भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 363

363.001

:ए इत्य् आग्नेये महापुराणे भूमिवनौषध्यादिवर्गा नाम
द्विषष्ट्यधिकत्रिशततमो ऽध्यायः
% छप्तेर् {363}
:श् अथ त्रिषष्ट्यधिकत्रिशततमो ऽध्यायः
नृब्रह्मक्षत्रविट्शूद्रवर्गाः
अग्निर् उवाच
नृब्रह्मक्षत्रविट्शूद्रवर्गान्वक्ष्ये ऽथ नामतः ।अप्_363.001अब्।
नरः पञ्चजना मर्त्य यद्योषावंला वधूः

363.002

कान्तार्थिनी तु या याति सङ्केतं साभिसारिका ।अप्_363.002अब्।
कुलटा पुंश् चल्यसती नग्निका स्त्री च कोटवी

363.003

कात्यायन्यर्धवृद्धा या सैरिन्ध्री परवेश्मगा ।अप्_363.003अब्।
असिक्री स्यादवृद्धा या मलिनी तु रजस्वला

363.004

वारस्त्री गणिका वेश्या भ्रातृजायास्तु यातरः ।अप्_363.004अब्।
ननान्दा तु स्वसा पत्युः सपिण्डास्तु सनाभयः

363.005

:प् 287
समानोदर्यसोदर्यसगर्भसहजास्समाः ।अप्_363.005अब्।
सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः

363.006

दम्पती जम्पती भार्यापती जायापती च तौ ।अप्_363.006अब्।
गर्भाशयो जरायुः स्यादुल्वञ्च कललो ऽस्त्रियां

363.007

गर्भो भ्रुण इमौ तुल्यौ क्लीवं शण्डो नपुंसकम् ।अप्_363.007अब्।
स्यादुत्तानशया डिम्भा बालो माणवकः स्मृतः

363.008

पिचिण्डिलो वृहत्कुक्षिरवभ्रटो नतनासिके ।अप्_363.008अब्।
विकलाङ्गस्तु पोगण्ड आरोग्यं स्यादनामयम्

363.009

स्यादेडे वधिरः कुब्जे गडुलः कुकरे कुनिः ।अप्_363.009अब्।
क्षयः शोषश् च यक्ष्मा च प्रतिश्यायुस्तु पीनसः

363.010

स्त्री क्षुत्क्षुतं क्षयं पुंसि कासस्तु क्षवथुः पुमान् ।अप्_363.010अब्।
शोथस्तु श्वयथुः शोफः पादस्फोटो विपादिका

363.011

किलासं सिध्नकच्छान्तु पाम पामा विचर्चिका ।अप्_363.011अब्।
कोठो मण्डलकं कुष्ठं श्वित्रे द्रुर् नामकार्शसी

363.012

अनाहस्तु विबन्धः स्याद्ग्रहणी रुक्प्रवाहिका ।अप्_363.012अब्।
वीजवीर्येन्द्रयं शुक्रं पललं क्रव्यमामिषं

363.013

वुक्काग्रमांसं हृदयं हन्मेदस्तु वपा वसा ।अप्_363.013अब्।
पश्चाद्ग्रीवा शिरा मन्या नाडी तु धमनिः शिरा

363.014

तिलकं क्तोम मस्तिष्कं द्रूषिका नेत्रयोर्मलम् ।अप्_363.014अब्।
अन्त्रं पुरी तद्गुल्मस्तु प्लीहा पुंस्य् अथ वस्नसा

363.015

स्नायुः स्त्रियां कालखण्डयकृती तु समे इमे ।अप्_363.015अब्।
स्यात् कर्पूरः कपालो ऽस्त्री कीकसङ्कुल्यमस्थि च

363.016

स्याच्छरीरास्थ्नि कङ्कालः पृष्ठास्थ्नि तु कशेरुका ।अप्_363.016अब्।
:प् 288
शिरो ऽस्थनि करोटिः स्त्री पार्श्वास्थनि तु पर्शुका

363.017

अङ्गं प्रतीको ऽवयवः शरीरं वर्ष्म विग्रहः ।अप्_363.017अब्।
कटो ना श्रोणिफलकं कटिः श्रोणिः ककुद्मती

363.018

पश्चान्नितम्बः स्त्रीकट्याः क्लीवे तु जघनं पुरः ।अप्_363.018अब्।
कूपकौ तु नितम्बस्थौ द्वयहीने ककुन्दरे

363.019

स्त्रियां स्फिचौ कटिप्रोथावुपस्थो वक्ष्यमाणयोः ।अप्_363.019अब्।
भगं योनिर्द्वयोः शिश्नो मेढ्रो मेहनशेफसी

363.020

पिचिण्डकुक्षी जठरोदरं तुन्दं कुचौ स्तनौ ।अप्_363.020अब्।
चूचुकन्तु कुचाग्रं स्यान्न ना क्रोडं भुजान्तरम्

363.021

स्कन्धो भुजशिरो ऽंशो ऽस्त्री सन्धी तस्यैव जत्रुणी ।अप्_363.021अब्।
पुनर्भवः कररुहो नखो ऽस्त्री नखरो ऽस्त्रियां

363.022

प्रदेशतालगोकर्णास्तर्जन्यादियुते तते ।अप्_363.022अब्।
अङ्गुष्ठे सकनिष्ठे स्याद्वितस्तिर्द्वादशाङ्गुलः

363.023

पाणौ च पेटप्रतलप्रहस्ता विस्तृताङ्गुलौ ।अप्_363.023अब्।
बद्धमुष्टिकरो रत्निररत्निः स कनिष्ठवान्

363.024

कम्बुग्रीवा त्रिरेखा सावटुर्घाटा कृकाटिका ।अप्_363.024अब्।
अधः स्याच्चिवुकञ्चौष्ठादथ गण्डौ गलो हनुः

363.025

अपाङ्गौ नेत्रयोरन्तौ कटाक्षो ऽपाङ्गदर्शने ।अप्_363.025अब्।
चिकुरः कुन्तलो बालः प्रतिकर्म प्रसाधनम्

363.026

आकाल्पवेशौ नेपथ्यं प्रत्यक्षं खेलयोगजम् ।अप्_363.026अब्।
चूडामणिः शिरोरत्नं तरलो हारमध्यगः

363.027

कर्णिका तालपत्रं स्याल्लम्बनं स्याल्ललन्तिका ।अप्_363.027अब्।
मञ्जीरो नूपुरं पादे किङ्किणी क्षुद्रघण्टिका

363.028

:प् 289
दैर्घ्यमायाम आरोहः परिणाहो विशालता ।अप्_363.028अब्।
पटच्चरं जीर्णवस्त्रं संव्यानञ्चोत्तरीयकम्

363.029

रचना स्यात् परिस्पन्द आभोगः परिपूर्णता ।अप्_363.029अब्।
समुद्गकः सम्पुटकः प्रतिग्राहः पतद्ग्रहः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc