अग्नि पुराण · अध्याय 371
:ए इत्य् आग्नेये महापुराणे नरकनिरूपणं नाम
सप्तत्यधिकत्रिशततमो ऽध्यायः
% छप्तेर् {371}
:श् अथैकसप्तत्यधिकत्रिशततमो ऽध्यायः
यमनियमाः
अग्निर् उवाच
संसारतापमुक्त्यर्थं वक्ष्याम्य् अष्टाङ्गयोगकं ।अप्_371.001अब्।
ब्रह्मप्रकाशकं ज्ञानं(1) योगस्तत्रैकचित्तता
चित्तवृत्तिर्निरोधश् च जीवब्रह्मात्मनोः परः ।अप्_371.002अब्।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ
यमाः पञ्च स्मृता नियमाद्भुक्तिमुक्तिदाः ।अप्_371.003अब्।
शौचं सन्तोषतपसी स्वाध्यायेश्वरपूजने
भूतापीडा ह्य् अहिंसा स्यादहिंसा धर्म उत्तमः ।अप्_371.004अब्।
यथा गजपदे ऽन्यानि(2) पदानि पथगामिनां(3)
एवं सर्वमहिंसायां धर्मार्थमभिधीयते ।अप्_371.005अब्।
उद्वेगजननं हिंसा सन्तापकरणन्तथा
रुक्कृतिः शोनितकृतिः पैशुन्यकरणन्तथा ।अप्_371.006अब्।
:न्
1 ब्रह्मप्रकाशनं ज्ञानमिति ञ..
2 यथा नागपदे ऽन्यानीति क..
3 पदगामिनामिति ख.. , ज.. च
:प् 314
हितस्यातिनिषेधश् च मर्मोद्घाटनमेव च
सुखापह्नुतिः संरोधो बधो दशविथा च सा ।अप्_371.007अब्।
यद्भूतहितमत्यन्तं वचः सत्यस्य लक्षणं
सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियं ।अप्_371.008अब्।
प्रियञ्च नानृतं ब्रूयादेष धर्मः सनातनः
मैथुनस्य परित्यागो ब्रह्मचर्यन्तदष्टधा ।अप्_371.009अब्।
स्मरणं कीर्तनं केलिः प्रेक्ष्यणं गुह्यभाषणं
सङ्कल्पो ऽध्यवसायश् च क्रियानिर्वृत्तिरेव च ।अप्_371.010अब्।
एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः
ब्रह्मचर्यं क्रियामूलमन्यथा विफला क्रिया ।अप्_371.011अब्।
वसिष्ठश् चन्द्रमाः शुक्रो देवाचार्यः पितामहः
तपोवृद्धा वयोवृद्धास्ते ऽपि स्त्रीभिर्विमोहिताः ।अप्_371.012अब्।
गौडी पैष्टी च माध्वी च विज्ञेयास्त्रिविधाः सुराः
चतुर्थी स्त्री सुरा ज्ञेया ययेदं मोहितं जगत् ।अप्_371.013अब्।
माद्यति प्रमदां दृष्ट्वा सुरां पीत्वा तु माद्यति
यस्माद्दृष्टमदा नारी तस्मात्तान्नावलोकयेत् ।अप्_371.014अब्।
यद्वा तद्वापरद्रव्यमपहृत्य बलान्नरः
अवश्यं याति तिर्यक्त्वं जग्ध्वा चैवाहुतं हविः ।अप्_371.015अब्।
कौपीनाच्छादनं वासः कन्थां शीतनिवारिणीं
पादुके चापि गृह्णीयात् कुर्यान्नान्यस्य संग्रहं ।अप्_371.016अब्।
देहस्थितिनिमित्तस्य वस्त्रादेः स्यात्परिग्रहः
शरीरं धर्मसंयुक्तं रक्षणीयं प्रयत्नतः ।अप्_371.017अब्।
शौचन्तु द्विविधं प्रोक्तं वाह्यमभ्यन्तरं तथा
:प् 315
गृज्जलाभ्यां स्मृतं वाह्यं भावशुद्धेरथान्तरं ।अप्_371.018अब्।
उभयेन शुचिर्यस्तु स शुचिर्नेतरः शुचिः
यथा कथञ्चित्प्राप्त्या च सन्तोषस्तुष्टिरुच्यते ।अप्_371.019अब्।
मनसश्चेन्द्रियाणाञ्च ऐकाग्र्यं तप उच्यते
तज्जयः सर्वधर्मेभ्यः स धर्मः पर उच्यते ।अप्_371.020अब्।
वाचिकं मन्त्रजप्यादि मानसं रागवर्जनं
शारीरं देवपूजादि सर्वदन्तु त्रिधा तपः ।अप्_371.021अब्।
प्रणवाद्यास्ततो वेदाः प्रणवे पर्यवस्थिताः
वाङ्मयः प्रणवः सर्वं तस्मात्प्रणवमभ्यसेत् ।अप्_371.022अब्।
अकारश् च तथोकारो मकारश्चार्धमात्रया
तिस्रो मात्रास्त्रयो वेदाः लोका भूरादयो गुणाः ।अप्_371.023अब्।
जाग्रत्स्वप्नः सुषुप्तिश् च ब्रह्मविष्णुमहेश्वराः
प्रद्युम्नः श्रीर्वासुदेवः सर्वमोङ्गारकः क्रमात् ।अप्_371.024अब्।
अमात्रो नष्टमात्रश् च द्वैतस्यापगमः शिवः
ओङ्कारो विदितो येन स मुनिर्नेतरो मुनिः ।अप्_371.025अब्।
चतुर्थी मात्रा गान्धारी प्रयुक्ता मूर्ध्निलक्ष्यते
तत्तुरीयं परं ब्रह्म ज्योतिर्दीपो घटे यथा ।अप्_371.026अब्।
तथा हृत्पद्मनिलयं ध्यायेन्नित्यं जपेन्नरः
प्रणवो धनुः शरो ह्य् आत्मा ब्रह्म तल्लक्ष्यमुच्यते ।अप्_371.027अब्।
अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत्
एतेदेकाक्षरं ब्रह्म एतदेकाक्षरं परं ।अप्_371.028अब्।
देतदेकाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत्
छन्दो ऽस्य देवी गायत्री अन्तर्यामी ऋषिः स्मृतः ।अप्_371.029अब्।
:प् 316
देवता परमात्मास्य नियोगो भुक्तिमुक्तये
भूरग्न्यात्मने हृदयं भुवः प्राजापत्यात्मने ।अप्_371.030अब्।
शिरः स्वःसूर्यात्मने च शिखा कवचमुच्यते
ओंभूर्भुवः स्वःकवचं सत्यात्मने ततो ऽस्त्रकं ।अप्_371.031अब्।
विन्यस्य पूजयेद्विष्णुं जपेद्वै भुक्तिमुक्तये
जुहुयाच्च तिलाज्यादि सर्वं सम्पद्यते नरे ।अप्_371.032अब्।
यस्तु द्वादशसाहस्रं जपमन्वहमाचरेत्
तस्य द्वादशभिर्मासैः परं ब्रह्म प्रकाशते ।अप्_371.033अब्।
अनिमादि कोटिजप्याल्लक्षात्सारस्वतादिकं
वैदिकस्तान्त्रिको मिश्रो विष्णार्वै त्रिविधो मखः ।अप्_371.034अब्।
त्रयानामीप्सितेनैकविधिना हरिमर्चयेत्
प्रणम्य दण्डवद्भूमौ नमस्कारेण यो ऽर्चयेत् ।अप्_371.035अब्।
स याङ्गतिमवाप्नोति न तां क्रतुशतैर् अपि
यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ ।अप्_371.036अब्।
तस्यैते कथिता ह्य् अर्थाः प्रकाशन्ते महात्मनः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0