भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 351

351.001

:ए इत्य् आग्नेये महापुराणे व्यकरणे पुंलिङ्गशब्दसिद्धरूपं
नाम पञ्चाशदधिकत्रिशततमो ऽध्यायः
% छप्तेर् {351}
:श् अथैकपञ्चाशदधिकत्रिशततमो . अध्यायः
स्त्रीलिङ्गशब्दसिद्धरूपम्
स्कन्द उवाच
रमा रमे रमाः शुभा रमां रमे रसास् तथा ।अप्_351.001अब्।
रमया च रमाभ्याञ्च रमाभिः कृतमव्ययं

351.002

रमायै च रमाभ्याश् च रमाया रमयोः शुभं ।अप्_351.002अब्।
रमाणाञ्च रमायाञ्च रमास्वेवं कलाद्यः

351.003

जरा जरसौ जर इति जरसश् च जरा जरां ।अप्_351.003अब्।
जरसञ्च जरास्वेवं सर्वा सर्वे च सर्वया

351.004

सर्वस्यै देहि सर्वस्याः सर्वस्याः सर्वस्योस् तथा ।अप्_351.004अब्।
शेषं रमावद्रूपं स्याद् द्वे द्वे तिस्रश् च तिसृणां

351.005

बुद्धीर्बुद्ध्या बुद्धये च बुद्ध्यै बुद्धेश् च हेमते ।अप्_351.005अब्।
कविवत्स्यान्मुनीनाञ्च नदी नद्यौ नदीं नदीः

351.006

नद्या नदीभिर्नद्यै च नद्याञ्चैव नदीषु च ।अप्_351.006अब्।
कुमारी जृम्भणीत्येवं श्रीः श्रियौ च श्रियः श्रिया

351.007

:प् 248
श्रियै श्रिये स्त्रीं स्त्रियञ्च स्त्रीश् च स्त्रियः स्त्रिया स्त्रियै ।अप्_351.007अब्।
स्त्रियाः स्त्रीणां स्त्रियाञ्च ग्रामण्यां धेन्वै च धेनवे

351.008

जम्बूर्जम्ब्वौ च जम्बूश् च जम्बूनाञ्च फलम्पिव ।अप्_351.008अब्।
वर्षाभ्वौ च पुनर्भ्वौ च मातॄर्वापि च गौश् च नौः

351.009

वाग्वाचा वाग्भिश् च वाक्षु श्रग्भ्यां स्रजि स्त्रजोस् तथा ।अप्_351.009अब्।
विद्वद्भ्याञ्चैव विद्वत्सु भवती स्याद् भवन्त्यपि

351.010

दीव्यन्ती भाती भान्ती च तुदन्ती च तुदत्यपि ।अप्_351.010अब्।
रुदती रुन्धती देवी गृह्नती चोर्यन्त्यपि

351.011

दृषत् दृषद्भ्यां दृषदि विशेसविदुषी कृतिः ।अप्_351.011अब्।
समित् समिद्भ्यां समिधि सीमा सीम्नि च सीमनि

351.012

दामनीभ्यां ककुद्भ्याञ्च केयमाभ्यां तथासु च ।अप्_351.012अब्।
गीर्भ्याञ्चैव गिरा गीर्षु सुभूः सुपूः पुरा पुरि

351.013

द्यौर्द्युभ्यां दिवि द्युषु तादृश्या तादृशो दिशः ।अप्_351.013अब्।
यादृश्यां यादृशी तद्वत् सुवचोभ्यां सुवचःस्वपि ।अप्_351.013च्द्।
असौ चामूममू चामूरमूभिरमुयामुयोः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc