अग्नि पुराण · अध्याय 362
:ए इत्य् आग्नेये महापुराणे नानार्थवर्गा
नमैकषष्ट्यधिकत्रिशततमो ऽध्यायः
% छप्तेर् {362}
:श् अथ द्विषष्ट्यधिकत्रिशततमो ऽध्यायः
भूमिवनौषध्यादिवर्गाः
अग्निर् उवाच
वक्ष्ये भूपुराद्रिवनौषधिसिंहादिनर्गकान् ।अप्_362.001अब्।
भूरनन्ता कक्षमा धात्री क्ष्माप्याकुः स्याद्धरित्र्यपि
मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका ।अप्_362.002अब्।
जगत्त्रपिष्टपं लोकं भुवनं जगती समा
अयनं वर्त्म मार्गाध्वपन्थानः पदवी सृतिः ।अप्_362.003अब्।
सरणिः पद्धत्तिः पद्या वर्तन्येकपदीति च
पूः स्त्री पुरीनगर्यौ वा पात्तनं पुटभेदनम् ।अप्_362.004अब्।
स्थानीयं निगमो ऽन्यत्तु यन्मूलनगरात्पुरम्
तच्छाखानगरं वेशो वेश्याजनसमाश्रयः ।अप्_362.005अब्।
आपणस्तु निषद्यायां विपणिः पण्यवीथिका
रथ्या प्रतोली विशिखा स्याच्चयो वप्रमस्त्रियां ।अप्_362.006अब्।
प्राकारो वरणः शालः प्राचीरं प्रान्ततो वृतिः
:प् 280
भित्तिः स्त्री कुह्यमेडूकं यदन्तर्नस्तकीकसं ।अप्_362.007अब्।
वासः कूटो द्वयोः शाला सभा सञ्जवनन्त्विदम्
चतुःशालं मुनीनान्तु पर्णशालोटजो ऽस्त्रियां ।अप्_362.008अब्।
चैत्यमायतनन्तुल्ये वाजिशाला तु मन्दुरा
हर्म्यादि धनिनां वासःप्रासादो देवभूभुजां ।अप्_362.009अब्।
स्त्री द्वार्द्वारं प्रतीहारः स्याद्वितर्दिस्तु वेदिका
कपोतपालिकायन्तु विटङ्कं पुं नपुंसकं ।अप्_362.010अब्।
कवाटमवरन्तुल्ये निःश्रेणिस्त्वधिरोहिणी
सम्मार्जनी शोधनी स्यात् सङ्करो ऽवकरस् तथा ।अप्_362.011अब्।
अद्रिगोत्रिगिरिग्रावा गहनं काननं वनं
आरामः स्यादुपवनं कृत्रिमं वनमेव यत् ।अप्_362.012अब्।
स्यादेतदेव प्रमदवनमन्तःपुरोचितं
वीथ्यालिरावलिः पङ्क्तिश्रेणीलेखास्तु राजयः ।अप्_362.013अब्।
वानस्पत्यः फलैः पुष्पात्तैरपुष्पाद्वनस्पतिः(?)
ओषध्यः फलपाकान्ताः पलाशी द्रुद्रुमागमाः ।अप्_362.014अब्।
स्थाणु वा ना ध्रुवः शङ्कुः प्रफुल्लोत्फुल्लसंस्फुटाः
पलाशं छदनं पर्णमिध्ममेधः समित् स्त्रियां ।अप्_362.015अब्।
बोधिद्रुमश् चलदलो दधित्थग्राहिमन्मथाः
तस्मिन् दधिफलः पुष्पफलदन्तशठावपि ।अप्_362.016अब्।
उडुम्बरे हेमदुग्धः कोविदारे द्विपत्रकः
सप्तपर्णो विशालत्वक् कृतमालं सुवर्णकः ।अप्_362.017अब्।
आरेवतव्याधिघातसम्पाकचतुरङ्गुलाः
स्याज्जम्बीरे दन्तशठो वरुणे तिक्तशावकः ।अप्_362.018अब्।
:प् 281
पुत्रागे पुरुषस्तुङ्गः केशरो देववल्लभः
पारिभद्रे निम्बतरुर्मन्दारः पारिजातकः ।अप्_362.019अब्।
वञ्जुलश्चित्रकृच्चाथ द्वौ पीतनकपीतनौ
आम्रातके मधूके तु गुडपुष्पमधुद्रुमौ ।अप्_362.020अब्।
पीलौ गुडफलः स्रंसी नादेयी चाम्बुवेतसः
शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीरमोचकाः ।अप्_362.021अब्।
रक्तो ऽसौ मधुशिग्रुः स्यादरिष्टः फेणिलः समौ
गालवःशावरो लोध्रस्तिरीटस्तिल्वमार्जनौ ।अप्_362.022अब्।
शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः
वैकङ्कतः श्रुवावृक्षो ग्रन्थिलो व्याघ्रपादपि ।अप्_362.023अब्।
तिन्दुकः स्फूर्जकः कालो नादेयी भूमिजम्बुकः
काकतिन्दौ पीलुकः स्यात् पाटलिर्मोक्षमुष्ककौ ।अप्_362.024अब्।
क्रमुकः पट्टिकाख्यः स्यात्कुम्भी कैटर्यकट्फले
वीरवृक्षो ऽरुष्करो ऽग्निमुखी भल्लातकीं त्रिषु ।अप्_362.025अब्।
सवर्जकासनजीवाश् च पीतसाले ऽथ मालके
सर्जाश्वकर्णौ वीरेन्द्रौ इन्द्रद्रुः ककुभो ऽर्जुनः ।अप्_362.026अब्।
इङ्गुदी तापसतरुर्मोचा शाल्मलिरेव च
चिरविल्वो नक्तमालः करजश् च करञ्जके ।अप्_362.027अब्।
प्रकीर्यः पूतिकरजो मर्कट्यङ्गारवल्लरी
रोही रोहितकः प्लीहशत्रुर्दाडिमपुष्पकः ।अप्_362.028अब्।
गायत्री बालतनयः खदिरो दन्तधावनः
अरिमेदो विट्खदिरे कदरः खदिरे सिते ।अप्_362.029अब्।
पञ्चाङ्गुलो वर्धमानश् चञ्चुर्गन्धर्वहस्तकः
:प् 282
पिण्डीतको मरुवकः पीतदारु च दारु च ।अप्_362.030अब्।
देवदारुः पूतिकाष्ठं श्यामा तु महिलाह्वया
लता गोवन्दनी गुन्दा प्रियङ्गुः फलिनी फली ।अप्_362.031अब्।
मण्डूकपर्णपत्रोर्णनटकट्वङ्गटुण्टुकाः
श्योनाकशुकनासर्क्षदीर्घवृन्तकुटन्नटाः ।अप्_362.032अब्।
पीतद्रुः सरलश्चाथ निचुलो ऽम्बुज इज्जलः
काकोडुम्बरिका फल्गुररिष्टः पिचुमर्दकः ।अप्_362.033अब्।
सर्वतोभद्रको निम्बे शिरीषस्तु कपीतनः
वकुलो वञ्जुलः प्रोक्तः पिच्छिलागुरुशिंशपाः ।अप्_362.034अब्।
जया जयन्ती तर्कारी कणिका गणिकारिका
आपर्णमग्नमन्थः स्याद्वत्सको गिरिमल्लिका ।अप्_362.035अब्।
कालस्कन्धस्तमालः स्यात् तण्डुलीयो ऽल्पमारिषः
सिन्धुवारस्तु निर्गुण्डी सैवास्फोता वनोद्भवा ।अप्_362.036अब्।
गणिका यूथिकाम्बष्ठा सप्तला नवमालिका
अतिमुक्तः पुण्ड्रकः स्यात्कुमारी तरणिः सहा ।अप्_362.037अब्।
तत्र शोणे कुरुवकस्तत्र पीते कुरुण्टकः
नीला झिण्टी द्वयोर्वाणा भिण्टी सैरीयकस् तथा ।अप्_362.038अब्।
तस्मिन्रक्ते कुरुवकः पीते सहचरी द्वयोः
धुस्तूरः कितवो धूर्तो रुचको मातुलङ्गके ।अप्_362.039अब्।
समीरणो मरुवकः प्रस्थपुष्पः फणिज्झकः
कुठेरकस्तु पर्णासे ऽथास्फोतो वसुकार्कके ।अप्_362.040अब्।
शिवमल्ली पाशुपतो वृन्दा वृक्षादनी तथा
जीवन्तिका वृक्षरुहा गुडूची तन्त्रिकामृता ।अप्_362.041अब्।
:प् 283
सोमवल्ली मधुर्णी मूर्वा तु मोरटी तथा
मधुलिका मधुश्रेणी गोकर्णी पीलुपर्ण्यपि ।अप्_362.042अब्।
पाठाम्बष्ठा विद्धकर्णी प्राचीना वनतिक्तिका
कटुः कटुम्भरा चाथ चक्राङ्गी शकुलादनी ।अप्_362.043अब्।
आत्मगुप्ता प्रावृषायी कपिकच्छुश् च मर्कटी
अपामार्गः शैखरिकः प्रत्यक्पर्णी मयूरकः ।अप्_362.044अब्।
फञ्जिका ब्राह्मणी भार्गी द्रवन्ति शम्बरी वृषा
मण्डूकपर्णी भण्डीरी समङ्गा कालमेषिका ।अप्_362.045अब्।
रोदनी कच्छुरानन्ता समुद्रान्ता दुरालभा
पृश्निपर्णी पृथक्पर्णी कलशिर्धावनिर्गुहा ।अप्_362.046अब्।
निदिग्धिका स्पृशी व्याघ्री क्षुद्रा दुस्पर्शया सह
अवल्गुजः सोमराजी सुवल्लिः सोमवल्लिका ।अप्_362.047अब्।
कालमेषी कृष्णफला वकुची पूतिफल्य् अपि
कणोषणोपकुल्या स्याच्छ्रेयसी गजपिप्पली ।अप्_362.048अब्।
चव्यन्तु चविका काकचिञ्ची गुञ्जे तु कृष्णला
विश्वा विषा प्रतिविषा वनशृङ्गाटगोक्षुरौ ।अप्_362.049अब्।
नारायणी शतमूली कालेयकहरिद्रवः
दार्वी पचम्पचा दारु शुक्ला हैमवती वचा ।अप्_362.050अब्।
वचोग्रगन्धा षड्ग्रन्था गोलोमी शतपर्विका
आस्फोता गिरिकर्णी स्यात् सिंहास्यो वासको वृषः ।अप्_362.051अब्।
मिशी मधुरिकाच्छत्रा कोकिलाक्षेक्षुरक्षुरा
विडङ्गो ऽस्त्री कृमिघ्नः स्यात् वज्रद्रुस्नुक्स्नुही सुधा ।अप्_362.052अब्।
मृद्वीका गोस्तनी द्राक्षा वला वाट्यालकस् तथा
:प् 284
काला मसूरविदला त्रिपुटा त्रिवृता त्रिवृत् ।अप्_362.053अब्।
मधुकं क्लीतकं यष्टिमधुका मधुयष्टिका
विदारी क्षीरशुक्लेक्षुगन्धा क्रोष्ट्री च या सिता ।अप्_362.054अब्।
गोपी श्यामा शारिवा स्यादनन्तोत्पलशारिवा
मोचा रम्भा च कदली भण्टाकी दुष्प्रधर्षिणी ।अप्_362.055अब्।
स्थिरा ध्रुवा सालपर्णी शृङ्गी तु वृषभो वृषः
गाङ्गेरुकी नागबला मुषली तालमूलिका ।अप्_362.056अब्।
ज्योत्स्नी पटोलिका जाली अजशृङ्गी विषाणिका
स्याल्लाङ्गलिक्यग्निशिखा ताम्बूली नागवल्ल्यपि ।अप्_362.057अब्।
हरेणू रेणुका कौन्ती ह्रीवेरो दिव्यनागरं
कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु ।अप्_362.058अब्।
शैलेयं तालपर्णी तु दैत्या गन्धकुटी मुरा
ग्रन्थिपर्णं शुकं वर्हि वला तु त्रिपुटा त्रुटिः ।अप्_362.059अब्।
शिवा तामलकी चाथ हनुर्हट्टविलासिनी
कुटं नटं दशपुरं वानेयं परिपेलवम् ।अप्_362.060अब्।
तपस्वनी जटामांसी पृक्का देवी लता लशूः
कर्चुरको द्राविडको गन्धमूली शठी स्मृता ।अप्_362.061अब्।
स्यद्दृक्षगन्धा छगलान्त्रा वेगी वृद्धदारकः
तुण्डिकेरी रक्तफला विम्बिका पीलुपर्ण्य् अपि ।अप्_362.062अब्।
चाङ्गेरी चुक्रिकाम्बष्टा स्वर्णक्षीरी हिमावती
सहस्रवेधी चुक्रो ऽम्लवेतसः शतवेध्यपि ।अप्_362.063अब्।
जीवन्ती जीवनी जीवा भूमिनिम्वः किरातकः
कूर्चशीर्षो मधुकरश् चन्द्रः कपिवृकस् तथा ।अप्_362.064अब्।
:प् 285
दद्रुघ्नः स्यादेडगजो वर्षाभूः शीथहानिणी
कुनन्दती निकुम्भस्त्रा(1) यमानी वार्षिका तथा ।अप्_362.065अब्।
लशुनङ्गृञ्चनारिष्टमहाकन्दरसोनकाः
वाराही वदरा गृष्टिः काकमाची तु वायसी ।अप्_362.066अब्।
शतपुष्पा सितच्छत्रातिच्छत्रा मधुरा मिसिः
अवाक्पुष्पी कारवी च सरणा तु प्रसारणी ।अप्_362.067अब्।
कटम्भरा भद्रवला कर्वूरश् च शटी ह्य् अथ
पटोलः कुलकस्तिक्तः कारवेल्लः कटिल्लकः ।अप्_362.068अब्।
कुष्माण्डकस्तु कर्कारुरिर्वारुः कर्कटी स्त्रियौ
इक्ष्वाकुः कटुतुम्बी स्याद्विशाला त्विन्द्रवारुणी ।अप्_362.069अब्।
अर्शेघ्नः शूरणः कन्दो मुस्तकः कुरुविन्दकः
वंशे त्वक्सारकर्मारवेणुमस्करतेजनाः ।अप्_362.070अब्।
छत्रातिच्छत्रपालघ्नौ मालातृणकभूस्तृणे
तृणराजाह्वयस्तालो घोण्टा क्रमुकपुगकौ ।अप्_362.071अब्।
शार्दूलद्वीपिनौ व्यघ्रे हर्यक्षः केशरी हरिः
कोलः पौत्री वराहः स्यात् कोक ईहामृगो वृकः ।अप्_362.072अब्।
लूतोर्णनाभौ तु समौ तन्तुवायश् च मर्कटे
वृश्चिकः शूककीटः स्यात्सारङ्गस्तोककौ समौ ।अप्_362.073अब्।
कृकवाकुस्ताम्रचूडः पिकः कोकिल इत्य् अपि
कके तु करटारिष्टौ वकः कह्व उदाहृतः ।अप्_362.074अब्।
कोकश् चक्रश् चक्रवाको कादम्बः कलहंसकः
पतङ्गिका पुत्तिका स्यात्सरघा मधुमक्षिका ।अप्_362.075अब्।
:न्
1 सकुलदन्ती निर्दंष्ट्रेति ख..
:प् 286
द्विरेफपुष्पलिड्भृङ्गषट्पदभ्रमरा.अलयः
केकी शिख्यस्य वाक्केका शकुन्तिशकुनिद्विजाः ।अप्_362.076अब्।
स्त्री पक्षतिः पक्षमूलञ्चञ्चुस्तोटिरुभे स्त्रियौ
गतिरुड्डिनसण्डीनौ कुलायो नीडमस्त्रियां ।अप्_362.077अब्।
पेशी कोषो द्विहीने ऽण्डं पृथुकः शावकः शिशुः
पोतः पाको ऽर्भको डिम्भः सन्दोहव्यूहको गणः ।अप्_362.078अब्।
स्तोमौघनिकरव्राता निकुरम्बं कदम्बकं ।अप्_362.078च्द्।
सङ्घातसञ्चयौ वृन्दं पुञ्जराशी तु कूटकं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0