अग्नि पुराण · अध्याय 364
:ए इत्य् आग्नेये महापुराणे नृवर्गो नाम त्रिषष्ट्यधिकत्रिशततमो
ऽध्यायः
% छप्तेर् {364}
:श् अथ चतुःषष्ट्यधिकत्रिशततमो ऽध्यायः
ब्रह्मवर्गः
अग्निर् उवाच
वंशो ऽन्ववायो गोत्रं स्यात् कुलान्यभिजनान्वयौ ।अप्_364.001अब्।
मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती
यष्टा च यजमानः स्यात् ज्ञात्वारम्भ उपक्रमः ।अप्_364.002अब्।
सतीर्थ्याश् चैकगुरवः सभ्याः सामाजिकास् तथा
सभासदः सभास्तारा ऋत्विजो याजकाश् च ते ।अप्_364.003अब्।
अध्वर्यूद्गातृहोतारो यजुःसामर्ग्विदः क्रमात्
चषालो यूपकटकः समे स्थण्डिलचत्वरे ।अप्_364.004अब्।
आमिक्षा सा शृतोष्णे या क्षीरे स्याद्दधियोगतः
पृषदाज्यं सदध्याज्ये परमान्नन्तु पायसम् ।अप्_364.005अब्।
उपाकृतः पशुरसौ यो ऽभिमन्त्र्य क्रतौ हतः
परम्पराकं समनं प्रोक्षणञ्च बधार्थकम् ।अप्_364.006अब्।
:प् 290
पूजा नमस्यापिचितिः सपर्यार्चार्हणाः समाः
वरिवस्या तु शुश्रूषा परिचर्याप्युपासनम् ।अप्_364.007अब्।
नियमो ब्रतमस्त्री तच्चोपवासादि पुण्यकम्
मुख्यः स्यात् प्रथमः कल्पो ऽनुकल्पस्तु ततो ऽधमः ।अप्_364.008अब्।
कल्पे विधिक्रमौ ज्ञेयौ विवेकः पृथगात्मता
संस्कारपूर्वं ग्रहणं स्यादुपाकरणं श्रुतेः ।अप्_364.009अब्।
भिक्षुः परिव्राट् कर्मन्दी पाराशर्यपि मस्करी
ऋषयः सत्यवचसःस्नातकश्चाप्लुतव्रती ।अप्_364.010अब्।
ये निर्जितेन्द्रियग्रामा यतिनो यतयश् च ते
शरीरसाधनापेक्षं नित्यं यत् कर्म तद्यमः ।अप्_364.011अब्।
नियमस्तु स यत् कर्मानित्यमागन्तुसाधनम् ।अप्_364.011च्द्।
स्याद् ब्रह्मभूयं ब्रह्मत्वं ब्रह्मसायुज्यमित्यपि
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0