भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 369

369.001

:ए इत्य् आग्नेये महापुराणे आत्यन्तिकलयगर्भोत्पत्तिनिरूपणं
नामाष्टष्ट्यधिकत्रिशततमो ऽध्यायः
% छप्तेर् {369}
:श् अथोनसप्तत्यधिकत्रिशततमो ऽध्यायः
शरीरावयवाः
अग्निर् उवाच
श्रोत्रं त्वक् चक्षुषी जिह्वा घ्राणं धीः खुञ्च भूतगं ।अप्_369.001अब्।
शब्दस्पर्शरूपरमगन्धाः खादिषु तद्गुणाः

369.002

पायूपस्थौ करौ पादौ वाग्भवेत् कर्मखुन्तथा ।अप्_369.002अब्।
उत्सर्गानन्दकादानगतिवागादि कर्म तत्

369.003

पञ्चकर्मेन्द्रियान्यत्र पञ्चबुद्धीन्द्रियाणि च ।अप्_369.003अब्।
इन्द्रियार्थाश् च पञ्चैव महाभूता मनो ऽधिपाः

369.004

आत्माव्यक्तश् चतुर्विंशतत्त्वानि पुरुषः परः ।अप्_369.004अब्।
संयुक्तश् च वियुक्तश् च यथा मत्स्योदके उभे

369.005

अव्यक्तमास्रितानीह रजःसत्त्वतमांसि च ।अप्_369.005अब्।
आन्तरः पुरुषो जीवः स परं ब्रह्म कारणं

369.006

स याति परमं स्थानं यो वेत्ति पुरुषं परं ।अप्_369.006अब्।
सप्ताशयाः स्मृता देहे रुधिरस्यैक आशयः

369.007

श्लेष्मणश्चामपित्ताभ्यां पक्वाशयस्तु पञ्चमः ।अप्_369.007अब्।
:प् 306
वायुमूत्राशयः सप्तः स्त्रीणां गर्भाशयो ऽष्टमः

369.008

पित्तात्पक्वाशयो ऽग्नेः स्याद्योनिर्विकशिता द्युतौ ।अप्_369.008अब्।
पद्मवद्गर्भाशयः स्यात्तत्र घत्ते सरक्तकं

369.009

शुक्रं स्वशुक्रतश्चाङ्गं कुन्तलान्यत्र कालतः ।अप्_369.009अब्।
न्यस्तं शुक्रमतो योनौ नेति गर्भाशयं मुने

369.010

ऋतावपि च योनिश्चेद्वातपित्तकफावृता ।अप्_369.010अब्।
भवेत्तदा विकाशित्वं नैव तस्यां प्रजायते

369.011

बुक्कात्पुक्कसकप्लीहकृतकोष्ठाङ्गहृद्व्रणाः ।अप्_369.011अब्।
तण्डकश् च महाभाग निबद्धान्याशये मतः

369.012

रसस्य पच्यमानस्य साराद्भवति देहिनां ।अप्_369.012अब्।
प्लीहा यकृच्च धर्मज्ञ रक्तफेणाच्च पुक्कसः

369.013

रक्तं पित्तञ्च भवति तथा तण्डकसंज्ञकः ।अप्_369.013अब्।
मेदोरक्तप्रसाराच्च वुक्कायाः सम्भवः स्मृतः

369.014

रक्तमांसप्रसाराच्च भवन्त्यन्त्राणि देहिनां ।अप्_369.014अब्।
सार्धत्रिव्यामसंख्यानि तानि नॄणां विनिर्दिशेत्

369.015

त्रिव्यामानि तथा स्त्रीणां प्राहुर्वेदविदो जनः ।अप्_369.015अब्।
रक्तवायुसमायोगात् कामेयस्योद्भवः स्मृतः

369.016

कफप्रसाराद्भवति हृदयं पद्मसन्निभं ।अप्_369.016अब्।
अधोमुखं तच्छूषिरं यत्र जीवो व्यवस्थितः

369.017

चैतन्यानुगता भावःसर्वे तत्र व्यवस्थिताः ।अप्_369.017अब्।
तस्य वामे तथा प्लीहा दक्षिणे च तथा यकृत्

369.018

दक्षिणे च तथा क्लोम पद्मस्यैवं प्रकीर्तितं ।अप्_369.018अब्।
श्रोतांसि यानि देहे ऽस्मिन् कफरक्तवहानि च

369.019

:प् 307
तेषां भूतानुमानाच्च भवतीन्द्रियसम्भवः ।अप्_369.019अब्।
नेत्रयोर्मण्डलं शुक्लं कफाद्भवति पैतृकं

369.020

कृष्णञ्च मण्डलं वातात्तथा मवति मातृकं ।अप्_369.020अब्।
पित्तात्त्वङ्मण्डलं ज्ञेयं मातापितृसमुद्भवं

369.021

मांसासृक्कफजा जिह्वा मेदो ऽसृक्कफमांसजौ ।अप्_369.021अब्।
वृषाणौ दश प्राणस्य ज्ञेयान्यायतनानि तु

369.022

मूर्धा हृन्नाभिकण्ठाश् च जिह्वा शुक्रञ्च शोणितं ।अप्_369.022अब्।
गुदं वस्तिश् च गुल्फञ्च कण्डुराः शोडशेरिताः

369.023

द्वे करे द्वे च चरणे चतस्रः पृष्ठतो गले ।अप्_369.023अब्।
देहे पादादिशीर्षान्ते जालानि चैव षोडश

369.024

मांसस्नायुशिरास्थिन्यः चत्वारश् च पृथक् पृथक् ।अप्_369.024अब्।
मणिबन्धनगुल्फेषु निबद्धानि परस्परं

369.025

षट्कूर्चानि स्मृतानीह हस्तयोः पादयोः पृथक् ।अप्_369.025अब्।
ग्रीवायाञ्च तथा मेढ्रे कथितानि मनीषिभिः

369.026

पृष्ठवंशस्योपगताश् चतस्रो मांसरज्जवः ।अप्_369.026अब्।
नवत्यश् च तथा पेश्यस्तासां बन्धनकारिकाः

369.027

सीरण्यश् च तथा सप्त पञ्च मूर्धानमाश्रिताः ।अप्_369.027अब्।
एकैका मेढ्रजिह्वास्ता अस्थि षष्टिशतत्रयं

369.028

सूक्ष्मैः सह चतुःषष्ठिर्दशना विंशतिर्नखाः ।अप्_369.028अब्।
पाणिपादशलाकाश् च तासां स्थानचतुष्टयं

369.029

षष्ट्यङ्गुलीनां द्वे पार्ष्ण्योर्गुल्फेषु च चतुष्टयं ।अप्_369.029अब्।
चत्वार्यरत्न्योरस्थीनि जङ्घयोस्तद्वदेव तु

369.030

द्वे द्वे जानुकपोलोरुफलकांशसमुद्भवं ।अप्_369.030अब्।
:प् 308
अक्षस्थानांशकश्रोणिफलके चैवमादिशेत्

369.031

भगास्तोकं तथा पृष्ठे चत्वारिंशच्च पञ्च च ।अप्_369.031अब्।
ग्रीवायाञ्च तथास्थीनि जत्रुकञ्च तथा हमुः

369.032

तन्मूलं द्वेललाटाक्षिगण्डनासाङ्घ्य्रवस्थिताः ।अप्_369.032अब्।
पर्शुकास्तालुकैः सार्धमर्वुदैश् च द्विसप्ततिः

369.033

द्वेशङ्खके कपालानि चत्वार्येव शिरस् तथा ।अप्_369.033अब्।
उरः सप्तदशास्थीनि सन्धीनां द्वे शते दश

369.034

अष्टषष्टिस्तु शाखासु षष्टिश् चैकविवर्जिता ।अप्_369.034अब्।
अन्तरा वै त्र्यशीतिश् च स्नायोर् नवशतानि च

369.035

त्रिंशाधिके द्वे शते तु अन्तराधौ तु सप्ततिः ।अप्_369.035अब्।
ऊर्ध्वगाः षट्शतान्येव शाखास्तु कथितानि तु

369.036

पञ्चपेशीशतान्येव(1) चत्वारिंशत्तथोर्ध्वगाः ।अप्_369.036अब्।
चतुःशतन्तु शाखासु अन्तराधौ च षष्टिका

369.037

स्त्रीणाम् चैकाधिका वै स्याद्विंशतिश् चतुरुत्तरा ।अप्_369.037अब्।
स्तनयोर्दश योनौ च त्रयोदश तथाशये

369.038

गर्भस्य च चतस्रः स्युः शिराणाञ्च शरीरिणां ।अप्_369.038अब्।
त्रिंशच्छतसहस्राणि तथान्यानि नवैव तु

369.039

षट्पञ्चाशत्सहस्राणि रसन्देहे वहन्ति ताः ।अप्_369.039अब्।
केदार इव कुल्याश् च क्लेदलेपादिकञ्च यत्

369.040

द्वासप्ततिस् तथा कोट्यो व्योम्नामिह महामुने ।अप्_369.040अब्।
मज्जाया मेदसश् चैव वसायाश् च तथा द्विज

369.041

मूत्रस्य चैव पित्तस्य श्लेष्मणः शकृतस् तथा ।अप्_369.041अब्।
:न्
1 पञ्चपेशीशतान्यत्रेति ख.. , ञ.. च
:प् 309
रक्तस्य सरसस्यात्र क्रमशो ऽञ्जलयो मताः

369.042

अर्धार्धाभ्यधिकाः सर्वाः पूर्वपूर्वाञ्जलेर्मताः ।अप्_369.042अब्।
अर्धाञ्जलिश् च शुक्रस्य तदर्धञ्च ततौजसः

369.043

रजसस्तु तथा स्त्रीणाञ्चतस्रः कथिता बुधैः ।अप्_369.043अब्।
शरीरं मलदोषादि पिण्डं ज्ञात्वात्मनि त्यजेत्(1)

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc