अग्नि पुराण · अध्याय 359
:ए इत्य् आग्नेये महापुराणे व्याकरणे कृत्सिद्धरूपं
नामाष्टपञ्चाशदधिकत्रिशततमो ऽध्यायः
:प् 263
% छप्तेर् {359}
:श् अथोनषष्ट्यधिकत्रिशततमो ऽध्यायः
स्वर्गपातालादिवर्गाः
अग्निर् उवाच
स्वर्गादिनामलिङ्गो यो हरिस्तं प्रवदामि ते ।अप्_359.001अब्।
स्वःस्वर्गनाकत्रिदिवा द्योदिवौ द्वेत्रिपिष्टपं
देवा वृन्दारका लेखा रुद्राद्या गणदेवताः ।अप्_359.002अब्।
विद्याधरो ऽप्सरोयक्षरक्षोगन्धर्वकिन्नराः
पिशाचो गुह्यकः सिद्धो भूतो ऽमी देवयोनयः ।अप्_359.003अब्।
देवद्विषो ऽसुरा दैत्याः सुगतः स्यात्तथागतः
ब्रह्मात्मभूः सुरज्येष्ठो विष्णुर् नारायणो हरिः ।अप्_359.004अब्।
रेवतीशो हली रामः कामः पञ्चशरः स्मरः
लक्ष्मीः पद्मालया पद्मा सर्वः सर्वेश्वरः शिवः ।अप्_359.005अब्।
कपर्दो ऽस्य जटाजूटः पिनाको ऽजगवन्धनुः
प्रमथाः स्युः पारिषदा मृडानी चण्डिकाम्बिका ।अप्_359.006अब्।
द्वैमातुरो गजास्यश् च सेनानीरग्निभूर्गुहः
आखाण्डलः सुनासीरः सूत्रामाणो दिवस्पतिः ।अप्_359.007अब्।
पुलोमजा शचीन्द्राणी देवी तस्य तु वल्लभा
स्यात् प्रासादो वैजयन्तो जयन्तः पाकशासनिः ।अप्_359.008अब्।
ऐरावते ऽभ्रमातङ्गैरावणाभ्रमुवल्लभाः(?)
ह्रीदिनी वज्रमस्त्री स्यात् कुलिशम्भिदुरं पविः ।अप्_359.009अब्।
व्योमयानं विमानो ऽस्त्री पीयूषममृतं सुधा
:प् 264
स्यात् सुधर्मा देवसभा स्वर्गङ्गा सुरदीर्घिका ।अप्_359.010अब्।
स्त्रियां बहुष्वप्स्रसः स्वर्वेश्या उर्वशीमुखाः
हाहा हूहूश् च गन्धर्वा अग्निर्वह्निर्धनञ्चयः ।अप्_359.011अब्।
जातवेदाः कृष्णवर्त्मा आश्रयाशश् च पावकः
हिरण्यरेताः सप्तार्चिः शुक्रश् चैवाशुशुक्षणिः ।अप्_359.012अब्।
शुचिरप्पित्तमौर्वस्तु वाडवो वडवानलः
वह्नेर्द्वयोर्ज्वालकीलावर्चिर्हेतिः शिखा स्त्रियां ।अप्_359.013अब्।
त्रिषु स्फुलिङ्गो ऽग्निकणो धर्मराजः परेतराट्
कालो ऽन्तको दण्डधरः श्राद्धेदेवो ऽथ राक्षसः ।अप्_359.014अब्।
कौणपास्रपक्रव्यादा यातुधानश् च नैरृतिः
प्रेचेता वरुणः पाशी श्वसनः स्पर्शनो ऽनिलः ।अप्_359.015अब्।
सदागतिर्मातरिश्वा प्राणो मरुत् समीरणः
जवो रंहस्तरसी तु लघुक्षिप्रमरन्द्रुतम् ।अप्_359.016अब्।
सत्वरं चपलं तूर्णमविलम्बितमाशु च
सतते ऽनारताश्रान्तसन्तताविरतानिशं ।अप्_359.017अब्।
नित्यानवरताजस्रमप्यथातिशयो भरः
अतिवेलभृशात्यर्थातिमात्रोद्गाटनिर्भरम् ।अप्_359.018अब्।
तीव्रैकान्तनितान्तानि गाढवाढदृढानि च
गुह्यकेशो यक्षराजो राजराजो धनाधिपः ।अप्_359.019अब्।
स्यात् किन्नरः किंपुरुषस्तुरङ्गवदनो मयुः
निधिर् ना सेवधिर्व्योम त्वभ्रं पुष्करमम्बरम् ।अप्_359.020अब्।
द्योदिवौ चान्तरीक्षं खं काष्ठाशाककुभो दिशः
अभ्यन्तरन्त्वन्तरालञ्चक्रवाडन्तु मन्डलं ।अप्_359.021अब्।
:प् 265
तडित्वान् वारिदो मेघस्तनयित्नुर्वलाहकः
कादम्बनी मेघमाला स्तनितं गर्जितं तथा ।अप्_359.022अब्।
शम्पाशतह्रदाह्रादिन्यैरावत्यः क्षणप्रभाः(?)
तडित्सौदामिनी विद्युच्चञ्चला चपलापि च ।अप्_359.023अब्।
स्फुर्जथुर्वज्रनिष्पेषो वृष्टिघातस्त्ववग्रहः
धारा सम्पात आशारः शीकरो ऽम्बुकणाः स्मृताः ।अप्_359.024अब्।
वर्षोपलस्तु करका मेघछन्ने ऽह्नि दुर्दिनं
अन्तर्धा व्यवधा पुंसि त्वन्तर्धिरपवारणं ।अप्_359.025अब्।
अपिधानतिरोधानपिधानच्छदनानि च
अब्जो जैवातृकः सोमो ग्लौर्मृगाङ्कः कलानिधिः ।अप्_359.026अब्।
विधुः कुमुदवन्धुश् च विम्बो ऽस्त्री मण्डलं त्रिषु
कला तु षोड्शो भागो भित्तं शकलखण्डके ।अप्_359.027अब्।
चन्द्रिका कौमुदी ज्योत्स्ना प्रसादस्तु प्रसन्नता
लक्षणं लक्ष्मकं चिह्नं शोभा कान्तिर्द्युतिश्छविः ।अप्_359.028अब्।
सुषमा पर्मा शोभा तुषारस्तुहिनं हिमं
अवस्यायस्तु नीहारः प्रालेयः शिशिरो हिमः ।अप्_359.029अब्।
नक्षत्रमृक्षं भन्तारा तारका प्युडु वा स्त्रियां
गुरुर्जीव आङ्गिरस उशना भार्गवः कविः ।अप्_359.030अब्।
विधुन्तुदस्तमो राहुर् लग्नं राश्युदयः स्मृतः
सप्तर्षयो मरीच्यत्रिमुखाश्चित्रशिखण्डिनः ।अप्_359.031अब्।
हरिदश्वव्रघ्मपूषद्युमणिर्मिहिरो रविः
परिवेषस्तु परिधिरुपसूर्यकभण्डले ।अप्_359.032अब्।
किरणो ऽस्रमयूखांशुगभस्तिघृणिधृष्णयः
:प् 266
भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियां ।अप्_359.033अब्।
स्युः प्रभा रुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः
रोचिः शोचिरुभे क्लीवे प्रकाशो द्योत आतपः ।अप्_359.034अब्।
कोष्णं कवोष्णं मन्दोष्णं कदुष्णं त्रिषु तद्वति
तिर्मं तीक्ष्णं खरं तद्वद्दिष्टो ऽनेहा च कालकः ।अप्_359.035अब्।
घस्रो दिनाहनी चैव सायंसन्ध्या पितृप्रसूः
प्रत्यूषो ऽहर्मुखं कल्यमुषःप्रत्यूषसी अपि ।अप्_359.036अब्।
प्राह्णापराह्णमध्याह्णास्त्रिसन्ध्यमथ शर्वरी
यामी तमी तमिस्रा च ज्योत्स्नी चन्द्रकयान्विता ।अप्_359.037अब्।
आगामिवर्तमानाहर्युक्तायां निशि पक्षिणी
अर्धरात्रनिशीथौ प्रदोषो रजनीमुखं ।अप्_359.038अब्।
स पर्वसन्धिः प्रतिपत्पञ्चदश्योर्य दन्तरम्
पक्षान्तौ पञ्चदश्यौ द्वे पौर्णमासी तु पूर्णिमा ।अप्_359.039अब्।
कलाहीने सानुमतिः पूर्णे राका निशाकरे
अमावास्या त्वमावस्या दर्शः सूर्येन्दुसङ्गमः ।अप्_359.040अब्।
सा दृष्टेन्दुः सिनीवाली सा नष्टेन्दुकला कुहूः
संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्य् अपि ।अप्_359.041अब्।
कलुषं वृजिनैनो ऽघमंहोदुरितदुष्कृतम्
स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः ।अप्_359.042अब्।
मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः
स्यादानन्दथुरानन्दः शर्मशातसुखानि च ।अप्_359.043अब्।
श्वः श्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्
भावुकं भविकं भव्यं कुशलं क्षेममस्त्रियां ।अप्_359.044अब्।
:प् 267
दैवं दिष्टं मागधेयं भाग्यं स्त्री नियतिर्विधिः
क्षेत्रज्ञ आत्मा पुरुषः प्रधानं प्रकृतिः स्त्रियां ।अप्_359.045अब्।
हेतुर्ना कारणं वीजं निदानं त्वादिकारणम्
चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानसम्मनः ।अप्_359.046अब्।
बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः
प्रेक्षोपलिब्धिश्चित्सम्बित्प्रतिपज्ज्ञप्तिचेतनाः ।अप्_359.047अब्।
धीर्धारणावती मेधा सङ्कल्पः कर्म मानसं
सङ्ख्या विचारणा चर्चा विचिकित्सा तु संशयः ।अप्_359.048अब्।
अध्याहारस्तर्क ऊहः समौ निर्णयनिश् चयौ
मिथ्यादृष्टिर्नास्तिकता भ्रान्तिर्मिथ्यामतिर्भ्रमः ।अप्_359.049अब्।
अङ्गीकाराभ्युपगमप्रतिश्रवसमाधयः
मोक्षे धीर्ज्ञानमन्यत्र विज्ञानं शिल्पशास्त्रयोः ।अप्_359.050अब्।
मुक्तिः कैवल्यनिर्वाणश्रेयोनिःश्रेयसामृतं
मोक्षो ऽपवर्गो ऽथाज्ञानमविद्याहम्मतिः स्त्रियां ।अप्_359.051अब्।
विमर्दोत्थे परिमलो गन्धे जनमनोहरे
आमोदः सो ऽतिनिर्हारी सुरभिर्घ्राणतर्पणः ।अप्_359.052अब्।
शुक्लशुभ्रशुचिश्वेतविशदश्वेतपाण्डराः
अवदातः सितो गौरो वलक्षो धवलो ऽर्जुनः ।अप्_359.053अब्।
हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः
कृष्णे नीलासितश्यामकालश्यामलमेचकाः ।अप्_359.054अब्।
पीतो गौरो हरिद्राभः पालाशो हरितो हरित्
रोहितो लोहितो रक्तः शोणः कोकनदच्छविः ।अप्_359.055अब्।
अव्यक्तरागस्त्वरुणः श्वेतरक्तस्तु पाटलः
:प् 268
श्यावः स्यात्कपिशो धूम्रधूमलौ कृष्णलोहिते ।अप्_359.056अब्।
कडारः कपिलः पिङ्गपिशङ्गौकद्रुपिङ्गलौ
चित्रं किर्मीरकल्माषशवलैताथ कर्वुरे ।अप्_359.057अब्।
व्याहर उक्तिर्लपितमपभ्रंशो ऽपशब्दकः
तिङ्सुवन्तचयो काव्यं क्रिया वा कारकान्विता ।अप्_359.058अब्।
इतिहासः पुरावृत्तं पुराणं पञ्चलक्षणं
आख्यायिकोपलब्धार्था प्रबन्धः कल्पना कथा ।अप्_359.059अब्।
समाहारः संग्रहस्तु प्रवह्लिका प्रहेलिका
समस्या तु समासार्था स्मृतिस्तु धर्मसंहिता ।अप्_359.060अब्।
आख्याह्वे चाभिधानञ्च वार्ता वृत्तान्त ईरितः
हूतिराकारणाह्वानमुपन्यासस्तु वाङ्मुखं ।अप्_359.061अब्।
विवादो व्यवहारः स्यात् प्रतिवाक्योत्तरे समे
उपोद्धात उदाहारो ह्य् अर्थ मिथ्याभिसंशनम् ।अप्_359.062अब्।
अभिशापो यशः कीर्तिः प्रश्नः पृच्छानुयोगकः
आम्रेडितं द्विस्त्रिरुक्तं कुत्सानिन्दे च गर्हणे ।अप्_359.063अब्।
स्यादाभाषणमालापः प्रलापो ऽनर्थकं वचः
अनुलापो मुहुर्भाषा वोलापः परिदेवनं ।अप्_359.064अब्।
विप्रलापो विरोधोक्तिः संलापो भाषणं मिथः
सुप्रलापः सुवचनमपलापस्तु निह्नवः ।अप्_359.065अब्।
उषती वागकल्याणी सङ्गतं हृदयङ्गमं
अत्यर्थमधुरं सान्त्वमबद्धं स्यादनर्थकं ।अप्_359.066आअब्।
निष्ठुराश्लीलपरुषं ग्राम्यं वै सुनृतं प्रिये ॥अप्_359.066आच्द्।
सत्यं तथ्यमृतं सम्यङ्नादनिस्वाननिस्वनाः ।अप्_359.067आअब्।
:प् 269
आरवारावसंरावविरावा अथ मर्मरः ॥67आ॥अप्_359.067आच्द्।
स्वनिते वस्त्रपर्णानां भूषणानान्तु शिञ्जितं ।अप्_359.068आअब्।
वीणाया निक्वणः क्वाणः तिरश्चां वाशितं रुतं ॥अप्_359.068आच्द्।
कोलाहलः कलकलो गीतं गानमिमे समे ।अप्_359.069आअब्।
स्त्री प्रतिश्रुत् प्रतिध्वाने तन्त्रीकण्ठान्निसादकः ॥अप्_359.069आच्द्।
काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे ।अप्_359.070आअब्।
कलो मन्त्रस्तु गम्भीरे तारो ऽत्युच्चैस्त्रयस्त्रिषु ॥70आ॥अप्_359.070आच्द्।
समन्वितलयस्त्वेकतालो वीणा तु वल्लकी ।अप्_359.071आअब्।
विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी ॥अप्_359.071आच्द्।
ततं वीणादिकं वाद्यमानद्धं मुरजादिकं ।अप्_359.072आअब्।
वंश्यादिकन्तु शुषिरं काण्स्यतालादिकं घनं ॥अप्_359.072आच्द्।
चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकं ॥अप्_359.073आअब्।
मृदङ्गा मुरजा भेदास्त्वङ्क्यालिङ्ग्यो ऽर्धकास्त्रयः ॥अप्_359.073आच्द्।
स्याद्यशःपटहो टक्का भेर्यामानकदुन्दुभिः ।अप्_359.074आअब्।
आनकः पटहो भेदा झर्झरीडिण्डिमादयः ॥अप्_359.074आच्द्।
मर्दलः पणवस्तुल्यौ क्रियामानन्तु तालकः ।अप्_359.075आअब्।
लयः साम्यं ताण्डवन्तु नाट्यं लास्यञ्च नर्तनं ॥अप्_359.075आच्द्।
तौर्यत्रिकं नृत्यगीतवाद्यं नाट्यमिदं त्रयम् ।अप्_359.076आअब्।
राजा भट्टारको देवः साभिषेका च देव्यपि ॥अप्_359.076आच्द्।
शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः ।अप्_359.077आअब्।
वीभत्सरौद्रे च रसाः शृङ्गारः शुचिरुज्ज्वलः ॥अप्_359.077आच्द्।
उत्साहवर्धनो वीरः कारुण्यं करुणा घृणा ।अप्_359.078आअब्।
कृपा दया चानुकम्पाप्यनुक्रोशो ऽप्यथो हसः ॥अप्_359.078आच्द्।
:प् 270
हासो हास्यञ्च वीभत्सं विकृतं त्रिष्विदं द्वयं ।अप्_359.066बब्।
विस्मयो ऽद्भुतमाश् चर्यं चित्रमप्यथ भैरवं ॥अप्_359.066ब्च्द्।
दारुणं भीषणं भीष्मं घोरं भीमंभयानकं ।अप्_359.067बब्।
भयङ्करं प्रतिभयं रौद्रन्तूग्रममी त्रिषु ॥अप्_359.067ब्च्द्।
चतुर्दश दरत्रासौ भीतिर्भीः साध्वसम्भयं ।अप्_359.068बब्।
विकारो मानसो भावो ऽनुभावो भावबोधनः ॥68ब्॥अप्_359.068ब्च्द्।
गर्वो ऽभिमानो ऽहङ्कारो मानश्चित्तसमुन्नतिः ।अप्_359.069बब्।
अनादरः परिभवः परिभावस्तिरस्क्रिया ॥69ब्॥अप्_359.069ब्च्द्।
व्रीडा लज्जा त्रपा ह्रीः स्यादभिध्यानं धने स्पृहा ।अप्_359.070बब्।
कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलं ॥70ब्॥अप्_359.070ब्च्द्।
स्त्रोणां विलासविव्वोकविभ्रमा ललितन्तथा ।अप्_359.071बब्।
हेला लीलेत्यमी हावाः क्रियाः शृङ्गारभावजाः ॥अप्_359.071ब्च्द्।
द्रवकेलिपरीहासाः क्रीडा लीला च कूर्दनं ।अप्_359.072बब्।
स्यादाछुरितकं हासः सोत्प्रासः समनाक्स्मितं ॥अप्_359.072ब्च्द्।
अधोभुवनपातालं छिद्रं श्वभ्रं वपा शुषिः ।अप्_359.073बब्।
गर्तावटौ भुवि श्वेभ्रे तमिश्रन्तिमिरं तमः ॥अप्_359.073ब्च्द्।
सर्पः पृदाकुर्भुजगो दन्दशूको विलेशयः ।अप्_359.074बब्।
विषं क्ष्वेडश् च गरलं निरयो दुर्गतिः स्त्रियां ॥अप्_359.074ब्च्द्।
पयः कीलालममृतमुदकं भुवनं वनं ।अप्_359.075बब्।
भङ्गस्तरङ्ग ऊर्मिर्वा कल्लोलोल्लोलकौ च तौ ॥75ब्॥अप्_359.075ब्च्द्।
पृषन्तिविन्दुपृषताः कूलं रोधश् च तीरकं ।अप्_359.076बब्।
तोयोत्थितं तत् पुलिनं जम्बालं पङ्ककर्दमौ ॥अप्_359.076ब्च्द्।
जलोच्छासाः परीवाहाः कूपकास्तु विदारकाः ।अप्_359.077बब्।
:प् 271
आतारस्तरपण्यं स्याद्द्रोणी काष्ठाम्बुवाहिनी ॥अप्_359.077ब्च्द्।
कलुषश्चाविलो ऽच्छस्तु प्रसन्नो ऽथ गभीरकं ।अप्_359.078बब्।
अगाधं दासकैवर्तौ शम्बूका जलशुक्तयः ॥अप्_359.078ब्च्द्।
सौगन्धिकन्तु कह्लारं नीलमिन्दीवरं कजं ।अप्_359.079अब्।
स्यादुत्पलं कुवलयं सिते कुमुदकैरवे
शालूकमेषां कन्दः स्यात् पद्मं तामरसङ्कजं ।अप्_359.080अब्।
नीलोत्पलं कुवलयं रक्तं कोकनदं स्मृतम्
करहाटः शिफा कन्दं किञ्जल्कः केशरो ऽस्त्रियां ।अप्_359.081अब्।
खनिः स्त्रियामाकरः स्यात् पादाः प्रत्यन्तपर्वताः
उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका ।अप्_359.082अब्।
स्वर्गपातालवर्गाद्या उक्ता नानार्थकान् शृणु
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0