अग्नि पुराण · अध्याय 350
:ए इत्य् आग्नेये महापुराणे व्याकरणे सन्धिसिद्धरूपं
नामोनपञ्चाशदधिकत्रिशततमो ऽध्यायः
% छप्तेर् {350}
:श् अथ पञ्चाशदधिकत्रिशततमो ऽध्यायः
सुब्विभक्तसिद्धरूपं
स्कन्द+उवाच
विभक्तिसिद्धरूपञ्च कात्यायन वदामि ते ।अप्_350.001अब्।
द्वे विभक्ती सुप्तिङश् चय सुपः सप्त विभक्तयः
सु+औजसिति प्रथमा अमौट्शसो द्वितीया ।अप्_350.002अब्।
टाभ्यां भिसिति तृतीया ङेभ्यांभ्यसश् चतुर्थ्यपि
ङसिभ्यांभ्यसः पञ्चमी स्यात्ङसोमिति षष्ठ्यपि ।अप्_350.003अब्।
ङि+ओस्सुविति सप्तमी स्यात् स्युः प्रातिपदिकात्पराः
द्विविधं प्रातिपदिकं ह्य् अजन्तञ्च हलन्तकं ।अप्_350.004अब्।
:प् 241
प्रत्येकं त्रिविधं तत् स्यात् पुमांस्त्री च नपुंसकं
दर्श्यन्ते नायकास्तेषामनुक्तानाञ्च वीर्यतः ।अप्_350.005अब्।
वृक्षः सर्वो ऽथ पूर्वश् च प्रथमश् च द्वितीयकः
तृतीयः खण्डपा वह्निः सखापतिरहर्पतिः ।अप्_350.006अब्।
पटुर्नीर्ग्रामनीन्द्रश् च खलपूर्मित्रभूः स्वभूः
औश्रीः सुधीः पिता भ्राता ना कर्त क्रोष्टुनप्तृनप्तृकौ ।अप्_350.007अब्।
सुरा रा गौस् तथा द्यौर्ग्लौः स्वरान्ताः पुंसि नायकाः
सुवाक् त्वक् पृषत् सम्राट् जन्मभाक् च अवेडपि ।अप्_350.008अब्।
आपो मरुद्भवन् दीव्यन् भवांश् च मघवान् पिवन्
भगवानधवानर्वान्वह्निमत् सर्वित्सुपृत् ।अप्_350.009अब्।
सुसीमा कुण्डी राजा च श्वा युवा मघवा तथा
पूषा सुकर्मा यज्वा च सुवर्मा च सुधर्मणा ।अप्_350.010अब्।
अर्यमा वृत्रहा पन्थाः सुककुदादिपञ्च च
प्रशान् सुतांश् च पञ्चाद्याः सुगीः सुराः सुपूरपि ।अप्_350.011अब्।
चन्द्रमाः सुवचाः श्रेयान् विद्वांश्चेशनसा सह
पेचिवान् गौरवानड्वान् गोधूङ्मित्रद्रुहौ श्वलिट् ।अप्_350.012अब्।
स्त्रियां जाया जरा बाला एड्का सह वृद्धया
क्षत्रिया बहुराजा च बहुदा माथ बालिका ।अप्_350.013अब्।
माया कौमुदगन्धा च सर्वा पूर्वा सहान्यया
द्वितीया च तृतीया च बुद्धिः स्त्री श्रीर् नदी सुधैः ।अप्_350.014अब्।
भवन्ती चैव दीव्यन्ती भाती भान्ती च यान्यपि
शृण्वतौ तुदती कर्त्री तुदन्ती कुर्वती मही ।अप्_350.015अब्।
रुन्धती क्रीड्ती दन्ती पालयन्ती सुराण्यपि
:प् 242
गरुरी पुत्रवती नीश् च वधूर्देवतया भुवा ।अप्_350.016अब्।
तिस्रो द्वे कति वर्षाभूः स्वसा माता वरा गौः
नौर्वाक्त्वक्प्राच्यवाक्षीति तिरश्ची समुदीच्यपि ।अप्_350.017अब्।
शरद्विद्युत् सरिद्योषित् अग्निवित् सस्पदा दृशत्
यैषा सा वेदवित्संवित् बह्वी राज्ञी त्वया मया ।अप्_350.018अब्।
सोमा पञ्चादयो राजी धूः पूश् चैव दिशा(1) गिरा
चतस्रो विदुषी चैव केयं दिक् दृक्च तादृशी ।अप्_350.019अब्।
असौ स्त्रियां नायकाश् च नायकाश् च नपुंसके
कुण्डं सर्वं सोमपञ्च दधि वारि खलप्वथ ।अप्_350.020अब्।
मधु त्रपु कर्तृ भक्तृ अतिवक्तृ पयः पुरः
प्राक्प्रत्यक् च तिर्यगुदक् जगद् जाग्रत्तथा सकृत् ।अप्_350.021अब्।
सुसम्पच्च सुदण्डीह अहः किञ्चेदमित्यपि
षट्सर्पिः श्रेयश् चत्वारि अदो ऽन्ये हीदृशाः परे ।अप्_350.022अब्।
एतेभ्यः प्रथमादयश् च स्युः प्रातिपदिकात्पराः
धातुप्रत्ययहीनं यत्स्यात् प्रातिपदिकन्तु तत् ।अप्_350.023अब्।
प्रातिपदिकात् स्वलिङ्गार्थवचने प्रथमा भवेत्
सम्बोधने च प्रथमा उक्ते कर्मणि कर्तरि ।अप्_350.024अब्।
कर्म यत् क्रियते तत्स्यात् द्वितीया कर्मणि स्मृता
क्रियते येन करणं कर्ता यश् च करोति सः ।अप्_350.025अब्।
अनुक्ते तिङ्कृत्तद्धितैस्तृतीया करणे भवेत्
कारके कर्तरि च सा सम्प्रदाने चतुर्थ्यपि ।अप्_350.026अब्।
यस्मै दित्सा धारयते सम्प्रदानं तदोरितं
:न्
1 दिवेति ज..
:प् 243
अपादानं यतो ऽपैति आदत्ते च भयं यतः ।अप्_350.027अब्।
अपादाने पञ्चमी स्यात् स्वस्वाम्यादौ च षष्ठ्यपि
आधारो यो ऽधिकरणं विभक्तिस्तत्र सप्तमी ।अप्_350.028अब्।
एकार्थे चैकवनचं द्व्यर्थे द्विवचनं भवेत्
बहुषु बहुवचनं सिद्धरूपाण्यथो वदे ।अप्_350.029अब्।
वृक्षः सूर्यो ऽम्बुवाहो ऽर्क हेरवे हेद्विजातयः
विप्रौ गजान्महेन्द्रेण यमाभ्यामनलैः कृतं ।अप्_350.030अब्।
रामाय मुनिवर्याभ्यां केभ्यो धर्मात् हरौ रतिः
शराभ्यां पुस्तकेभ्यश् च अर्थस्येश्वरयोर्गतिः ।अप्_350.031अब्।
बालानां सज्जने प्रीतिर्हंसयोः कमलेषु च
एवं काममहेशाद्याः शब्दा ज्ञेयाञ्च वृक्षवत् ।अप्_350.032अब्।
सर्वे विश्वे च सर्वस्मै सर्वस्मात्कतरो मतः
सर्वेषां स्वञ्च विश्वस्मिन् शेषं रूपञ्च वृक्षवत् ।अप्_350.033अब्।
एवञ्चोभयकतरकतमान्यतरादयः
पूर्वे पूर्वाश् च पूर्वस्मै पूर्वस्मात् सुसमागतः ।अप्_350.034अब्।
पूर्वे बुद्धिश् च पूर्वस्मिन् शेषरूपन्तु सर्ववत्
एवं परावराद्याश् च दक्षिणोत्तरकान्तराः ।अप्_350.035अब्।
अपरश्चाधरो नेमाः प्रथमाः प्रथमे ऽर्कवत्
एवं चरमायतया अल्पार्धा नेम+आदयः ।अप्_350.036अब्।
द्वितीयस्मै द्वितीयाय द्वितीयस्मात् द्वितीयकात्
द्वितीयस्मिन् द्वितीये च तृतीयश् च तथार्कवत् ।अप्_350.037अब्।
सोमपाः सोमपौ ज्ञेयौ सोमपाः सोमपां व्रज
कीलालपौ सोमपश् च सोमपा सोमपे दद ।अप्_350.038अब्।
:प् 244
सोमपाभ्यां सोमपाभ्यः सोमपः सोमपोः कुलं
एवं कीलालपाद्याः स्युः कविरग्निस् तथारयः ।अप्_350.039अब्।
हेकवे कविमग्नी तान् हरीन् सात्यकिना हृतं
रविभ्यां रविभिर्देहि वह्णये यः समागतः ।अप्_350.040अब्।
अग्नेरग्न्योस् तथाग्नीनां कवौ कव्योः कविष्व् अथ
एवं सुसृतिरभ्रान्तिः सुकीर्तिः सुधृतिस् तथा ।अप्_350.041अब्।
सखा सखायौ सखायः हेसखे व्रज सत्पतिं
सखायञ्च सखायौ च सखीन् सख्या गतो दद ।अप्_350.042अब्।
सख्ये सख्युश् च सख्युश् च सख्योः शेषः कवेरिव
पत्या पत्ये च पत्युश् च पत्युः पत्योस् तथाग्निवत् ।अप्_350.043अब्।
द्वौ द्वौ द्वाभ्यां द्वाभ्यां द्वित्वाद्यर्थे द्वयोर्द्वयोः
त्रयस्त्रींश् च त्रिभिस्त्रिभ्यस्त्रयाणाञ्च त्रिषु क्रमात् ।अप्_350.044अब्।
कविवत् कतिकतीतिशेषं वहुवचनं स्मृतम्
नीर्नियौ च नियो हेनीः नियं नियो नियो निया ।अप्_350.045अब्।
नीभ्यां नीभिर्निये नीभ्यः नियान्नियि नियोस् तथा
सुश्रीः सुधीः प्रभृतयो ग्रामणीः पूजयेद्धरिं ।अप्_350.046अब्।
ग्रामण्यौ ग्रामण्यो ग्रामण्यं ग्रामण्या ग्रामणीभिः
ग्रामण्यो ग्रामण्यामेवं सेनानीप्रमुखाः सुभूः ।अप्_350.047अब्।
सुभुवौ च स्वयम्भुवः स्वयम्भुञ्च स्वयम्भुवः
स्वयम्भुवा स्वयम्भुवि एवं प्रतितेभुवादयः ।अप्_350.048अब्।
खलपूः खलप्वौ श्रेष्ठौ खलप्वञ्च खलप्वि च
एवं शरपूमुखाः स्युः क्रोष्टा क्रोष्टार ईरिताः ।अप्_350.049अब्।
क्रोष्टूंश् च क्रोष्टुना क्रोष्ट्रा क्रोष्टूनांक्रोष्टरीद्दृशं
:प् 245
पिता पितरौ पितरः हेपितः पितरौ शुभौ ।अप्_350.050अब्।
पितॄन् पितुः पितुः पित्रोः पितॄणां पितरीदृशं
एवं भ्राता च जामातृमुखा नॄणां नृणां तथा ।अप्_350.051अब्।
कर्ता कर्तारौ कर्तॄंश् च कर्तॄणां कर्तरीदृशं
पितृवच्चैवमुद्गाता स्वसा नप्त्रादयः स्मृताः ।अप्_350.052अब्।
सुराः सुरायौ सुरायः सुरायाञ्च सुराय्यपि
गौः गावौ गाङ्गा गवा च गोर्गवोश् च गवां गवि ।अप्_350.053अब्।
एवं द्यौर्लौश्चापि तथा स्वरान्ताः पुंसि नायकाः
सुवाक् सुवाचौ सुवाचा सुवाग्भ्याञ्च सुवाक्ष्वपि ।अप्_350.054अब्।
एवं दिक्प्रमुखाः प्राङ्च प्राञ्चौ प्राञ्चञ्च भो व्रज
प्राग्भ्यां प्राग्भिः प्राचाञ्च प्राचि च प्राङ्सु प्राङ्क्ष्वपि ।अप्_350.055अब्।
एवं ह्य् उदङुदीची वा सम्यङ् प्रत्यक्समीच्यपि
तिर्यङ्तिरश् च सध्र्यङ् च विश्वद्र्यङ् पूर्ववत् स्मृताः ।अप्_350.056अब्।
अदद्र्यङदमुयङ् स्यात् तथामुमुयङीरितः
अदद्र्यञ्चो ह्य् अमुद्रीचः अदद्र्यग्भ्याञ्च पूर्ववत् ।अप्_350.057अब्।
तत्त्वतृट् तत्त्वतृषौ च तत्त्वतृङ्भ्यां समागतः
तत्त्वतृषि तत्त्वतृट्सु एवं काष्ठतडादयः ।अप्_350.058अब्।
भिषक् भिषग्भ्यां भिषजि जन्मभागादयस् तथा
मरुत् मरुद्भ्यां मरुति एवं शुत्रुजिदादयः ।अप्_350.059अब्।
भवान् भवन्तौ भवतां भवंश् चैव भवत्यपि
महान्महान्तौ महतामेवं भगवदादयः ।अप्_350.060अब्।
एवं मघवान्मघवन्तौ अग्निचिच्चाग्निचित्यपि
अग्निचित्स्वेवमेवान्यत् वेदवित्तत्त्ववित्त्वपि ।अप्_350.061अब्।
:प् 246
वेदविदामेवमन्यत् यः समस्तेन सर्ववित्
राजा राजानौ राज्ञः रज्ञि राजनि राजन् ।अप्_350.062अब्।
यज्वा यज्वानस्तद्वत् करी दण्डी च दन्डिना
पन्थाः पन्थानौ च पथः पथिभ्यां पथि चेदृशम् ।अप्_350.063अब्।
मन्था ऋभुक्षाः पथ्याद्याः पञ्च पञ्च च पञ्चभिः
प्रतान् प्रतानौ प्रतान्भ्यां हेप्रतांश् च सुशर्मणः ।अप्_350.064अब्।
आपः अपः अद्भिरप्येवं प्रशांश् चैव प्रशाम्यपि
कः केन सर्ववत् केषु अयं चेमे इमान्नयः ।अप्_350.065अब्।
अनेन चाभ्यामेभिश् च अस्मै चेभ्यः स्वमस्य च
अनयोरेषामेषु स्याच्चत्वारश् चतुर्स् तथा ।अप्_350.066अब्।
चतुर्णाञ्च चतुर्ष्व् अस्ति सुगीः श्रेष्ठः सुगिर्यपि
सुद्यौः सुदिवौ सुद्युभ्यां दिड्विषौ विट्सु यादृशः ।अप्_350.067अब्।
यादृग्भ्याञ्चैव विड्भ्याञ्च षट् षट् षणाञ्चषट्स्वपि
सुवचाः सुवचसा च सुवचोभ्यामथेदृशम् ।अप्_350.068अब्।
हे सुवचो हे उशनन् उशना वोशनस्यपि
पुरदंशा अनेहा हेविद्वन् विद्वांस उत्तमाः ।अप्_350.069अब्।
विदुषे नमो विद्वद्भ्यां विद्वत्सु च वभूविवान्
एवञ्च पेचिवान् श्रेयान् श्रेयांसौ श्रेयसस् तथा ।अप्_350.070अब्।
असौ अमू अमी श्रेष्ठा अमुं अमूनिहामुना
अमीभिरमुस्मै वामुस्मादमुस्य वामुयोस् तथा ।अप्_350.071अब्।
अमीषाममुस्मिन्नित्येवं गोधुक् गोधुग्भिरागतः
गोधुक्ष्वित्येवमन्येपि मित्रद्रुहो मित्रदुहा ।अप्_350.072अब्।
मित्रध्रुग्भ्यां मित्रध्रुग्भरेवं चित्तद्रुहादयः
:प् 247
स्वलिट् स्वलिड्भ्यां स्वलिहि अनड्वाननडुत्सु च ।अप्_350.073अब्।
अजन्ताश् च हलन्ताश् च पुंस्यथो ऽथ स्त्रियां वदे
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0