भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 367

367.001

:ए इत्य् आग्नेये महापुराणे सामान्यनामलिङ्गानि नाम
षट्षष्ट्यधिकत्रिशततमो ऽध्यायः ॥
:प् 298
% छप्तेर् {367}
:श् अथ सप्तषष्ट्यधिकत्रिशततमो ऽध्यायः
नित्यनैमीत्तिकप्राकृतप्रलयाः
अग्निर् उवाच
चतुर्विधस्तु प्रलयो नित्यो यः प्राणिनां लयः ।अप्_367.001अब्।
सदा विनाशो जातानां ब्राह्मो नैमित्तिको लयः

367.002

चतुर्युगसहस्रान्ते प्राकृतः प्राकृतो लयः ।अप्_367.002अब्।
लय आत्यन्तिको ज्ञानादात्मनः परमात्मनि

367.003

नैमित्तिकस्य कल्पान्ते वक्ष्ये रूपं लयस्य ते ।अप्_367.003अब्।
चतुर्युगसहस्रान्ते क्षीणप्राये महीतले

367.004

अनावृष्टिरतीवोग्रा जायते शतवार्षिकी ।अप्_367.004अब्।
ततः सत्त्वक्षयः स्याच्च ततो विष्णुर्जगत्पतिः

367.005

स्थितो जलानि पिवति भानोः सप्तसु रश्मिषु ।अप्_367.005अब्।
भूपातालसमुद्रादितोयं नयति संक्षयं

367.006

ततस्तस्यानुभावेन तोयाहारोपवृंहिताः ।अप्_367.006अब्।
त एव रश्मयः सप्त जायन्ते सप्त भास्कराः

367.007

दहन्त्य् अशेषं त्रैलोक्यं सपातालतलं द्विज ।अप्_367.007अब्।
कूर्मपृष्ठसमा भूः स्यात्ततः कालाग्निरुद्रकः

367.008

शेषाहिश्वाससम्पातात् पातालानि दहत्यधः ।अप्_367.008अब्।
पातालेभ्यो भुवं विष्णुर्भुवः स्वर्गं दहत्यतः

367.009

अम्बरीषमिवाभाति त्रैलोक्यमखिलं तथा ।अप्_367.009अब्।
ततस्तापरीतास्तु लोकद्वयनिवासिनः

367.010

:प् 299
गाचन्ति ते महर्लोकं महर्लोकाज्जनं ततः ।अप्_367.010अब्।
रुद्ररूपी जगद्दग्ध्वा मुखनिश्वासतो हरेः

367.011

उत्तिष्टन्ति ततो मेधा नानारूपाः सविद्युतः ।अप्_367.011अब्।
शतं वर्षाणि वर्षन्तः शमयन्त्यग्निमुत्थितम्

367.012

सप्तर्षिस्थानमाक्रम्य स्थिते ऽम्भसि शतं मरुत् ।अप्_367.012अब्।
मुखनिश्वासतो विष्णोर्नाशं नयति तान्घनान्

367.013

वायुं पीत्वा हरिः शेषे शेते चैकार्णवे प्रभुः ।अप्_367.013अब्।
ब्रह्मरूपधरः सिद्धैर् जलगैर् मुनिभिस्तुतः

367.014

आत्ममायामयीं दिव्यां योगनिद्रां समास्थितः ।अप्_367.014अब्।
आत्मानं वसिदेवाख्यं चिन्तयन्मधुसूदनः

367.015

कल्पं शेते प्रबुद्धो ऽथ ब्रह्मरूपी सृजत्य् असौ ।अप्_367.015अब्।
द्विपरार्धन्ततो व्यक्तं प्रकृतौ लीयते द्विज

367.016

स्थानात् स्थानं दशगुणमेकस्माद्गुण्यते स्थले ।अप्_367.016अब्।
ततो ऽष्टादशमे भागे परार्धमभिधीयते

367.017

परार्धं द्विगुणं यत्तु प्राकृतः प्रलयः स्मृतः ।अप्_367.017अब्।
अनावृष्ट्याग्निसम्पर्कात् कृते संज्वलने द्विज

367.018

महदादेर्विकारस्य विशेषान्तस्य संक्षये ।अप्_367.018अब्।
कृष्णेच्छाकारिते तस्मिन् सम्प्राप्ते प्रतिसञ्चरे

367.019

आपो ग्रसन्ति वै पूर्वं भूमिर्गन्धादिकं गुणं ।अप्_367.019अब्।
आत्मगन्धात्ततो भूमिः प्रलयत्वाय कल्पते

367.020

रसात्मिकाश् च तिष्ठन्ति ह्य् आपस्तासां रसो गुणः ।अप्_367.020अब्।
पीयते ज्योतिषा तासु नष्टास्वग्निश् च दीप्यते

367.021

ज्योतिषो ऽपि गुणं रूपं वायुर्ग्रसति भास्करं ।अप्_367.021अब्।
:प् 300
नष्टे ज्योतिषि वायुश् चबली दोधूयते महान्

367.022

वायोरपि गुणं स्पर्शमाकाशं ग्रसते ततः ।अप्_367.022अब्।
वायौ नष्टे तु चाकाशन्नीरवं तिष्ठति द्विज

367.023

आकाशस्याथ वै शब्दं भूतादिर्ग्रसते च खं ।अप्_367.023अब्।
अभिमानात्मकं खञ्च भूतादिं ग्रसते महान्

367.024

भूमिर्याति लयञ्चाप्सु आपो ज्योतिषि तद्ब्रजेत् ।अप्_367.024अब्।
वायौ वायुश् च खे खञ्च अहङ्कारे लयं स च

367.025

महात्तत्वे महान्तञ्च प्रकृतिर्ग्रसते द्विज ।अप्_367.025अब्।
व्यक्ताव्यक्ता च प्रकृतिर्व्यक्तस्याव्यक्तके लयः

367.026

पुमाने काक्षरः शुद्धः सो ऽप्यंशः परमात्मनः ।अप्_367.026अब्।
प्रकृतिः पुरुषश् चैतौ लीयेते परमात्मनि

367.027

न सन्ति यत्र सर्वेशे नामजात्यादिकल्पनाः ।अप्_367.027अब्।
सत्तामात्रात्मके ज्ञेये ज्ञानात्मन्यात्महः परे

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc