अग्नि पुराण · अध्याय 346
:ए इत्य् आग्नेये महापुराणे काव्यगुणविवेको नाम
पञ्चचत्वारिंशदधिकत्रिशततमो ऽध्यायः
:प् 231
% छप्तेर् {346}
:श् अथ षट्चत्वारिंशदधिकत्रिशततमो ऽध्यायः
काव्यदोषविवेकः
अग्निर् उवाच
उद्वेगजनको दोषः सभ्यानां स च सप्तधा ।अप्_346.001अब्।
वक्तृवाचकवाच्यानामेकद्वित्रिनियोगतः
तत्र वक्ता कविर्नाम प्रथते स च भेदतः ।अप्_346.002अब्।
सन्दिहानो ऽविनीतः सन्नज्ञो ज्ञाता चतुर्विधः
निमित्तपरिभाषाभ्यामर्थसंस्पर्शिवाचकम् ।अप्_346.003अब्।
तद्भेदो पदवाक्ये द्वे कथितं लक्षणं द्वयोः
असाधुत्वाप्रयुक्त्वे द्वावेव पदनिग्रहौ ।अप्_346.004अब्।
शब्दशास्त्रविरुद्धत्वमसाधुत्वं विदुर्बुधाः
व्युत्पन्नैर् अनिबद्वत्वमप्रयुक्तत्वमुच्यते ।अप्_346.005अब्।
छान्दसत्वमविस्पष्टत्वञ्च कष्टत्वमेव च
तदसामयिकत्वञ्च ग्राम्यत्वञ्चेति पञ्चधा ।अप्_346.006अब्।
छान्दसत्वं न भाषायामविस्पष्टमबोधतः
गूडार्थता विपर्यस्तार्थता संशयितार्थता ।अप्_346.007अब्।
अविष्पष्टार्थता भेदास्तत्र गूढार्थतेति सा
यत्रार्थो दुःखसवेद्यो विपर्यस्तार्थता पुनः ।अप्_346.008अब्।
विवक्षितान्यशब्दार्थप्रतिपातिर्मलीमसा(1)
अन्यार्थत्वासमर्थत्वे एतामेवोपसर्पतः ।अप्_346.009अब्।
:न्
1 मनीषयेति ज..
:प् 232
सन्दिह्यमानवाच्यत्वमाहुः संशयितार्थतां
दोषत्वमनुबध्नाति सज्जनोद्वेजनादृते ।अप्_346.010अब्।
असुखोच्चार्यमाणत्वं कष्टत्वं समयाच्युतिः
असामयिकता नेयामेताञ्च मुनयो जगुः ।अप्_346.011अब्।
ग्राम्यता तु जघन्यार्थप्रतिपातिः खलीकृता
वक्तव्यग्राम्यवाच्यस्य वचनात्स्मरणादपि ।अप्_346.012अब्।
तद्वाचकपदेनाभिसाम्याद्भवति सा त्रिधा
दोषः साधारणः प्रातिस्विको ऽर्थस्य स तु द्विधा ।अप्_346.013अब्।
अनेकभागुपालम्भः साधारण इति स्मृतः
क्रियाकारकयोर्भ्रंशो विसन्धिः पुनरुक्ता ।अप्_346.014अब्।
व्यस्तसम्बन्धता चेति पञ्च साधारणा मताः(1)
अक्रियत्वं क्रियाभ्रंशो भ्रष्टकारकता पुनः ।अप्_346.015अब्।
कर्त्र्यादिकारकाभावो विसन्धिःसन्धिदूषणम्
विगतो वा विरुद्धो वा सन्धिः स भवति द्विधा ।अप्_346.016अब्।
सन्धेर्विरुद्धता कष्टपादादर्थान्तरागमात्(2)
पुनरुक्तत्वमाभीक्ष्ण्यादभिधानं द्विधैव तत् ।अप्_346.017अब्।
अर्थावृत्तिः पदावृत्तिरर्थावृत्तिरपि द्विधा
प्रयुक्तवरशब्देन(3) तथा शब्दान्तरेण च ।अप्_346.018अब्।
नावर्तते पदावृत्तौ वाच्यमावर्तते पदम्
व्यस्तसम्बन्धता सुष्ठुसम्बन्धो व्यवधानतः ।अप्_346.019अब्।
सम्बन्धान्तरनिर्भाषात् सम्बन्धान्तरजन्मनः
:न्
1 मला इति क.. , ज.. च
2 कष्टपादादर्थान्तरक्रमादिति ट..
3 प्रयुक्तचरशब्देनेति ज.. , ञ.. च
:प् 233
अभावेपि तयोरन्तर्व्यवधानास्त्रिधैव सा ।अप्_346.020अब्।
अन्तरा पदवाक्याभ्यां प्रतिभेदं पुनर्द्विधा
वाच्यमर्थार्थ्यमानत्वात्तद्द्विधा पदवाक्ययोः ।अप्_346.021अब्।
व्युत्पादितपूर्ववाच्यं व्युत्पाद्यञ्चेति भिद्यते
इष्टव्याघातकारित्वं हेतोः स्यादसमर्थता ।अप्_346.022अब्।
असिद्धत्वं विरुद्धत्वमनैकान्तिकता तथा
एवं सत्प्रतिपक्षत्वं कालातीतत्वसङ्करः ।अप्_346.023अब्।
पक्षे सपक्षेनास्तितत्वं विपक्षे ऽस्तित्वमेव तत्
काव्येषु परिषद्यानां न भवेदप्यरुन्तुदम् ।अप्_346.024अब्।
एकादशनिरर्थत्वं(1) दुष्करादौ न दुष्यति
दुःखीकरोति दोषज्ञान्गूढार्थत्वं न दुष्करे ।अप्_346.025अब्।
न ग्राम्यतोद्वेगकारी प्रसिद्धेर् लोकशास्त्रयोः
क्रियाभ्रंशेन लक्ष्मास्ति क्रियाध्याहारयोगतः ।अप्_346.026अब्।
भ्रष्टकारकताक्षेपबलाध्याहृतकारके
प्रगृह्ये गृह्यते नैव क्षतं विगतसन्धिना ।अप्_346.027अब्।
कष्टपाठाद्विसन्धित्वं दुर्वचादौ न दुर्भगम्
अनुप्रासे पदावृत्तिर्व्यस्तसम्बन्धता शुभा ।अप्_346.028अब्।
नार्थसंग्रहणे दोषो व्युत्क्रमाद्यैर् न लिप्यते
विभक्तिसंज्ञालिङ्गानां यत्रोद्वेगो न धीमतां ।अप्_346.029अब्।
संख्यायास्तत्र भिन्नत्वमुपमानोपमेययोः
अनेकस्य तथैकेन बहूनां बहुभिः शुभा ।अप्_346.030अब्।
कवीमां समुदाचारः समयो नाम गीयते
:न्
1 एकादशनिरस्तत्वमिति ञ..
:प् 234
समान्यश् च विशिष्टश् च धर्मवद्भवति द्विधा ।अप्_346.031अब्।
सिद्धसैद्धान्तिकानाञ्च कवीनाञ्चाविवादतः
यः प्रसिध्यति सामान्य इत्य् असौ समयो मतः ।अप्_346.032अब्।
सर्वेसिद्धान्तिका येन सञ्चरन्ति निरत्ययं
कियन्त एव वा येन सामान्यस्तेन सद्विधा ।अप्_346.033अब्।
छेदसिद्धन्ततो ऽन्यः स्यात् केषाञ्चिद्भ्रान्तितो यथा
तर्कज्ञानं मुनेः कस्य कस्यचित् क्षणभङ्गिका ।अप्_346.034अब्।
भूतचैतन्यता कस्य ज्ञानस्य सुप्रकाशता
प्रज्ञातस्थूलताशब्दानेकान्तत्वं तथार्हतः ।अप्_346.035अब्।
शैववैष्णवशाक्तेयसौरसिद्धान्तिनां मतिः
जगतः कारणं ब्रह्म साङ्ख्यानां सप्रधानकं ।अप्_346.036अब्।
अस्मिन् सरस्वतीलोके सञ्चरन्तः परस्परम्
बध्नन्ति व्यतिपश्यन्तो यद्विशिष्टैः स उच्यते ।अप्_346.037अब्।
परिग्रहादप्यसतां सतामेवापरिग्रहात्
भिद्यमानस्य तस्यायं द्वैविध्यमुपगीयते ।अप्_346.038अब्।
प्रत्यक्षादिप्रमाणैर् यद् बाधितं तदसद्विदुः
कविभिस्तत् प्रतिग्राह्यं ज्ञानस्य द्योतमानता ।अप्_346.039अब्।
यदेवार्थक्रियाकारि तदेव परमार्थसत्
अज्ञानाज्ज्ञानतस्त्वेकं ब्रह्मैव परमार्थसत् ।अप्_346.040अब्।
विष्णुः स्वर्गादिहेतुः स शब्दालङ्काररूपवान् ।अप्_346.040च्द्।
अपरा च परा विद्या तां ज्ञात्वा मुच्यते भवात्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0