अग्नि पुराण · अध्याय 358
:ए इत्य् आग्नेये महापुराणे व्याकरणे तिङ्सिद्धरूपं नाम
सप्तपञ्चाशदधिकत्रिशततमो ऽध्यायः
:प् 262
% छप्तेर् {358}
:श् अथाषटपञ्चाशदधिकत्रिशततमो ऽध्यायः
कृत्सिद्धरूपम्
कुमार उवाच
कृतस्त्रिष्वपि विज्ञेया भावे कर्मणि कर्तरि ।अप्_358.001अब्।
अज्ल्युट् क्तिन् घञो भावे युजकारत एव च
अचि धर्मस्य विनय उत्करः प्रकरस् तथा ।अप्_358.002अब्।
देवो भद्रः श्रीकरश् च ल्पुटि रूपन्तु शोभनम्
क्तिनि वृद्धिस्तुतिमती घञि भावो ऽथ युच्यपि ।अप्_358.003अब्।
कारणा भावनेत्यादि अकारे च चिकित्सया
तथा तव्यो ह्य् अनीयश् च कर्तव्यं कर्णीयकम् ।अप्_358.004अब्।
देयं ध्येयञ्चैव यति ण्यति कार्यञ्च कृत्यकाः
कर्तरि क्तादयो ज्ञेया भावे कर्मणि च क्वचित् ।अप्_358.005अब्।
गतो ग्रामं गतो ग्राम आश्लिष्टश् च गुरुस्त्वया
शतृङ् शानचौ भवन् एधमानो भवन्त्यपि ।अप्_358.006अब्।
वुण् तृचौ सर्वधातुभ्यो भावको भविता पथा
क्विबन्तश् च स्वयम्भूश् च भूते लिटः क्वन्सु कान च ।अप्_358.007अब्।
बभूविवान् पेचिवांश् च पेचानः श्रद्दधानकः
अणि स्युः कुम्भकाराद्या भूतेप्युणादयः स्मृताः ।अप्_358.008अब्।
वायुः पायुश् च कारुः स्याद्वहुलं छन्दसीरितं
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0