अग्नि पुराण · अध्याय 355
:ए इत्य् आग्नेये महापुराणे व्याकरणे समासो नाम
चतुःपञ्चाशदधिकत्रिशततमो ऽध्यायः
% छप्तेर् {355}
:श् अथ पञ्चपञ्चाशदधिकत्रिशततमो ऽध्यायः
तद्धितं
स्कन्द उवाच
तद्धितं त्रिविधं वक्ष्ये सामान्यवृत्तिरीदृशी ।अप्_355.001अब्।
ले व्यंसलो वत्सलः स्यादिलचि स्यात्तुफेनिलं
लोमशः शे पामनो ने इलचि स्यात्तु पिच्छिलं ।अप्_355.002अब्।
अणि प्राज्ञ आर्चकः स्यात् दन्तादुरचि दन्तुरः
रे स्यान्मधुरं सुशिरं रे स्यात् केशर ईदृशः ।अप्_355.003अब्।
:प् 255
हिरण्यं ये मालवो वे वलचि स्याद्रजस्वलः
इनौ धनी करी हस्ती धनिकं टिकनीरितं ।अप्_355.004अब्।
पयस्वी विनि मायावी ऊर्णायुर्युचि ईरितं
वाग्मो मिनि आलचि स्याद्वाचालश्चाटचीरितं ।अप्_355.005अब्।
फलिनो वर्हिणः केकी वृन्दारकस् तथा कनि
आलुचि शीतन्न सहते शीतालुः श्वालुरीदृशः ।अप्_355.006अब्।
हिमालुरालुचि स्याच्च हिमं न सहते तथा
रूपं वातादुलचि स्याद् वातुलश्चानपत्यके ।अप्_355.007अब्।
वाशिष्ठः कौरवो वासः पाञ्चालः सोस्य वासकः
तत्र वासो माथुरः स्याद्वेत्त्यधीते च चान्द्रकः ।अप्_355.008अब्।
व्युत्क्रमं वेत्ति क्रमकः नरश् चक्राम कौशकः
प्रियङ्गूनां भवं क्षेत्रं प्रैयङ्गवीनकं खञि ।अप्_355.009अब्।
मौद्गीनं कौद्रवीणञ्च वैदेहश्चानपत्यके
इञि दाक्षिर्दाशरथिः कचि नारायणादिकं ।अप्_355.010अब्।
आश्वायनः स्याच्च फञि यचि गार्ग्यश् च वात्सकः
ढ्हकि स्याद्वैनतेयादिश्चाटकेरस्तथैरकि(?) ।अप्_355.011अब्।
ढ्रकि गौधेरको रूपं गौधारश्चारकीरितं
क्षत्रियो घे कुलीनः खे ण्ये कैरव्यादयः स्मृताः(?) ।अप्_355.012अब्।
यति मूर्धन्यमुख्यादिः सुगन्धिरिति रूपकं
तारकादिभ्य इतचि नभस्तारकितादयः ।अप्_355.013अब्।
अनङि स्याच्च कुण्डोध्नी पुष्पधन्वसुधन्वनी
चञ्चुपि वित्तवञ्चुः स्याद्वित्तमस्य च शब्दके ।अप्_355.014अब्।
चणपि स्यात् केशचणः रूपे स्यात् पटरूपकम्
:प् 256
ईयसौ च पटीयान् स्यात् तरप्यक्षतरादिकम् ।अप्_355.015अब्।
पचतितराञ्च तरपि तमप्यटतितमामपि
मृद्वीतमा कल्पपि स्यादिन्द्रकल्पो ऽर्ककल्पकः ।अप्_355.016अब्।
राजदेशीयो देशीये देश्ये देश्यादिरूपकम्
पटुजातीयो जातीये जानुमात्रञ्च मात्रचि ।अप्_355.017अब्।
ऊरुद्वयसो द्वयसचि उरुदघ्नञ्च दघ्नचि
तयटि स्यात् पञ्चतयः दौवारिकष्ठकीरितं ।अप्_355.018अब्।
सामान्यवृत्तिरुक्ताथ अव्ययाख्यश् च तद्धितः
यस्माद्यततसिलि च यत्र तत्र त्रलीरितं ।अप्_355.019अब्।
अस्मिन् काले ह्य् अधुनास्यादिदानीञ्चैव दान्यपि
सर्वस्मिन् सर्वदा दास्यात्तस्मिन्काले र्हिलीरितं ।अप्_355.020अब्।
तर्हि हो ऽमिन् काल इह कर्हि कस्मिंश् च कालके
यथा थालि थमि कथं पूर्वस्यान्दिशि सञ्चयेत् ।अप्_355.021अब्।
अस्ताति चैव पूर्वस्याः पूर्वादिग्रामणीयकाः
पुरस्तात् सञ्चरेद् गच्छेत् सद्यस्तुल्ये ऽहनीरितं ।अप्_355.022अब्।
उति पूर्वाब्दे च परुत् पूर्वतरे परार्यपि
ऐषमो ऽस्मिन् संबत्सरे रूपं समसि चेरितं ।अप्_355.023अब्।
एद्यवौ परेद्यवि स्यात् परस्मिन्नहनीरितं
अद्यास्मिन्नहनि द्ये स्यात् पूर्वेद्युश् च तथैद्युसि ।अप्_355.024अब्।
दक्षिणस्यान्दिशि वसेत् दक्षिणाद्दक्षिणाद्युभौ
उत्तरस्यान्दिशि वसेदुत्तरादुत्तराद्युभौ ।अप्_355.025अब्।
उपरि वसेदुपरिष्टाद् भवेद्रिष्टाति ऊर्ध्वकात्
उत्तरेण् च पित्रोक्तं आचि च स्याच्च दक्षिणा ।अप्_355.026अब्।
:प् 257
आहौ दक्षिणाहि वसेद्द्विप्रकारं द्विधा च धा
ध्यमुञि चैकध्यं कुरु त्वं द्वैधन्धमुञि चेदृशं ।अप्_355.027अब्।
द्वौ प्रकारौ द्विधा धाचि(1) आसुसुरतरं यथा(2)*
निपातास्तद्धिताः प्रोक्ताः तद्धितो भाववाचकः ।अप्_355.028अब्।
पटोर्भावः पटुत्वन्त्वे पदुता तलिचेरितं
प्रथिमा चेमनि पृथोः सौख्यं सुखात् ष्यञीरितम् ।अप्_355.029अब्।
स्तेयं याति च स्तेनस्य ये सख्युः सख्यमीरितं
कपेर्भावश् च कापेयं सैन्यं पथ्यं यकीरितं ।अप्_355.030अब्।
आश्वं कौमारकं चाणि रूपं चाणि च यौवनम् ।अप्_355.030च्द्।
आचार्यकं कणि प्रोक्तमेवमन्येपि तद्धिताः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0