भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 361

361.001

:ए इत्य् आग्नेये महापुराणे अव्ययवर्गा नाम
षष्ट्यधिकत्रिशततमो ऽध्यायः
% छप्तेर् {361}
:श् अथैकषष्ट्यधिकत्रिशततमो ऽध्यायः
नानार्थवर्गाः
अग्निर् उवाच
आकाशे त्रिदिवे नाको लोकस्तु भवने जने ।अप्_361.001अब्।
पद्ये यशसि च श्लोकःशरे खड्गे च सायकः

361.002

आनकः पटहो भेरी कलङ्को ऽङ्कापवादयोः ।अप्_361.002अब्।
मारुते वेधसि व्रध्ने पुंसि कः कं शिरो ऽम्बुनोः

361.003

स्यात् पुलाकस्तुच्छधान्ये संक्षेपे भक्तसिक्थके ।अप्_361.003अब्।
महेन्द्रगुग्गुलूलूकव्यालग्राहिषु कौशिकः

361.004

शालावृकौ कपिश्वानौ मानं स्यान्मितिसाधनं ।अप्_361.004अब्।
सर्गः स्वभावनिर्मोक्षनिश् चयाध्यायस्मृष्टिषु

361.005

योगः सन्नहनोपायध्यानसङ्गतियुक्तिषु ।अप्_361.005अब्।
:प् 276
भोगः सुखे स्त्र्यादिभृतावब्जौ शङ्कनिशाकरौ

361.006

काके भगण्डौ करटौ दुश् चर्मा शिपिविष्टकः ।अप्_361.006अब्।
रिष्टं क्षेमाशुभाभावेष्वरिष्टे तु शुभाशुभे

361.007

व्युष्टिः फले समृद्धौ च दृष्टिर्ज्ञाने ऽक्ष्णि दर्शने ।अप्_361.007अब्।
निष्ठानिष्पत्तिनाशान्ताः काष्ठोत्कर्षे स्थितौ दिशि

361.008

भूगोवाचस्त्विडा इलाः प्रगाढं भृषकृच्छ्रयोः ।अप्_361.008अब्।
भृशप्रतिज्ञयोर्वाढं शक्तस्थूलौ दृढौ त्रिषु

361.009

विन्यस्तसंहतौ व्यूढौ कृष्णो व्यासे ऽर्जुने हरौ ।अप्_361.009अब्।
पणो दूयतादिषूत्सृष्टे भृतौ मूल्ये धने ऽपि च

361.010

मौर्व्यां द्रव्याश्रिते सत्वशुक्लसन्ध्यादिके गुणः ।अप्_361.010अब्।
श्रेष्ठे ऽधिपे ग्रामणीः स्यात् जुग्प्साकरुणे घृणे

361.011

तृष्णा स्पृहापिपासे द्वे विपणिः स्याद्वणिक्पथे ।अप्_361.011अब्।
विषाभिमरलोहेषु तीक्ष्णं क्लीवे खरे त्रिषु

361.012

प्रमाणं हेतुमर्यादाशास्त्रेयत्ताप्रमातृषु ।अप्_361.012अब्।
करणं क्षेत्रगात्रादावीरिणं शून्यमूषरं

361.013

यन्ता हस्तिपके सूते वह्निज्वाला च हेतयः ।अप्_361.013अब्।
स्रुतं शास्त्रावधृतयोर्युगपर्याप्तयोः कृतं

361.014

ख्याते हृष्टे प्रतीतो ऽभिजातस्तु कुलजे बुधे ।अप्_361.014अब्।
विविक्तौ पूतविजनौ मूर्छितौ मूड्सोच्छयौ

361.015

अर्थो ऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु ।अप्_361.015अब्।
निदानागमयोस्तीर्थमृषिजुष्टजले गुरौ

361.016

प्राधान्ये राजलिङ्गे च वृषाङ्गे ककुदो ऽस्त्रियां ।अप्_361.016अब्।
स्त्री सम्बिज्ज्ञानसम्भाषाक्रियाकाराजिनामसु

361.017

:प् 277
धर्मे रहस्युपनिषत् स्यादृतौ वत्सरे शरत् ।अप्_361.017अब्।
पदं व्यवसितित्राणस्थानलक्ष्माङ्घ्रिवस्तुषु

361.018

त्रिष्वष्टमधुरौ स्वादू मृदू चातीक्ष्णकोमलौ ।अप्_361.018अब्।
सत्ये साधौ विद्यमाने प्रशस्ते ऽभ्यर्हिते च सत्

361.019

विधिर्विधाने दैवे ऽपि प्रणिधिः प्रार्थने चरे ।अप्_361.019अब्।
वधूर्जाया स्नुषा च सुधालेपो ऽमृतं स्नुही

361.020

स्पृहा सम्प्रत्ययः श्रद्धा पण्डितम्मन्यगर्वितौ ।अप्_361.020अब्।
ब्रह्मबन्धुरधिक्षेपे भानू रष्मिदिवाकरौ

361.021

ग्रावाणौ शैलपाषानौ मूर्खनीचौ पृथग्जनौ ।अप्_361.021अब्।
तरुशैलौ शिखरिणौ तनुस्त्वग्देहयोरपि

361.022

आत्मा यत्नो धृतिर्वुद्धिः स्वभावो ब्रह्मवर्ष्म च ।अप्_361.022अब्।
उत्थानं पौरुषे तन्त्रे व्युत्थानं प्रतिरोधने

361.023

निर्यातनं वैरशुद्धौ दाने न्यासार्पणे ऽपि च ।अप्_361.023अब्।
व्यसनं विपदि भ्रशे दोषे कामजकोपजे

361.024

मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः ।अप्_361.024अब्।
तौर्यत्रिकं वृथाट्या च कामजो दशको गणः

361.025

पैशून्यं साहसं द्रोह ईर्ष्यासूयार्थदूषणम् ।अप्_361.025अब्।
वाग्दण्डश् चैव पारुष्यं क्रोधजो ऽपि गणो ऽष्टकः

361.026

अकर्मगुह्ये कौपीनं मैथुनं सङ्गतौ रतौ ।अप्_361.026अब्।
प्रधानं परमार्था धीः प्रज्ञानं बुद्धिचिह्नयोः

361.027

क्रन्दने रोदनाह्वाने वर्ष्म देहप्रमाणयोः ।अप्_361.027अब्।
आराधनं साधने स्यादवाप्तौ तोषणे ऽपि च

361.028

रत्नं स्वजातिश्रेष्ठे ऽपि लक्ष्म चिह्नप्रधानयोः ।अप्_361.028अब्।
:प् 278
कलापो भूषणे वर्हे तूणीरे संहते ऽपि च

361.029

तल्पं शय्याट्टारेषु डिम्भौ तु शिशुवालिशौ ।अप्_361.029अब्।
स्तम्भौ स्थूणाजडीभावौ सभ्ये संसदि वै सभा

361.030

किरणप्रग्रहौ रश्मी धर्माः पुण्ययमादयः ।अप्_361.030अब्।
ललामं पुच्छपुण्ड्राश्वभूषाप्राधान्यकेतुषु

361.031

प्रत्ययो ऽधीनशपथज्ञानविश्वासहेतुषु ।अप्_361.031अब्।
समयाः शपथाचारकालसिद्धान्तसंविदः

361.032

अत्ययो ऽतिक्रमे कृच्छ्रे सत्यं शपथतथ्ययोः ।अप्_361.032अब्।
वीर्यं बलप्रभावौ च रूप्यं रूपे प्रशस्तके

361.033

दुरोदरो द्यूतकारे पणे द्यूते दुरोदरं ।अप्_361.033अब्।
महारण्ये दुर्गपथे कान्तारः पुन्नपुंसकं

361.034

यमानिलेन्द्रचन्द्रार्कविष्णुसिंहादिके हरिः ।अप्_361.034अब्।
दरो ऽस्त्रियां भये श्वभ्रे जठरः कठिने ऽपि च

361.035

उदारो दातृमहतोरितरस्त्वन्यनीचयोः ।अप्_361.035अब्।
चूडा किरीटं केशाश् च संयता मौलयस्त्रयः

361.036

बलिः करोपहारादौ सैन्यस्थैर् यादिके बलं ।अप्_361.036अब्।
स्त्रीकटीवस्त्रबन्धे ऽपि नीवी परिपणे ऽपि च

361.037

शुक्रले मूषिके श्रेष्ठे सुकृते वृषभे वृषः ।अप्_361.037अब्।
द्यूताक्षे सारिफलके ऽप्याकर्षो ऽथाक्षमिन्द्रिये

361.038

ना द्यूताङ्गे च कर्षे च व्यवहारे कलिद्रुमे ।अप्_361.038अब्।
ऊष्णीषः स्यात् किरीटादौ कर्षूः कुल्याभिधायिनी

361.039

प्रत्यक्षे ऽधिकृते ऽध्यक्षः सूर्यवह्नी विभावसू ।अप्_361.039अब्।
शृङ्गारादौ विषे वीर्ये गुणे रागे द्रवे रसः

361.040

:प् 279
तेजःपुरीषयोर्वर्च आगः पापापराधयोः ।अप्_361.040अब्।
छन्दः पद्ये ऽभिलासे च साधीयान् साधुवाढयोः ।अप्_361.040च्द्।
व्यूहो वृन्दे ऽप्यहिर्वृत्रे ऽप्यग्नीन्द्वर्कास्तमोनुदः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc