भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 366

366.001

:ए इत्य् आग्नेये महापुराणे क्षत्रविट्शीद्रवर्गा माम
पञ्चषष्ट्यधिकत्रिशततमो ऽध्यायः ॥
% छप्तेर् {366}
:श् अथ षट्षष्ट्यधिकत्रिशततमो ऽध्यायः
सामान्यनामलिङ्गानि
अग्निर् उवाच
सामान्यान्य् अथ वक्ष्यामि नामलिङ्गानि तच्छृणु ।अप्_366.001अब्।
सुकृती पुण्यवान् ध्नयो महेच्छस्तु महाशयः

366.002

प्रवीणनिपुणाभिज्ञविज्ञनिष्णातशिक्षिताः ।अप्_366.002अब्।
स्युर्वदान्यस्थूललक्षदानशौण्डा बहुप्रदे

366.003

कृती कृतज्ञः कुशल आसक्तोद्युक्त उत्सुकः ।अप्_366.003अब्।
इभ्य आढ्यः परिवृढो ह्य् अधिभूर्नायको ऽधिपः

366.004

लक्ष्मीवान् लक्ष्मणः श्रीलः स्वतन्त्रः स्वैर्यपावृतः ।अप्_366.004अब्।
खलपूः स्याद्वहुकरो दीर्घसूत्रश्चिरक्रियः

366.005

जाल्मो ऽसमीक्ष्यकारी स्यात् कुण्ठो मन्दः क्रियासु यः ।अप्_366.005अब्।
कर्मशूरः कर्मठः स्याद्भक्षको घस्मरो ऽद्मरः

366.006

लोलुपो गर्धलो गृध्रुर्विनीतप्रश्रितौ तथा ।अप्_366.006अब्।
धृष्टे धृष्णुर्वियातश् च निभृतः प्रतिभान्विते

366.007

प्रगल्भो भीरुको भीरुर्वन्दारुरभिवादके ।अप्_366.007अब्।
भूष्णुर्भविष्णुर्भविता ज्ञाता विदुरबिन्दुकौ

366.008

मत्तशौण्डोत्कटक्षीवाश् चण्डस्त्वत्यन्तकोपनः ।अप्_366.008अब्।
:प् 296
देवानञ्चति देवद्र्यङ्विश्वद्र्यङ्विश्वगञ्चति

366.009

यः सहाञ्चति स सध्र्यङ् स तिर्यङ् यस्तिरो ऽञ्चति ।अप्_366.009अब्।
वाचोयुक्तिः पटुर्वाग्मी वावदूकश् च वक्तरि

366.010

स्याज्जल्पकस्तु वाचालो वाचाटो बहुगर्ह्यवाक् ।अप्_366.010अब्।
अपध्वस्तो धिक्कृतः स्याद्बद्धे कीलितसंयतौ

366.011

वरणः शब्दनो नान्दीवादी नान्वीकरः समाः ।अप्_366.011अब्।
व्यसनार्तोपरक्रौ द्वौ बद्धे कीलितसंयतौ(1)

366.012

विहिस्तव्याकुलौ तुल्यौ नृशंसक्रूरघातुकाः ।अप्_366.012अब्।
पापो धूर्तो वञ्चकः स्यान्मूर्खे वैदेहवालिशौ

366.013

कदर्ये कृपणक्षुद्रौ मार्गणो याचकार्थिनौ ।अप्_366.013अब्।
अहङ्कारवानहंयुः स्याच्छुभंयुस्तु शुभान्वितः

366.014

कान्तं मनोरमं रुच्यं हृद्याभीष्टे ह्य् अभीप्सिते ।अप्_366.014अब्।
असारं फल्गु शून्यं वै मुख्यवर्यवरेण्यकाः

366.015

श्रेयान् श्रेष्ठः पुष्कलः स्यात्प्राग्र्याग्र्यग्रीयमग्रिमं ।अप्_366.015अब्।
वड्रोरु विपुलं पीनपीव्नी तु स्थूलपीवरे

366.016

स्तोकाल्पक्षुल्लकाः सूक्ष्मं श्लक्ष्णं दभ्रंकृशन्तनु ।अप्_366.016अब्।
मात्राकुटीलवकणा भूयिष्ठं पुरुहं पुरु

366.017

अखण्डं पूर्णसकलमुपकण्ठान्तिकाभितः ।अप्_366.017अब्।
समीपे सन्निधाभ्यासौ नेदिष्टं सुसमीपकं

366.018

सुदूरे तु दविष्ठं स्याद्वृत्तं निस्तलवर्तुले ।अप्_366.018अब्।
उच्चप्रांशून्नतोदग्रा ध्रुवो नित्यः सनातनः

366.019

आविद्धं कुटिलं भुग्नं वेल्लितं वक्रमित्यपि ।अप्_366.019अब्।
:न्
1 पाठो ऽयं पुररुक्तिदोषेण दुष्टः
:प् 297
चञ्चलं तरलञ्चैव कठोरं जठरं दृढं

366.020

प्रत्यग्रो ऽभिनवो नव्यो नवीनो नूतनो नवः ।अप्_366.020अब्।
एकतानो ऽनन्यवृत्तिरुच्चण्डमविलम्बितं

366.021

उच्चावचं नैकभेदं सम्बाधकलिलं तथा ।अप्_366.021अब्।
तिमितं स्तिमितं क्लिन्नमभियोगत्वभिग्रहः

366.022

स्फातिर्वृद्धौ प्रथा ख्यातौ समाहारः समुच्चयः ।अप्_366.022अब्।
अपहारस्त्वपचयो विहारस्तु परिक्रमः

366.023

प्रत्याहार उपादानं निर्हारो ऽभ्यवकर्षणं ।अप्_366.023अब्।
विघ्नो ऽन्तरायः प्रत्यूहः स्यादास्यात्वासना स्थितिः

366.024

सन्निधिः सन्निकर्षः स्यात्मंक्रमो दुर्गसञ्चरः ।अप्_366.024अब्।
उपलम्भस्त्वनुभवः प्रत्यादेशो निराकृतिः

366.025

परिरम्भःपरिष्वङ्गः संश्लेष उपगूहनं ।अप्_366.025अब्।
अनुमा पक्षहेत्वाद्यैर् डिम्बे भ्रमरविप्लवौ

366.026

असन्निकृष्तार्थज्ञानं शब्दाद्धि शाब्दमीरितं ।अप्_366.026अब्।
सादृश्यदर्शनात्तुल्ये बुद्धिः स्यादुपमानकं

366.027

कार्यं दृष्ट्वा विना नस्यादर्थापत्तिः परार्थधीः ।अप्_366.027अब्।
प्रतियोगिन्यागृहीते भुवि नास्तीत्यभावकः ।अप्_366.027च्द्।
इत्यादिनामलिङ्गो हि हरिरुक्तो नृबुद्धये

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc