भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 347

347.001

:ए इत्य् आग्नेये महापुराणे अलङ्कारे काव्यदोषविवेको नाम
षट्चत्वारिंशदधिकत्रिशततमो ऽध्यायः
:प् 235
% छप्तेर् {347}
:श् अथ अधिकत्रिशततमो ऽध्यायः
एकाक्षराभिधानं
अग्निर् उवाच
एकाक्षराभिधनञ्च मातृकान्तं वदामि ते ।अप्_347.001अब्।
अ विष्णुः प्रतिषेधः स्यादा पितामहवाक्ययोः

347.002

सीमायामथाव्ययं आ भवेत्संक्रोधपीडयोः ।अप्_347.002अब्।
इः कामे रतिलक्ष्म्योरी उः शिवे रक्षकाद्य ऊः(1)

347.003

ऋ शब्दे चादितौ ऋस्यात् ऌ ॡ ते वै दितौ गुहे ।अप्_347.003अब्।
ए देवी ऐ योगिनी स्यादो ब्रह्मा औ महेश्वरः

347.004

अङ्कामः अः प्रशस्तः स्यात्(2) को ब्रह्मादौ कु कुत्सिते ।अप्_347.004अब्।
खं शून्येन्द्रियं खङ्गो गन्धर्वे च विनायके

347.005

गङ्गीते गो गायने स्यद् घो घण्टा किङ्किणीमुखे ।अप्_347.005अब्।
ताडने ङश् च विषये स्पृहायाञ्चैव भैरवे

347.006

चो दुर्जने निर्मले छश्छेदे जिर्जयने तथा ।अप्_347.006अब्।
जं गीते झः प्रशस्ते स्याद्बले(3) ञो गायने च टः

347.007

ठश् चन्द्रमण्डले शून्ये शिवे चोद्बन्धने मतः ।अप्_347.007अब्।
डश् च रुद्रे ध्वनौ त्रासे ढक्वायां ढो ध्वनौ मतः

347.008

णो निष्कर्षे निश् चये च तश् चौरे क्रोडपुच्छके ।अप्_347.008अब्।
भक्षणे थश्छेदने दो धारणे शोभने मतः

347.009

:न्
1 ब्रह्मकाद्य ऊरिति ख..
2 प्रशान्तःस्यादिति ख..
3 धने इति ञ..
:प् 236
धो धातरि चधूस्तूरे नो वृन्दे सुगते तथा ।अप्_347.009अब्।
प उपवने विख्यातः फश् च झञ्झानिले मतः

347.010

फुः फुत्कारे निष्फले च विः पक्षी भञ्च तारके ।अप्_347.010अब्।
मा श्रीर्मानञ्च माता स्याद्याग यो यातृवीरणे

347.011

रो बह्नौ च लः शक्रे च लो विधातरि ईरितः ।अप्_347.011अब्।
विश्लेषणे वो वरुणे शयने शश् च शं सुखे

347.012

षः श्रेष्ठे सः परोक्षे च सालक्ष्मीः सं कचेमतः ।अप्_347.012अब्।
धारणे हस् तथा रुद्रे क्षः क्षत्त्रे चाक्षरे मतः

347.013

क्षो नृसिंहे हरौ तद्वत् क्षेत्रपालकयोरपि ।अप्_347.013अब्।
मन्त्र एकाक्षरो देवो भुक्तिमुक्तिप्रदायकः

347.014

हैहयशिरसे नमः सर्वविद्याप्रदो मनुः ।अप्_347.014अब्।
अकाराद्यास् तथा मन्त्रा मातृकामन्त्र उत्तमः

347.015

एकपद्मे ऽर्चयेदेतान्नव दुर्गाश् च पूजयेत् ।अप्_347.015अब्।
भगवती कात्यायनी कौशिकी चाथ चण्डिका

347.016

प्रचण्डा सुरनायिका उग्रा पार्वती दुर्गया ।अप्_347.016अब्।
ओं चण्डिकायै विद्महे भगवत्यै धीमहि तन्नो दुर्गा
प्रचोदयात्
क्रमादि तु षडङ्गं स्याद्गणो गुरुर्गुरुः क्रमात्

347.017

अजितापराजिता चाथ जया च विजया ततः ।अप्_347.017अब्।
कात्यायनी भद्रकाली मङ्गला सिद्धिरेवती

347.018

सिद्धादिवटुकाः पूज्या हेतुकश् च कपालिकः ।अप्_347.018अब्।
एकपादो भीमरूपो दिक्पालान्मध्यतो नव

347.019

ह्रीं दुर्गे दुर्गे रक्षणि स्वाहामन्त्रार्थसिद्धये ।अप्_347.019अब्।
गौरी पूज्या च धर्माद्याः स्कन्दाद्याः शक्तयो यजेत्

347.020

:प् 237
प्रज्ञा ज्ञाना क्रिया वाचा वागीशी ज्वालिनी तथा ।अप्_347.020अब्।
कामिनी काममाला च इन्द्राद्याः शक्तिपूजनं

347.021

ओंगं स्वाहा मूलमन्त्रो ऽयं गं वा गणपतये नमः ।अप्_347.021अब्।
षडङ्गो रक्तशुक्लश् च दन्ताक्षपरशूतकटः

347.022

समोदको ऽथ(1) गन्धादिगन्धोल्कायेति च क्रमात् ।अप्_347.022अब्।
गजो महागणपतिर्महोल्कः पूज्य एव च

347.023

कुष्माण्डाय एकदन्तत्रिपुरान्तकाय
श्यामदन्तविकटहरहासाय
लम्बनाशाननाय पद्मदंष्ट्राय मेघोल्काय धूमोल्काय
वक्रतुण्दाय विघ्नेश्वराय विकटोत्कटाय गजेन्द्रगमनाय
भुजगेन्द्रहाराय शशाङ्कधराय गणाधिपतये स्वाहा
एतैर् मनुभिः स्वाहान्तैः पूज्य तिलहोमादिनार्थभाक् ।अप्_347.023अब्।
काद्यैर् वा वीजसंयुक्तैस्तैर् आद्यैश् च नमो ऽन्तकैः

347.024

मन्त्राः पृथक् पृथग्वा स्युर्द्विरेफद्विर्मुखाक्षिणः(2)* ।अप्_347.024अब्।
कात्यायनं अकन्द आह यत्तद्व्याकरणं वदे

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc