अग्नि पुराण · अध्याय 353
:ए इत्य् आग्नेये महापुराणे व्याकरणे नपुंसकशब्दसिद्धरूपं
नाम द्विपञ्चाशदधिकत्रिशततमो ऽध्यायः
:प् 250
% छप्तेर् {353}
:श् अथ त्रिपञ्चाशदधिकत्रिशततमो ऽध्यायः
कारकं
सुकन्द उवाच
कारकं सम्प्रवक्ष्यामि विभक्त्यर्थसमन्वितं ।अप्_353.001अब्।
ग्रामो ऽस्ति हेमहार्केह नौमि विष्णुं श्रिया सह
स्वतन्त्रः कर्ता विद्यान्तं कृतिनः समुपासते ।अप्_353.002अब्।
हेतुकर्तालम्भयते हितं वै कर्मकर्तरि
स्वयं भिद्येत् प्राकृतधीः स्वयञ्च छिद्यते तरुः ।अप्_353.003अब्।
कर्ताभिहित उत्तमः कर्तानभिहितो ऽधमः
कर्तानभिहितो धर्मः शिष्ये व्याख्यायते यथा ।अप्_353.004अब्।
कर्ता पञ्चविधः प्रोक्तः कर्म सप्तविधं शृणु
ईप्सितं कर्म च यथा श्रद्दधाति हरिं यतिः ।अप्_353.005अब्।
अनीप्सितं कर्म यथा अहिं लङ्घयते भृशं
नैवेप्सितं नानीप्सितं दुग्धं सम्भक्ष्यन्रजः ।अप्_353.006अब्।
भक्ष्येद्प्यकथितं गोपालो दोग्धि गां पयः
कर्तृकर्माथ गमयेच्छिष्यं ग्रामं गुरुर्यथा ।अप्_353.007अब्।
कर्म चाभिहितं पूजा क्रियते वै श्रिये हरेः
कर्मानभिहितं स्तोत्रं हरेः कुर्यात् सर्वदं ।अप्_353.008अब्।
करणं द्विविधं प्रोक्तं वाह्यमभ्यन्तरं तथा
चक्षुषा रूपं गृह्णीति वाह्यं दात्रेण तल्लुनेत् ।अप्_353.009अब्।
सम्प्रदानं त्रिधा प्रोक्तं प्रेरकं ब्राह्मणाय गां
:प् 251
नरो ददापि नृपतये दासन्तदनुमन्तृकं ।अप्_353.010अब्।
अनिराकर्तृकं भर्त्रे दद्यात् पुष्पाणि सज्जनः
अपदानं द्विधा प्रोक्तं चलमश्वात्तु धावतः ।अप्_353.011अब्।
पतितश्चाचलं ग्रामादागच्छति स वैष्णवः
चतुर्धा चाधिकरणं व्यापकन्दध्नि घृतम् ।अप्_353.012अब्।
तिलेषु तैलं देवार्थमौपश्लेषिकमुच्यते
गृहे तिष्ठेत् कपिर्वृक्षे स्मृतं वैषयिकं यथा ।अप्_353.013अब्।
जले मत्स्यो वने सिंहः स्मृतं सामीप्यकं यथा
गङ्गायां घो षो वसति औपचारिकमीदृशं ।अप्_353.014अब्।
तृतीया वाथ वा षष्ठी स्मृतानभिहिते तथा
विष्णुः सम्पूज्यते लोकैर् गन्तव्यन्तेन तस्य वा ।अप्_353.015अब्।
प्रथमाभिहितकर्तृकर्मणोः प्रणमेद्धरिम्
हेतौ तृतीया चान्नेन वसेद्वृक्षाय वै जलं ।अप्_353.016अब्।
चतुर्थी तादर्थ्ये ऽभिहिता पञ्चमी पर्युपाङ्मुखैः
योगे वृष्टः परि ग्रामाद्देवो ऽयं बलवत् पुरा ।अप्_353.017अब्।
पूर्वो ग्रामादृते विष्णोर्न मुक्तिरितरो हरेः
पृथग्विनाद्यैस्तृतीया पञ्चमी च तथा भवेत् ।अप्_353.018अब्।
पृथग्ग्रामाद्विहारेण विना श्रीश् च श्रिया श्रियः
कर्मप्रवचनीयाख्यैर् द्वितीया योगतो भवेत् ।अप्_353.019अब्।
अन्वर्जुनञ्च योद्धारो ह्य् अभितो ग्राममीरितं
नमःस्वाहास्वधास्वस्तिवषडाद्यैश् चतुर्थ्यपि ।अप्_353.020अब्।
नमो देवाय ते स्वस्ति तुमर्थाद्भावाचिनः
पाकाय पक्तये याति तृतीया सहयोगके ।अप्_353.021अब्।
:प् 252
हेत्वर्थे कुत्सिते ऽङ्गे सा तृतीया च विशेषणे
पितागात्सह पुत्रेण काणो ऽक्ष्णा गदया हरिः ।अप्_353.022अब्।
अर्थेन निवसेद्भृत्यः काले भावे च सप्तमौ
विष्णौ नते भवेन्मुक्तिर्वसन्ते स गतो हरिम् ।अप्_353.023अब्।
नृणां स्वामी नृषु स्वामी नृणामीशःसताम्पतिः
नृणां साक्षी नृषु साक्षी गोषु नाथो गवाम्पतिः ।अप्_353.024अब्।
गोषु सूतो गवां सूतो राज्ञां दायादको ऽस्त्विह
अन्नस्य(1) हेतोर्वसति षष्ठी स्मृत्यर्थकर्मणि ।अप्_353.025अब्।
मातुः स्मरति गोप्तारं नित्यं स्यात् कर्तृकर्मणोः ।अप्_353.025च्द्।
अपां भेत्ता तव कृतिर्न निष्ठादिषु षष्ठ्यपि
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0