अग्नि पुराण · अध्याय 354
:ए इत्य् आग्नेये महापुराणे व्याकरणे कारकं नाम
त्रिपञ्चाशदधिकत्रिशततमो ऽध्यायः
% छप्तेर् {354}
:श् अथ चतुःपञ्चशदधिकत्रिशततमो ऽध्यायः
समासः
स्कन्द उवाच
षोढा समासं वक्ष्यामि अष्टाविंशतिधा पुनः ।अप्_354.001अब्।
नित्यानित्यविभागेन लुग्लोपेन च द्विधा
कुम्भकारश् च नित्यः स्याद्धेमकारादिकस् तथा ।अप्_354.002अब्।
राज्ञः पुमान् राजपुमान् नित्यो ऽयञ्च समासकः
:न्
1 अर्थस्येति ज..
:प् 253
कष्टश्रितो लुक्समासः कण्ठेकालादिकस्त्वलुक् ।अप्_354.003अब्।
स्यादष्टधा तत्पुरुषः प्रथमाद्यसुपा सह
प्रथमातत्पुरुषो ऽयं पूर्वं कायस्य विग्रहे ।अप्_354.004अब्।
पूर्वकायो ऽपरकायो ह्य् अधरोत्तरकायकः
अर्धं कणाया अर्धकणा भिक्षातूर्यमथेदृशम् ।अप्_354.005अब्।
आपन्नजीविकस्तद्वत् द्वितीया चाधराश्रितः
वर्षम्भोग्यो वर्षभोग्यो धान्यार्थश् च तृतीयया ।अप्_354.006अब्।
चतुर्थी स्याद्विष्णुबलिर्वृकभीतिश् च पञ्चमी
राज्ञः पुमान् राजपुमान् षष्ठी वृक्षफलं तथा ।अप्_354.007अब्।
सप्तमी चाक्षशौण्डो ऽयमहितो नञ्समासकः
कर्मधारयः सप्तधा नीलोत्पलमुखाः स्मृताः ।अप्_354.008अब्।
विशेषणपूर्वपदो विशेष्योत्तरतस् तथा
वैयाकरणखमूचिः शीतोष्णं द्विपदं शुभम् ।अप्_354.009अब्।
उपमानपूर्वपदः शङ्खपाण्डर इत्य् अपि
उपमानोत्तरपदः पुरुशव्याघ्र इत्य् अपि ।अप्_354.010अब्।
सम्भावनापूर्वपदो गुणवृद्धिरितीदृशम्
गुण इति वृद्धिर्वाच्या सुहृदेव सुवन्धुकः ।अप्_354.011अब्।
अवधारणपूर्वपदो बहुब्रीहिश् च सप्तधा
द्विपदश् च बहुव्रीहिरारूढ्भवनो नरः ।अप्_354.012अब्।
अर्चिताशेषपूर्वोयं बह्वङ्घ्रिः परिकीर्तितः
एते विप्राश्चोपदशाः सङ्ख्योत्तरपदस्त्वयम् ।अप्_354.013अब्।
सङ्ख्योभयपदो यद्वद्द्वित्रा द्व्येकत्रयो नरः
सहपूर्वपदो ऽयं स्यात् समूलोद्धृतकस्तरुः ।अप्_354.014अब्।
:प् 254
व्यतिहारलक्षणार्थः केशाकेशि नखानखि
दिग्लक्ष्या स्याद्दक्षिणपूर्वा द्विगुराभाषितो द्विधा ।अप्_354.015अब्।
एकवद्भावि द्विशृङ्गं पञ्चमूली त्वेकधा
द्वन्द्वः समासो द्विविधो हीतरेतरयोगकः ।अप्_354.016अब्।
रुद्रविष्णू समाहारो भेरीपटहमीदृशम्
द्विधाख्यातो ऽव्ययीभावो नामपूर्वपदो यथा ।अप्_354.017अब्।
शाकस्य मात्रा शाकप्रति यथाव्ययपूर्वकः
उपकुम्भञ्चोपरथ्यं प्राधान्येन चतुर्विधः ।अप्_354.018अब्।
उत्तरपदार्थमुख्यो द्वन्द्वश्चोभयमुख्यकः ।अप्_354.018च्द्।
पूर्वार्थेशो ऽव्ययीभावो बहुव्रीहिश् च वाह्यगः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0