अग्नि पुराण · अध्याय 356
:ए इत्य् आग्नेये महापुराणे व्यकरणे तद्धितसिद्धरूपं नाम
पञ्चपञ्चाशदधिकत्रिशततमो ऽध्यायः
% छप्तेर् {356}
:श् अथ षट्पञ्चाशदधिकत्रिशततमो ऽध्यायः
उणादिसिद्धरूपम्
कुमार उवाच
उणादयो ऽभिधास्यन्ते प्रत्यया धातुतः परे ।अप्_356.001अब्।
उणि कारुश् च शिल्पी स्यात् जायुर्मायुश् च पित्तकं
गोमायुर्वायुर्वेदेषु वहुलं स्युरुणादयः ।अप्_356.002अब्।
:न्
1 पाठो ऽयम् पौनरुक्त्यदोषेण दुष्टः
2 खयं सुष्ठुतरा यथेति ज.. । अमुमुत्तरा यथेति ट..
पाठो ऽयं, एतत्पाठस्थलाभिसिक्तपाठान्तरञ्च न सम्यक्
प्रतिभाति
:प् 258
आयुः स्वादुश् च हेत्वाद्याः किंशारुर्धान्यशूककः
कृकवाकुः कुक्कुटः स्याद् गुरुर्भर्ता मरुस् तथा ।अप्_356.003अब्।
शयुश्चाजगरो ज्ञेयः स हरायुधमुच्यते
स्वरुर्वंज्ञं त्रपुरुसि समसारं फल्गुरीरितं ।अप्_356.004अब्।
गृध्नश् च क्रनि किरचि मन्दिरं तिमिरं तमः
इलचि सलिलं वारि कल्याणं भण्डिलं स्मृतं ।अप्_356.005अब्।
बुधो विद्वान् क्वसौ स्याच्च शिविरं गुप्तसंस्थितिः
ओतुर्विडालश् च तुनि अभिधानादुगादयः ।अप्_356.006अब्।
कर्णः कामी च गृहभूर्वास्तुर्जैवातृकः स्मृतः
अनड्वान् वहतेर्विनि स्याज्जातौ जीवार्णवौषधं ।अप्_356.007अब्।
नौ वह्निरिननि हरिणः मृगः कामी च भाजनम्(1)
कम्बोजो भाजनम्भाण्डं सरण्डश् च चतुष्पदः ।अप्_356.008अब्।
तरुरेरण्डः सङ्घातो वरूडः साम निर्भरं
स्फारं प्रभूतं स्यान्नान्तप्रत्यये चीरवल्कलं ।अप्_356.009अब्।
कातरो भीरुरुग्रस्तु प्रचण्डो जवसं तृणं
जगच्चैव तु भूर्लोको कृशानुर्ज्योतिरर्ककः ।अप्_356.010अब्।
वर्वरः कुटिलो धूर्तश् चत्वरञ्च चतुष्पथं
चीवरं भिक्षुप्रावृत्तिरादित्यो मित्र ईरितः ।अप्_356.011अब्।
पुत्र सूनुः पिता तातः पृदाकुर्व्याघ्रवृश्चिके ।अप्_356.011च्द्।
गर्तो ऽवटो ऽथ भरतो नटो ऽपरेप्युणादयः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0