अग्नि पुराण · अध्याय 370
:ए इत्य् आग्नेये महापुराणे शरीरावयवा नामो न
सप्तत्यधिकत्रिशततमो ऽध्यायः
% छप्तेर् {370}
:श् अथसप्रत्यधिकत्रिशततमो ऽध्यायः
नरकनिरूपणम्
अग्निर् उवाच
उक्तानि यममार्गाणि वक्ष्ये ऽथ मरणे नृणां ।अप्_370.001अब्।
ऊष्मा प्रकुपितः काये तीव्रवायुसमीरितः
शरीरमुपरुध्याथ कृत्स्नान्दोषान्रुणद्धि वै ।अप्_370.002अब्।
छिनत्ति प्राणस्थानानि पुनर्मर्माणि चैव हि
शैत्यात् प्रकुपितो वायुश्छिद्रमन्विष्यते ततः ।अप्_370.003अब्।
द्वे नेत्रे द्वौ तथा कर्णौ द्वौ तु नासापुटौ तथा
ऊर्ध्वन्तु सप्त च्छिद्राणि अष्टमं वदनं तथा ।अप्_370.004अब्।
एतैः प्राणो विनिर्याति प्रायशः शुभकर्मणां
अधः पायुरुपस्थञ्च अनेनाशुभकारिणां ।अप्_370.005अब्।
:न्
1 पिण्डं कृत्वा तुव्न्यसेदिति ञ..
:प् 310
मूर्धानं योगिनो भित्त्वा जीवो यात्यथ चेच्छया
अन्तकाले तु सम्प्राप्रे प्राणे ऽपानमुपस्थिते ।अप्_370.006अब्।
तमसा संवृते ज्ञाने संवृतेषु च मर्मसु
स जिवो नाभ्यधिष्टानश्चाल्यते मातरिश्वना ।अप्_370.007अब्।
बाध्यमाणश्चानयते अष्टाङ्गाः प्राणवृत्तिकाः
च्यवन्तं जायमानं वा प्रविशन्तञ्च योनिषु ।अप्_370.008अब्।
प्रपश्यन्ति च तं सिद्धा देवा दिव्येन चक्षुपा
गृह्णाति तत्क्षणाद्योगे शरीरञ्चातिवाहिकम् ।अप्_370.009अब्।
आकाशवायुतेजांसि विग्रहादूर्ध्वगामिनः
जलं मही च पञ्चत्वमापन्नः पुरुषः स्मृतः ।अप्_370.010अब्।
आतिवाहिकदेहन्तु यमदूता नयन्ति तं
याम्यं मार्गं महाघोरं षडशीतिसहस्रकम् ।अप्_370.011अब्।
अन्नोदकं नीयमानो बान्धवैर् दत्तमश्नुते
यमं दृष्ट्वा यमोक्तेन चित्रगुप्तेन चेरितान् ।अप्_370.012अब्।
प्राप्नोति नरकान्रौद्रान्धर्मी शुभपथैर् दिवम्
भुज्यन्ते पापिभिर्वक्ष्ये नरकांस्ताश् च यातनाः ।अप्_370.013अब्।
अष्टाविंशतिरेवाधःक्षितेर्नरककोटयः
सप्तमस्य तलस्यान्ते घोरे तमसि संस्थिताः ।अप्_370.014अब्।
घोराख्या प्रथमाकोटिः सुघोरा तदधःस्थिता
अतिघोरा महाघोरा घोररूपा च पञ्चमी ।अप्_370.015अब्।
षष्ठी तरलताराख्या सप्तमी च भयानका
भयोत्कटा कालरात्री महाचण्डा च चण्डया ।अप्_370.016अब्।
कोलाहला प्रचण्डाख्या पद्मा नरकनायिका
:प् 311
पद्मावती भीषणा च भीमा चैव करालिका ।अप्_370.017अब्।
विकराला महावज्रा त्रिकोणा पञ्चकोणिका
सदीर्घा वर्तुला सप्तभूमा चैव सुभूमिका ।अप्_370.018अब्।
दीप्तमायाष्टाविंशतयः कोटयः पापिदुःखदाः
अष्टाविंशतिकोटीनां पञ्च पञ्च च नायकाः ।अप्_370.019अब्।
रौरवाद्याः शतञ्चैकं चत्वारिंशच्चतुष्टयं
तामिश्रमन्धतामिश्रं महारौरवरौरवौ ।अप्_370.020अब्।
असिपत्रं वनञ्चैव लोहभारं तथैव च
नरकं कालसूत्रञ्च महानरकमेव व ।अप्_370.021अब्।
सञ्जीवनं महावीचि तपनं सम्प्रतापनं
सङ्घातञ्च सकाकोलं कुद्मलं पूतिमृत्तिकं ।अप्_370.022अब्।
लोहशङ्कुमृजीषञ्च प्रधानं शाल्मलीं नदीम्
नरकान्विद्धि कोटीशनागन्वै घोरदर्शनान् ।अप्_370.023अब्।
पात्यन्ते पापकर्माण एकैकस्मिन्बहुष्वपि
मार्जारोलूकगोमायुगृघ्रादिवदनाश् च ते ।अप्_370.024अब्।
तैलद्रोण्यां नरं क्षिप्त्वा ज्वालयन्ति हुताशनं
अम्बरीषेषु चैवान्यांस्ताम्रपात्रेषु चापरान् ।अप्_370.025अब्।
अयःपात्रेषु चैवान्यान् बहुवह्निकणेषु च
शूलाग्रारोपिताश्चान्ये छिद्यन्ते नरके ऽपरे ।अप्_370.026अब्।
ताड्यन्ते च कशाभिस्तु भोज्यन्ते चाप्ययोगुडान्
यमदूतैर् नराः पांशून्विष्ठारक्तकफादिकान् ।अप्_370.027अब्।
तप्तं मद्यं पाययन्ति पाटयन्ति पुनर्नरान्
यन्त्रेषु पीडयन्ति स्म भक्ष्यन्ते वायसादिभिः ।अप्_370.028अब्।
:प् 312
तैलेनोष्णेन सिच्यन्ते छिद्यन्ते नैकघा शिरः
हा तातेति क्रन्दमानाः स्वकन्निदन्ति कर्म ते ।अप्_370.029अब्।
महापातकजान्घोरान्नरकान्प्राप्य गर्हितान्
कर्मक्षयात्प्रजायन्ते महापातकिनस्त्विह ।अप्_370.030अब्।
मृगश्वशूकरोष्ट्राणां ब्रह्महा योनिमृच्छति
खरपुक्कशम्लेच्छानां मद्यपः स्वर्णहार्यपि ।अप्_370.031अब्।
कृमिकीटपतङ्गत्वं गुरुगस्तृणगुल्मतां
ब्रह्महा क्षयरोगी स्यात् सुरापः श्यावदन्तकः ।अप्_370.032अब्।
स्वर्णहारी तु कुनखी दुश् चर्मा गुरुतल्पगः
यो येन संस्पृशत्येषां स तल्लिङ्गो ऽभिजायते ।अप्_370.033अब्।
अन्नहर्ता मायावी स्यान्मूको वागपहारकः
धान्यं हृत्वातिरिक्ताङ्गः पिशुनः पूतिनासिकः ।अप्_370.034अब्।
तैलहृत्तैलपायी स्यात् पूतिवक्त्रस्तु सूचकः
परस्य योषितं हृत्वा ब्रह्मस्वमपहृत्य च ।अप्_370.035अब्।
अरण्ये निर्जने देशे जायते ब्रह्मराक्षसः
रत्नहारी हीनजातिर्गन्धान् छुछुन्दरी शुभान् ।अप्_370.036अब्।
पत्रं शाकं शिखी हृत्वा मुखरो धान्यहारकः
अजः पशुंपयः काको यानमुष्ट्रः(1) फलं कपिः ।अप्_370.037अब्।
मधु दंशः फलं गृध्रो गृहकाक उपस्करं
शिवत्री वस्त्रं सारसञ्च झल्ली लवणहारकः ।अप्_370.038अब्।
उक्त आध्यात्मिकस्तापः शस्त्राद्यैर् आधिभौतिकः
ग्रहाग्निदेवपीडाद्यैर् आधिकैविक ईरितः ।अप्_370.039अब्।
:न्
1 यानं वस्त+इति ख..
:प् 313
त्रिथा तापं हि संसारं ज्ञानयोगाद्विनाशयेत् ।अप्_370.039च्द्।
कृच्छ्रैर् व्रतैश् च दानाद्यैर् विष्णुपूजादिभिर्नरः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0