भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 345

345.001

:ए इत्य् आग्नेये महापुराणे अलङ्कारे शब्दर्थालङ्कारनिरूपणं
नाम चतुश् चत्वारिंशदधिकत्रिशततमो ऽध्यायः ॥
% छप्तेर् {345}
:श् अथ पञ्चचत्वारिंशदधिकत्रिशततमो ऽध्यायः
काव्यगुणविवेकः
अग्निर् उवाच
अलंकृतमपि प्रीत्यै न काव्यं निर्गुणं भवेत् ।अप्_345.001अब्।
वपुष्यललिते स्त्रीणां हारो भारायते परं

345.002

न च वाच्यं गुणो दोषो भाव एव भविष्यति ।अप्_345.002अब्।
गुणाः श्लेषादयो दोषा गूडार्थाद्याः पृथक्कृताः

345.003

यः काव्ये महतीं छायामनुगृह्णात्यसौ गुणैः ।अप्_345.003अब्।
सम्भवत्येष सामान्यो वैशेषिक इति द्विधा

345.004

सर्वसाधारणीभूतः सामन्य इति मन्यते ।अप्_345.004अब्।
शब्दमर्थमुभौ प्राप्तः सामान्यो भवति त्रिधा

345.005

शब्दमाश्रयते काव्यं शरीरं यः स तद्गुणः ।अप्_345.005अब्।
:प् 229
श्लोषो लालित्यागाम्भीर्यसौकुमार्यमुदारता

345.006

सत्येव यौगिकी चेति गुणाः शब्दस्य सप्तधा ।अप्_345.006अब्।
सुश्लिष्टसन्निवेशत्वं शब्दानां श्लेष उच्यते

345.007

गुणादेशादिना पूर्वं पदसम्बद्धमक्षरं ।अप्_345.007अब्।
यत्रसन्धीयते नैव तल्लालित्यमुदाहृतं

345.008

विशिष्टलक्षणोल्लेखलेख्यमुत्तानशब्दकम् ।अप्_345.008अब्।
गाम्भीर्यं कथयन्त्यार्यास्तदेवान्येषु शब्दतां

345.009

अनिष्ठुराक्षरप्रायशब्दता सुकुमारता ।अप्_345.009अब्।
उत्तानपदतौदर्ययुतश्लाघ्यैर् विशेषणैः

345.010

ओजः समासभूयस्त्वमेतत्पद्यादिजीवितं ।अप्_345.010अब्।
आब्रह्म स्तम्भपर्यन्तमोजसैकेन पौरुषं

345.011

उच्यमानस्य शब्देन येन केनापि वस्तुनः ।अप्_345.011अब्।
उत्कर्षमावहन्नर्थो गुण इत्य् अभिधीयते

345.012

माधुर्यं सम्बिधानञ्च कोमलत्वमुदारता ।अप्_345.012अब्।
प्रौढिः सामयिकत्वञ्च तद्भेदाः षट्चकाशति

345.013

क्रोधेर्ष्याकारगाम्भीर्यात्माधुर्यं धैर्यगाहिता ।अप्_345.013अब्।
सम्बिधानं परिकरः स्यादपेक्षितसिद्धये

345.014

यत्काठिन्यादिनिर्मुक्तसन्निवेशविशिष्टता ।अप्_345.014अब्।
तिरस्कृत्यैव मृदुता भाति कोमलतेति सा

345.015

लक्ष्यते स्थूललक्षत्वप्रवृत्तेर्यत्र लक्षणम् ।अप्_345.015अब्।
गुणस्य तदुदारत्वमाशयस्यातिसौष्ठवं

345.016

अभिप्रेतं प्रति यतो निर्वाहस्योपपादिकाः ।अप्_345.016अब्।
युक्तयो हेतुगर्भिण्यः प्रौढाप्रौढिरुदाहृता

345.017

:प् 230
स्वतन्त्रस्यान्यतन्त्रस्य वाह्यान्तःसमयोगतः ।अप्_345.017अब्।
तत्र व्युत्पत्तिरर्थस्य या सामयिकतेति सा

345.018

शब्दार्थवुपकुर्वाणो नाम्नोभयगुणः स्मृतः ।अप्_345.018अब्।
तस्य प्रसादः सौभाग्यं यथासङ्ख्यं प्रशस्तता

345.019

पाको राग इति प्राज्ञैः षट्प्रपञ्चविपञ्चिताः ।अप्_345.019अब्।
सुप्रसिद्धर्थपदता प्रसाद इति गीयते

345.020

उत्कर्षवान् गुणः कश्चिद्यस्मिन्नुक्ते प्रतीयते ।अप्_345.020अब्।
तत्सौभाग्यमुदारत्वं प्रवदन्ति मनीषिणः

345.021

यथासङ्ख्यमनुद्देशः सामन्यमतिदिश्यते ।अप्_345.021अब्।
समये वर्णनीयस्य दारुणस्यापि वस्तुनः

345.022

अदारुणेन शब्देन प्राशस्त्यमुपवर्णनं ।अप्_345.022अब्।
उच्चैः परिणतिः कापि पाक इत्य् अभिधीयते

345.023

मृद्वीकानारिकेलाम्बुपाकभेदाच्चतुर्विधः ।अप्_345.023अब्।
आदावन्ते च सौरस्यं मृद्वीकापाक एव सः

345.024

काव्येच्छया विशेषो यः सराग इति गीयते ।अप्_345.024अब्।
अभ्यासोपहितः कान्तिं सहजामपि वर्तते

345.025

हारिद्रश् चैव कौसुम्भो नीली रागश् च स त्रिधा ।अप्_345.025अब्।
वैशेषिकः परिज्ञेयो यः स्वलक्षणगोचरः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc