भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 349

349.001

अण् एङ् अट् यङ् छव् झम् भष् अक् इक् अण् इण् यण् परेण
णकारेण । अम् यम् ङम् अच् इच् ऐच् अय् मय् झय् खय् जव् झव् खव् चव् शव् अस्
हस् वस् भस् अल् हल् बल् रल् झल् सल् इति प्रत्याहारः
:ए इत्य् आग्नेये महापुराणे व्याकरणे प्रत्याहारो
नामाष्टचत्वारिंशदधिकत्रिशततमो ऽध्यायः
:प् 239
% छप्तेर् {349}
:श् अथोनपञ्चाशदधिकत्रिशततमो ऽध्यायः
सन्धिसिद्धरूपं
स्कन्द+उवाच
वक्ष्ये सन्धिसिद्धरूपं स्वरसन्धिमथादितः ।अप्_349.001अब्।
दण्डाग्रमं सागता दधीदं नदीहते मधूदकं

349.002

पितृषभः ॡकारश् च तवेदं सकलोदकं ।अप्_349.002अब्।
अर्धर्चो ऽयं तवल्कारः सैषा सैन्द्री तवौदनम्

349.003

खट्टौघो ऽभवदित्येवं व्यसुधीर्वस्वलङ्कृतं ।अप्_349.003अब्।
पित्रर्थोपवनं दात्री नायको लावको नयः

349.004

त+इह तयिहेत्यादि ते ऽत्र यो ऽत्र जले ऽकजं ।अप्_349.004अब्।
प्रकृतिर्नो अहो एहि अ अवेहि इ इन्द्रकं

349.005

उ उत्तिष्ठ कवी एतौ वायु एतौ वने इमे ।अप्_349.005अब्।
अमी एते यज्ञभूते एहि देव इमन्नय

349.006

वक्ष्ये सन्धिं व्यञ्जनाणां वाग्यतो ऽजेकमातृकः ।अप्_349.006अब्।
षडेते तदिमे वादिवाङ्नीतिः षण्मुखादिकम्

349.007

वाङ्मनसं वग्भावादिर्वाक् श्लक्ष्णं तच्छरीरकं ।अप्_349.007अब्।
तल्लु नाति तच्चरेच्च क्रुङ्ङास्ते च सुगणिह

349.008

भवांश् चरन् भवांश्छात्रो भवांष्टीकाभवांष्ठकः ।अप्_349.008अब्।
भवांस्तीर्थं भवांस्थेयात् भवांल्लेखा भवाञ्जयः

349.009

भवाञ्छेते भवाञ्चशेते भवाञ्शेते भवाण्डीनः ।अप्_349.009अब्।
स्वम्भर्ता त्वङ्करोष्यादिः सन्धिर्ज्ञेयो विसर्गजः

349.010

:प् 240
कश्छिन्द्यात् कश् चरेत् कष्टः कष्ठः कस्थश् च कश् चलेत् ।अप्_349.010अब्।
क .. खनेत् क .. करोति स्म क ,, पठेत् क ,, वा

349.011

कश्श्वशुरः कःश्वशुरः कस्सावरः कःसावरः ।अप्_349.011अब्।
कः फलेत कः शयिता को ऽत्र योधः क उत्तमः

349.012

देवा एते भो इह सोदरा यान्ति भगो व्रज ।अप्_349.012अब्।
सुपूः सुदूरात्रिरत्र वायुर्याति पुनर्न हि

349.013

पुनरेति स यातीह एष याति क ईश्वरः ।अप्_349.013अब्।
ज्योतीरूपं तवच्छत्रं म्लेच्छधीश्छिद्रमच्छिदत्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc