अग्नि पुराण · अध्याय 365
:ए इत्य् आग्नेये महापुराणे ब्रह्मवर्गो नाम
चतुःषष्ट्यधिकत्रिशततमो ऽध्यायः
% छप्तेर् {365}
:श् अथ पञ्चषष्ट्यधिकत्रिशततमो ऽध्यायः
क्षत्रविट्शूद्रवर्गाः
अग्निर् उवाच
मूर्धाभिशिक्तो राजन्यो बाहुजः क्षत्रियो विराट् ।अप्_365.001अब्।
राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः
चक्रवर्ती सार्वभौमो नृपो ऽन्यो मण्डलेश्वरः ।अप्_365.002अब्।
मन्त्री धीसचिवो ऽमात्यो महामात्राः प्रधानकाः
:प् 291
द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ ।अप्_365.003अब्।
भौरिकः कनकाध्यक्षो ऽथाध्यक्षाधिकृतौ समौ
अन्तःपुरे त्वधिकृतः स्यादन्तर्वंशिको जनः ।अप्_365.004अब्।
सौविदल्लाः कञ्चुकिनः स्थापत्याः सौविदाश् च ते
षण्डो वर्षवरस्तुल्याः सेवकार्थ्यनुजीविनः ।अप्_365.005अब्।
विषयानन्तरो राजा शत्रुर्मित्रमतः परं
उदासीनः परतरः पार्ष्णिग्राहस्तु पृष्ठतः ।अप्_365.006अब्।
चरः स्पर्शः स्यात्प्रणिधिरुत्तरः काल आयतिः
तत्कालस्तु तदात्वं स्यादुदर्कः फलमुत्तरं ।अप्_365.007अब्।
अदृष्टं वह्नितोयादि दृष्टं स्वपरचक्रजम्
भद्रकुम्भः पूर्णकुम्भो भृङ्गारः कनकालुका ।अप्_365.008अब्।
प्रभिन्नो गर्जितो मातो वमथुः करशीकरः
स्त्रियां शृणिस्त्वङ्कुशो ऽस्त्री परिस्तोमः कुथो द्वयोः ।अप्_365.009अब्।
कर्णीरथः प्रवहणं दोला प्रेङ्खादिका स्त्रियां
आधोरणा हस्तिपका हस्त्यारोहा निषादिनः ।अप्_365.010अब्।
भटा योधाश् च योद्धारः कञ्चुको वारणो ऽस्त्रियां
शीर्षण्यञ्च शिरस्त्रे ऽथ तनुत्रं वर्म दंशनं ।अप्_365.011अब्।
आमुक्तः प्रतिमुक्तश् च पिनद्धश्चापिनद्धवत्
व्यूहस्तु बलविन्यासश् चक्रञ्चानीकमस्त्रियां ।अप्_365.012अब्।
एकेभैकरथा त्र्यश्वाः पत्तिः पञ्चपदातिकाः
पत्त्यङ्गैस्त्रिगुणैः सर्वैः क्रमादाख्या यथोत्तरं ।अप्_365.013अब्।
सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः
अनीकिनी दशानीकिन्यो ऽक्षोहिण्यो गजादिभिः ।अप्_365.014अब्।
:प् 292
धनुः कोदण्ड+इष्वासौ कोटिरस्याटनी स्मृता
नस्तकस्तु धनुर्मध्यं मौर्वी ज्या शिञ्जिनी गुणः ।अप्_365.015अब्।
पृषत्कवाणविशिखा अजिह्मगखगाशुगाः
तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः ।अप्_365.016अब्।
असिरृष्टिश् च निस्त्रिंशः करवालः कृपालःकृपाणवत्
सरुः खड्गस्य सुष्टौ स्यादीली तु करपालिका ।अप्_365.017अब्।
द्वयोः कुठारः सुधितिः छुरिका चासिपुत्रिका
प्रासस्तु कुन्तो विज्ञेयः सर्वला तोमरो ऽस्त्रियां ।अप्_365.018अब्।
वैतालिका बोधकरा मागधा वन्दिनस्तुतौ
संशप्तकास्तु समयात्सङ्ग्रामादनिवर्तिनः ।अप्_365.019अब्।
पताका वैजयन्ती स्यात्केतनं धजमिस्त्रियां
अहं पूर्वमहं पूर्वमित्यहंपूर्विका स्त्रियां ।अप्_365.020अब्।
अहमहमिका सास्याद्यो ऽहङ्कारः परस्परम्
शक्तिः पराक्रमः प्राणः शौर्यं स्थानसहोबलं ।अप्_365.021अब्।
मूर्छा तु कश्मलं मोहो ऽप्यवर्मद्दस्तु पीडनं
अभ्यवस्कन्दनन्त्वभ्यासादनं विजयो जयः ।अप्_365.022अब्।
निर्वासनं संज्ञपनं सारणं प्रतिघातनं
स्यात्पञ्चता कालधर्मो दिष्टान्तः प्रलयो ऽत्ययः ।अप्_365.023अब्।
विशो भूमिस्पृषो वैश्या वृत्तिर्वर्तनजीवने
कृष्यादिवृत्तयो ज्ञेयाः कुसीदं वृद्धिजीविका ।अप्_365.024अब्।
उद्धरो ऽर्थप्रयोगः स्यात्कणिशं सस्यमञ्जरी
किंशारुः सस्यशूकं स्यात् स्तम्बो गुत्सस्तृणादिनः ।अप्_365.025अब्।
धाम्यं व्रीहिः स्तम्बकरिः कडङ्गरो वुपं स्मृतं
:प् 293
माषादयः शमीधान्ये शुकधान्ये यवादयः ।अप्_365.026अब्।
तृणधान्यानि नीवाराः शूर्पं प्रस्फोटनं स्मृतं
स्यूतप्रसेवौ कण्डोलपिटौ कटकिनिञ्जकौ ।अप्_365.027अब्।
समानौ रसवत्यान्तु पाकस्थानमहानसे
पौरोगवस्तदध्यक्षः सूपकारास्तु वल्लवाः ।अप्_365.028अब्।
आरालिका आन्धसिकाः सूदा औदनिका गुणाः
क्लीवे ऽम्बरीषं भ्राष्टो ना कर्कर्यालुर्गलन्तिका ।अप्_365.029अब्।
आलिञ्जरः स्यान्मणिकं सुषवी कृषजीरके
आरनालस्तु कुल्माषं वाह्लीकं हिङ्गु रामठं ।अप्_365.030अब्।
निशा हरिद्रा पीता स्त्री खण्डे मत्स्यण्डिफाणिते
कूर्चिका क्षिरविकृतिः स्निग्धं मसृणचिक्कणं ।अप्_365.031अब्।
पृथुकः स्याच्चिपिटको धाना भ्रष्टयवास्त्रियः
जेमनं लेप आहारो माहेयी सौरभी च गौः ।अप्_365.032अब्।
युगादीनाञ्च बोढारो युग्यप्रसाङ्ग्यशाटकाः
चिरसूता वष्कयणी धेनुः स्यान्नवसूतिका ।अप्_365.033अब्।
सन्धिनी वृषभाक्रान्ता वेहद्गर्भोपघातिनी
पण्याजीवो ह्य् आपणिको न्यासश्चोपनिधिः पुमान् ।अप्_365.034अब्।
विपणो विक्रयः सङ्ख्या सङ्ख्येये ह्य् आदश त्रिषु
विंशत्याद्याः सदैकत्वे सर्वाः संख्येयसंख्ययोः ।अप्_365.035अब्।
संख्यार्थे द्विबहुत्वे स्तस्तासु चानवतेः स्त्रियः
पङ्क्तेः शतसहस्रादि क्रमाद्दशगुणोत्तरं ।अप्_365.036अब्।
मानन्तु लाङ्गुलिप्रस्थैर् गुञ्जाः पञ्चाद्यमाषकः
ते षोडशाक्षः कर्षो ऽस्त्री पलं कर्षचतुष्टयम् ।अप्_365.037अब्।
:प् 294
सुवर्णविस्तौ हेम्नो ऽक्षे कुरुविस्तस्तु तत्पले
तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुलाः ।अप्_365.038अब्।
कार्षापणः कार्षिकः स्यात् कार्षिके ताम्रिके पणः
द्रव्यं वित्तं स्वापतेयं रिक्थमृथक्थं धनं वसु ।अप्_365.039अब्।
रीतिः स्त्रियामारकूटो न स्त्रियामथ ताम्रकम्
शुल्वमौदुम्बरं लौहे तीक्ष्णं कालांयसायसी ।अप्_365.040अब्।
क्षारः काचो ऽथ चपलो रसः सूतश् च पारदे
गरलं माहिषं शृङ्गं त्रपुसीसकपिच्चटं ।अप्_365.041अब्।
हिण्डीरो ऽब्धिकफः फेणो मधूच्छिष्टन्तु सिक्थकम्
रङ्गवङ्गे पिचुस्थूलो कूलटी तु मनःशिला ।अप्_365.042अब्।
यवक्षारश् च पाक्यः स्यात् त्वक्क्षीरा वंशलोचनाः
वृषला जधन्यजाः शूद्राश्चाण्डालान्त्याश् चशङ्कराः ।अप्_365.043अब्।
कारुः शिल्पी संहतैस्तैर् द्वयोः श्रेणिः सजातिभिः
रङ्गाजीवश्चित्रकरस्त्वष्टा तक्षा च वर्धकिः ।अप्_365.044अब्।
नाडिन्धमः स्वर्णकारो नापितान्तावसायिनः
जावालः स्यादजाजीवो देवाजीवस्तु देवलः ।अप्_365.045अब्।
जायाजीवस्तु शैलूषा भृतको भृतिभुक्तथा
विवर्णः पामरो नीचः प्राकृतश् च पृथग्जनः ।अप्_365.046अब्।
विहीनोपसदो जाल्मो भृत्ये दासेरचेटकाः
पटुस्तु पेशलो दक्षो मृगयुर्लुब्धकः स्मृतः ।अप्_365.047अब्।
चाण्डालस्तु दिवाकीर्तिः पुस्तं लेप्यादिकर्मणि
पञ्चालिका पुत्रिका स्याद्वर्करस्तरुणः पशुः ।अप्_365.048अब्।
मञ्जूषा पेटकः पेडा तुल्यसाधारणौ समौ ।अप्_365.048च्द्।
:प् 295
प्रतिमा स्यात् प्रतिकृतिर्वर्गा ब्रह्मादयः स्मृताः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0