमाली स्वर्णहारी स्फुरन्मकरकुण्डलः ।अप्_373.031अब्।
रत्नोज्ज्वलकिरीटश् च पीताम्बरधरो महान्

373.032

सर्वाभरणभूषाढ्यो वितस्तर्वा यथेच्छया ।अप्_373.032अब्।
अहं ब्रह्म ज्योतिरात्मा वाउदेवो बिमुक्त ओं

373.033

ध्यानाच्छ्रान्तो जपेन्मन्त्रं जपाच्छ्रान्तश् च चिन्तयेत् ।अप्_373.033अब्।
जपध्यानादियुक्तस्य विष्णुः शीघ्रं प्रसीदति

373.034

जपयज्ञस्य वै यज्ञाः कलां नार्हन्ति षोडशीं ।अप्_373.034अब्।
जपिनं नोपसर्पन्ति व्याधयश्चाधयो ग्रहाः ।अप्_373.034च्द्।
भुक्तिर्मुर्क्तिर्मृत्युजयो जपेन प्राप्नुयात् फलं(1)

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc