अग्नि पुराण · अध्याय 372
:ए इत्य् आग्नेये महापुराणे यमनियमा नामैकसप्तत्यधिकत्रिशततमो
ऽध्यायः
:प् 317
% छप्तेर् {372}
:श् अथ द्विसप्त्यधिकत्रिशततमो ऽध्यायः
आसनप्राणायामप्रत्याहाराः
अग्निर् उवाच
आसनं कमलाद्युक्तं तद्बद्ध्वा चिन्तयेत्परं ।अप्_372.001अब्।
शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः
नात्युच्छ्रितं नातिनीचं चेलाजिनकुशोत्तरं ।अप्_372.002अब्।
तत्रैकाग्रं मनः कृत्वा यातचित्तेन्द्रियक्रियः
उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ।अप्_372.003अब्।
समकायशीरग्रीवं धारयन्नचलं स्थिरः
सम्प्रेक्ष्य नासिकाग्रं स्वन्दिशश्चानवलोकयन् ।अप्_372.004अब्।
पार्ष्णिभ्यां वृषणौ रक्षंस् तथा प्रजननं पुनः
उरुभ्यामुपरिस्थाप्य वाहू तिर्यक् प्रयत्नतः ।अप्_372.005अब्।
दक्षिणं करपृष्ठञ्च न्यसेद्धामतलोपरि
उन्नम्य शनकैर् वक्रं मुखं विष्टभ्य चाग्रतः ।अप्_372.006अब्।
प्राणः स्वदेहजो वायुस्तस्यायामो निरोधनं
नासिकापुटमङ्गुल्या पीड्यैव च परेण च ।अप्_372.007अब्।
आदरं रेचयेद्वायुं रेचनाद्रेचकः स्मृतः
वाह्येन वायुना देहं दृतिवत् पूरयेद्यथा ।अप्_372.008अब्।
तथा पुर्णश् च सन्तिष्ठेत् पूरणात् पूरकः स्मृतः
न भुञ्चति न गृह्णाति वायुमन्तर्वाहिःस्थितम् ।अप्_372.009अब्।
सम्पूर्णकुम्भवत्तिष्ठेदचलः स तु कुम्भकः
:प् 318
कन्यकः(1) सकृदुद्घातः स वै द्वादशमात्रिकः ।अप्_372.010अब्।
मध्यमश् च द्विरुद्घातश् चतुर्विंशतिमात्रिकः
उत्तमश् च त्रिरुद्घातः षट्त्रिंशत्तालमात्रिकः ।अप्_372.011अब्।
स्वेदकम्पाभिधातानाम् जननश्चोत्तमोत्तमः
अजितान्नारुहेद्भूमिं हिक्काश्वासादयस् तथा ।अप्_372.012अब्।
जिते प्राणे खल्पदोजविन्मूत्रादि प्रजायते
आरोग्यं शीघ्रगामित्वमुत्साहः स्वरसौष्ठवम् ।अप्_372.013अब्।
बलवर्णप्रसादश् च सर्वदोषक्षयः फलं
जपध्यानं विनागर्भः स गर्भस्तत्समन्वितः ।अप्_372.014अब्।
इन्द्रियाणां जयार्थाय स गर्भं धारयेत्परं
ज्ञानवैराग्ययुक्ताभ्यां प्राणायामवशेन च ।अप्_372.015अब्।
इन्द्रियांश् च विनिर्जित्य सर्वमेव जितं भवेत्
इन्द्रियाण्येव तत्सर्वं यत् स्वर्गनरकावुभौ ।अप्_372.016अब्।
निगृहीतविसृष्टानि स्वर्गाय नरकाय च
शरीरं रथमित्याहुरिन्द्रियाण्यस्य वाजिनः ।अप्_372.017अब्।
मनश् च सारथिः प्रोक्तः प्राणायामः कशः(2)स्मृतः
ज्ञानवैराग्यरश्मिभ्यां सायया विधृतं मनः ।अप्_372.018अब्।
शनैर् निश्चलताम् एति प्राणायामैकसंहितम्
जलविन्दुं कुशाग्रेण मासे मासे पिवेत्तु यः ।अप्_372.019अब्।
संवत्सरशतं साग्रं प्राणयामश् च तत्समः
इन्द्रियाणि प्रसक्तानि प्रविश्य विषयोदधौ ।अप्_372.020अब्।
:न्
1 कन्यस इति ञ..
2 प्राणायामो ऽङ्कुश इति झ..
:प् 319
आहृत्य यो निगृह्णाति प्रत्याहारः स उच्यते
उद्धरेदात्मनात्मानं मज्जमानं यथाम्भसि ।अप्_372.021अब्।
भोगनद्यतिवेगेन(1) ज्ञानवृक्षं समाश्रयेत्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0