अग्नि पुराण · अध्याय 368
:ए इत्य् आग्नेये महापुराणे नित्यनैमित्तिकप्राकृतप्रलया नाम
सप्तषष्ट्यधिकत्रिशततमो ऽध्यायः
% छप्तेर् {368}
:श् अथाष्टषष्ट्यधिकत्रिशततमो ऽध्यायः
आत्यन्तिकलयगर्भोत्पत्तिनिरूपणं
अग्निर् उवाच
आत्यन्तिकं लयं वक्ष्ये ज्ञानादात्यन्तिको लयः ।अप्_368.001अब्।
आध्यात्मिकादिसन्तापं ज्ञात्वा स्वस्य विरागतः
:प् 301
आध्यात्मिकस्तु सन्तापःशारीरो मानसो द्विधा ।अप्_368.002अब्।
शारीरो बहुभिर्भेदैस्तापो ऽसौ श्रूयतां द्विज
त्यक्त्वा जीवो भोगदेहं गर्भमाप्रोति कर्मभिः ।अप्_368.003अब्।
आतिवाहिकसंज्ञस्तु देहो भवति वै द्विज
केवलं स मनुष्याणां मृत्युकाल उपस्थिते ।अप्_368.004अब्।
याम्यैः पुंभिर्मनुष्याणां तच्छरीरं द्विजोत्तमाः
नीयते याम्यमार्गेण प्राणिनां मुने ।अप्_368.005अब्।
ततः स्वर्याति नरकं स भ्रमेद्घटयन्त्रवत्
कर्मभूमिरियं ब्रह्मन् फलभूमिरसौ स्मृता ।अप्_368.006अब्।
यमो योनीश् च नरकं निरूपयति कर्मणा
पूरणीयाश् च तेनैव यमञ्चैवानुपश्यतां ।अप्_368.007अब्।
वायुभूताः प्राणिनश् च गर्भन्ते प्राप्नुवन्ति हि
यमदूतैर् मनुष्यस्तु नीयते तञ्च पश्यति ।अप्_368.008अब्।
धर्मी च पूज्यते तेन पापिष्ठस्ताड्यते गृहे
शुभाशुभं कर्म तस्य चित्रगुप्तो निरूपयेत् ।अप्_368.009अब्।
बान्धवानामशौचे तु देहे खल्वातिवाहिके
तिष्ठन्नयति धर्मज्ञ दत्तपिण्डाशनन्ततः ।अप्_368.010अब्।
तन्यक्त्वा प्रेतदेहन्तु प्राप्यान्यं प्रेतलोकतः(1)
वसेत् क्षुधा तृषा युक्त आमश्राद्धान्नभुङ्नरः ।अप्_368.011अब्।
आतिवाहिकेदेहात्तु प्रेतपिण्डैर् विना नरः
न हि मोक्षमवाप्नोति पिण्डांस्तत्रैव सो ऽश्रुते ।अप्_368.012अब्।
कृते सपिण्डीकरणे नरः संवत्सरात्परं
:न्
1 प्रेतलौकिके इति ख..
:प् 302
प्रेतदेहं समुतमृज्य भोगदेहं प्रपद्यते ।अप्_368.013अब्।
भोगदेहावुभौ प्रोक्तावशुभशुभसंज्ञितौ
भुक्त्वा तु भोगदेहेन कर्मबन्धान्निपात्यते ।अप्_368.014अब्।
तं देहं परतस्तस्माद्भक्षयन्ति निशाचराः
पापे तिष्ठति चेत् स्वर्गं तेन भुक्तं तदा द्विज ।अप्_368.015अब्।
तदा द्वितीयं गृह्णाति भोगदेहन्तु पापिनां
भुक्त्वा पापन्तु वै पश्चाद्येन भुक्तं त्रिपिष्टपं ।अप्_368.016अब्।
शुचीनां श्रीमतां गेहे स्वर्गभ्रष्टो ऽभिजायते
पुण्ये तिष्ठति चेत्पापन्तेन भुक्तं तदा भवेत् ।अप्_368.017अब्।
तस्मिन् सम्भक्षिते देहे शुभं गृह्णाति विग्रहम्
कर्मण्यल्पावशेषे तु नरकादपि मुच्यते ।अप्_368.018अब्।
मुक्तस्तु नरकाद्याति तिर्यग्योनिं न संशयः
जीवः प्रविष्टो गर्भन्तु कलले ऽप्यत्र तिष्ठति(2) ।अप्_368.019अब्।
घनीभूतं द्वितीये तु तृतीये ऽवयवास्ततः
चतुर्थे ऽस्थीनि त्वङ्मांसम्पञ्चमे रोमसम्भवः ।अप्_368.020अब्।
षष्ठे चेतो ऽथ जीवस्य दुःखं विन्दति सप्तमे
जरायुवेष्टिते देहे मूर्ध्नि बद्धाञ्जलिस् तथा ।अप्_368.021अब्।
मध्ये क्लीवस्तु वामे स्त्री दक्षिणे पुरुषस्थितिः
तिष्ठत्युदरभागे तु पृष्ठस्याभिमुखस् तथा ।अप्_368.022अब्।
यस्यां तिष्ठत्यसौ योनौ तां स वेत्ति न संशयः
सर्वञ्च वेत्ति वृत्तान्तमारभ्य नरजम्मनः ।अप्_368.023अब्।
:न्
1 गच्छतीति क..
:प् 303
अन्धकारञ्च महतीं पीडां विन्दति मानवः
मातुराहारपीतन्तु सप्तमे मास्युपाश्नुते ।अप्_368.024अब्।
अष्टमे नवमे मासि भृशमुद्विजत तथा
व्यवाये पीडामाप्नोति मातुर्व्यायामके तथा ।अप्_368.025अब्।
व्याधिश् च व्याधितायां स्यान्मुहूर्तं शतवर्षवत्
सन्तप्यते कर्मभिस्तु कुरुते ऽथ मनोरथान् ।अप्_368.026अब्।
गर्भाद्विनिर्गतो ब्रह्मन् मोक्षज्ञानं करिष्यति
सूतिवातैर् अधीभूतो निःसरेद्योनियन्त्रतः ।अप्_368.027अब्।
पीड्यमानो मासमात्रं करस्पर्शेन दुःखितः
खशब्दात् क्षुद्रश्रोतांसि देहे श्रोत्रं विविक्तता ।अप्_368.028अब्।
श्वासोच्छासौ गतिर्वायोर्वक्रसंस्पर्शनं तथा(1)
अग्नेरूपं दर्शनं स्यादूष्मा पङ्क्तिश् च पित्तकं ।अप्_368.029अब्।
मेधा वर्णं बलं छाया तेजः शौर्यं शरीरके
जलात्स्वेदश् च रसनन्देहे वै संप्रजायते ।अप्_368.030अब्।
क्लेदो वसा रसा तक्रं शुक्रमूत्रकफादिकं
भूमेर्ध्राणं केशनखं गौरवं स्थिरतो ऽस्थितः ।अप्_368.031अब्।
मातृजानि मृदून्यत्र त्वङ्मांसहृदयानि च
नाभिर्मज्जा(2) शकृन्मेदः क्लेदान्यामाशयानि च ।अप्_368.032अब्।
पितृजानि शिरास्नायुशुक्रञ्चैवात्मजानि तु
कामक्रोधौ भयं हर्षो धर्माधर्मात्मता तथा ।अप्_368.033अब्।
आकृतिः स्वरवर्णौ तु मेहनाद्यं तथा च यत्
:न्
1 श्वासोच्छासौ सनिर्वापौ वाह्यसंस्पर्शनमिति ञ..
2 नाभिर्मेडमिति ख.. , ञ.. च
:प् 304
??? ।अप्_368.034अब्।
???
तामसानि तथाज्ञानं प्रमादालस्यतृट्क्षुधाः ।अप्_368.035अब्।
मोहमात्सर्यवैगुण्यशोकायासभयानि च
कामक्रोधौ तथा शौर्यं यज्ञेप्सा बहुभाषिता ।अप्_368.036अब्।
अहङ्कारः परावज्ञा राजसानि महामुने
धर्मेप्सा मोक्षकामित्वं परा भक्तिश् च केशवे ।अप्_368.037अब्।
दाक्षिण्यं व्यवसायित्वं सात्विकानि विनिर्दिशेत्
चपलः क्रोधनो भीरुर्बहुभाषो कलिप्रियः ।अप्_368.038अब्।
स्वप्ने गगनगश् चैव बहुवातो नरो भवेत्
अकालपलितः क्रोर्धो महाप्राज्ञो रणप्रियः ।अप्_368.039अब्।
स्वप्ने च दीप्तिमत्प्रेक्षी बहुपित्तो नरो भवेत्
स्थिरमित्रः स्थिरोत्साहः स्थिराङ्गो द्रविणान्वितः ।अप्_368.040अब्।
स्वप्ने जलसितालोकी बहुश्ले ष्मा नरो भवेत्
रसस्तु प्राणिनां देहे जीवनं रुधिरं तथा ।अप्_368.041अब्।
लेपनञ्च तथा मांसमेधस्नेहकरन्तु तत्
धारणन्त्व् अस्थि मज्जा स्यात्पूरणं वीर्यवर्धनं ।अप्_368.042अब्।
शुक्रवीर्यकरं ह्य् ओजः प्राणकृज्जीवसंस्थितिः
ओजः शुक्रात् सारतरमापीतं हृदयोपगं ।अप्_368.043अब्।
षडङ्गशक्थिनी बाहुर्मूर्धा जठरमीरितं
षट्त्वचा वाह्यतो यद्वदन्या रुधिरधारिका ।अप्_368.044अब्।
विलासधारिणी चान्या चतुर्थी कुण्डधारिणी
पञ्चमी विद्रधिस्थानं षष्ठी प्राणधरा मता ।अप्_368.045अब्।
कलासप्तमौ मांसधरा द्वितीया रक्तधारिणी
यकृत्प्लीहाश्रया चान्या मेदोधरास्थिधारिणी ।अप्_368.046अब्।
:प् 305
मज्जाश्लेष्मपुरीषाणां धरा पक्वाशयस्थिता ।अप्_368.046च्द्।
षष्ठी पित्तधरा शुक्रधरा शुक्राशयापरा
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0