अग्नि पुराण · अध्याय 352
:ए इत्य् आग्नेये महापुराणे व्याकरणे स्त्रीलिङ्गशब्दसिद्धरूपं
नामैकपञ्चाशदधिकत्रिशततमो ऽध्यायः ॥
:प् 249
% छप्तेर् {352}
:श् अथ द्विपञ्चाशदधिकत्रिशततमो . अध्यायः
नपुंसकशब्दसिद्धरूपं
स्कन्द उवाच
नपुंसके किं के कानि किं के कानि ततो जलं ।अप्_352.001अब्।
सर्वं सर्वे च पूर्वाद्याः सोमपं सोमपानि च
ग्रामणि ग्रामणिनी च ग्रामणि ग्रामणीन्यपि ।अप्_352.002अब्।
वारि वारिणी वारीणि वारिणां वारिणीदृशं
शुचये शुचिने देहि मृदुने मृदवे तथा ।अप्_352.003अब्।
त्रपु त्रपुणि त्रपुणाञ्च खलपूनि खलप्वि च
कर्त्रा च कर्तृणे कर्त्रे अतिर्यतिरिणान्तथा ।अप्_352.004अब्।
अभिन्यभिनिनी चैवे सुवचांसि सुवचांसि सुवाक्षु च
यद्यत्त्विमे तत् कर्माणि इदञ्चेमे त्विमानि च ।अप्_352.005अब्।
ईदृक्त्वदो ऽमुनी अमूनि अमुना स्यादमीषु च
अहमावां वयं मां वै आबामस्मान्मया कृतं ।अप्_352.006अब्।
आवाभ्याञ्च तथास्माभिर्मह्यमस्मभ्यमेव च
मदावाभ्यां मदस्मच्च पुत्रो ऽयं मम चावयोः ।अप्_352.007अब्।
अस्माकमपि चास्मासु त्वं युवां यूयमीजिरे
त्वां युवाञ्च युष्मांश् च त्वया युष्माभिरीरितं ।अप्_352.008अब्।
तुभ्यं युवाभ्यां युम्मभ्यं त्वत् युवाभ्याञ्च युष्मत्
तव युवयोर्युष्माकं त्वयि युष्मासु भारती ।अप्_352.009अब्।
उपलक्षणमत्रैव अज्झलन्ताश् च ते स्मृताः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0