अग्नि पुराण · अध्याय 360
:ए इत्य् आग्नेये महापुराणे स्वर्गपातालादिवर्गा
नामोनषष्ट्यधिकत्रिशततमो ऽध्यायः
% छप्तेर् {360}
:श् अथ षष्ट्यधिकत्रिशततमो ऽध्यायः
अव्ययवर्गाः
अग्निर् उवाच
आङीषदर्थे ऽभिव्याप्तौ सीमार्थे धातुयोगजे ।अप्_360.001अब्।
आ प्रगृह्यः स्मृतौ वाक्ये ऽप्यास्तु स्यात् कोपपीड्योः
पापकुत्सेषदर्थे कु धिग्जुगुप्सननिन्दयोः ।अप्_360.002अब्।
चान्वाचयसमाहारेतरेतरसमुच्चये
:प् 272
स्वस्त्याशीः क्षेमपुण्यादौ प्रकर्षे लङ्घने ऽप्यति ।अप्_360.003अब्।
स्वित्प्रश्ने च वितर्के च तु स्याद्भेदे ऽवधारणे
सकृत्सहैकवारे स्यादाराद्दूरसमीपयोः ।अप्_360.004अब्।
प्रतीच्यां चरमे पश्चादुताप्यर्थविकल्पयोः
पुनःसदार्थयोः शश्वत् साक्षात् प्रत्यक्षतुल्ययोः ।अप्_360.005अब्।
खेदानुकम्पासन्तोषविस्मयामन्त्रणे वत
हन्त हर्षे ऽनुकम्पायां वाक्यारम्भविषादयोः ।अप्_360.006अब्।
प्रति प्रतिनिधौ वीप्सालक्षणादौ प्रयोगतः
इति हेतौ प्रकरणे प्रकाशादिसमाप्तिषु ।अप्_360.007अब्।
प्राच्यां पुरस्तात् प्रथमे पुरार्थे ऽग्रत इत्य् अपि
यावत्तावच्च साकल्ये ऽवधौ माने ऽवधारणे ।अप्_360.008अब्।
मङ्गलानन्तरारम्भप्रश्नकार्त्स्नेष्व् अथोथ च
वृथा निरर्थकाविध्योर्नानानेकोभयार्थयोः ।अप्_360.009अब्।
नु पृच्छायां विकल्पे च पश्चात्सादृश्ययोरनु
प्रश्नावधारणानुज्ञानुनयामन्त्रणे ननु ।अप्_360.010अब्।
गर्हासमुच्चयप्रश्नशङ्कासम्भावनास्व् अपि
उपमायां विकल्पे वा सामित्वर्धे जुगुप्सिते ।अप्_360.011अब्।
अमा सह समीपे च कं वारिणि च मूर्धनि
इवेत्थमर्थयोरेवं नूनं तर्के ऽर्थनिश् चये ।अप्_360.012अब्।
तूष्णीमर्थे सुखे जोषं किम्पृच्छायां जुगुप्सने
नाम प्राकाश्यसम्भाव्यक्रोधोपगमकुत्सने ।अप्_360.013अब्।
अलं भूषणपर्याप्तिशक्तिवारणवाचकम्
:प् 273
हूं वितर्के परिप्रश्ने समयान्तिकमध्ययोः ।अप्_360.014अब्।
पुनरप्रथमे भेदे निर्निश् चयनिषेधयोः
स्यात्प्रबन्धे चिरातीते निकटागामिके पुरा ।अप्_360.015अब्।
उरर्युरी चोररी च विस्तारे ऽङ्गीकृते त्रयम्
स्वर्गे परे च लोके स्वर्वार्तासम्भावयोः किल ।अप्_360.016अब्।
निषेधवाक्यालङ्कारे जिज्ञासावसरे(1) खलु
समीपोभयतःशीघ्रसाकल्याभिमुखे ऽभितः ।अप्_360.017अब्।
नामप्रकाशयोः प्रादुर्मिथो ऽन्योन्यं रहस्यपि
तिरो ऽन्तर्धौ तिर्यगर्थे हा विषादशुगर्तिषु ।अप्_360.018अब्।
अहहेत्यद्भुते खेदे हि हेताववधारणे
चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः ।अप्_360.019अब्।
मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत् समाः
स्राग्झटित्यञ्चसाह्नाय सपदि द्राङ्मङ्खु च द्रुते ।अप्_360.020अब्।
बलवत् सुष्ठु किमुत विकल्पे किं किमूत च
तु हि च स्म ह वै पादपूरणे पूजनेप्यति ।अप्_360.021अब्।
दिवाह्नीत्यथ दोषा च नक्तञ्च रजनाविति
तिर्यगर्थे साचि तिरो ऽप्यथ सम्बोधनार्थकाः ।अप्_360.022अब्।
स्युः प्याट्पाड्ङ्ग हे है भोः समया निकषा हिरुक्
अतर्किते तु सहसा स्यात् पुरः पुरतो ऽग्रतः ।अप्_360.023अब्।
स्वाहा देवहविर्दाने श्रौषट् वौषट् वषट् स्वधा
किञ्चिदीषन्मनागल्पे प्रेत्यामुत्र भवान्तरे ।अप्_360.024अब्।
:न्
1 जिज्ञासानुनय इति ञ..
:प् 274
यथा तथा चैव साम्ये अहो हो इति विस्मये
मौने तु तूष्णीं तूष्णीकं सद्यः सपदि तत्क्षणे ।अप्_360.025अब्।
दिष्ट्या शमुपयोषञ्चेत्यानन्दे ऽथान्तरे ऽन्तरा
अन्तरेण च मध्ये स्युः प्रसह्य तु हटार्थकम् ।अप्_360.026अब्।
युक्ते द्वे साम्प्रतं स्थाने ऽभीक्ष्णं शस्वदनारते
अभावे नह्यनो नापि मास्म मालञ्च वारणे ।अप्_360.027अब्।
पक्षान्तरे चेद्यदि च तत्त्वे त्व् अद्धाञ्जसा द्वयम्
प्राकाश्ये प्रादुराविः स्यादोमेवं परमं मते ।अप्_360.028अब्।
समन्ततस्तु परितः सर्वतो विश्वगित्यपि
अकामानुमतौ काममसूयोपगमे ऽस्तु च ।अप्_360.029अब्।
ननु च स्याद्विरोधोक्तौ कच्चित् कामप्रवेदने
निःषमं दुःषमं गर्ह्ये यथास्वन्तु यथायथं ।अप्_360.030अब्।
मृषा मिथ्या च वितथे यथार्थन्तु यथातथं
स्युरेवन्तु पुनर्वैवेत्यवधारणवाचकाः ।अप्_360.031अब्।
प्रागतीतार्थकं नूनमवश्यं निश् चये द्वयं
संवद्वर्षे ऽवरे त्वर्वागामेवं स्वयमात्मना ।अप्_360.032अब्।
अल्पे नीचैर् महत्युच्चैः प्रायोभूम्न्य् अद्रुते शनैः
सना नित्ये वहिर्वाह्ये स्मातीते ऽस्तमदर्शने ।अप्_360.033अब्।
अस्ति सत्त्वे रुषोक्तावूमुं प्रश्ने ऽनुनये त्वयि
हूं तर्के स्यादुषा रात्रेरवसाने नमो नतौ ।अप्_360.034अब्।
पुनरर्थे ऽङ्गनिन्दायां दुष्ठु सुष्ठु प्रशंसने
सायं साये प्रगे प्रातः प्रभाते निकषान्तिके ।अप्_360.035अब्।
परुत्परार्यैसमो ऽब्दे पूर्वे पूर्वतरे यति
:प् 275
अद्यात्राह्न्य् अथ पूर्वेह्नीत्यादौ पूर्वोत्तरा परात् ।अप्_360.036अब्।
तथाधरान्यान्यतरेतरात्पूर्वेद्युरादयः
उभयद्युश्चोभयेद्युः परे त्वह्नि परेद्यपि ।अप्_360.037अब्।
ह्यो गते ऽनागते ऽह्नि श्वः परश्वः श्वःपरे ऽहनि
तदा तदानीं युगपदेकदा सर्वदा सदा ।अप्_360.038अब्।
एतर्हि सम्प्रतीदानीमधुना साम्प्रतन्तथा
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0