अग्नि पुराण · अध्याय 344
:ए इत्य् आग्नेये महापुराणे अलङ्कारे अर्थालङ्कारनिरूपणं
नाम त्रिचत्वारिंशदधिकत्रिशततमो ऽध्यायः
% छप्तेर् {344}
:श् अथ चतुश् चत्वारिंशदधिकत्रिशततमो ऽध्यायः
शब्दार्थालङ्काराः
अग्निर् उवाच
शब्दार्थयोरलङ्कारो द्वावलङ्कुरुते समं ।अप्_344.001अब्।
एकत्र निहितो हारः स्तनं ग्रीवामिव स्त्रियाः
प्रशस्तिः कान्तिरौचित्यं संक्षेपो यावदर्थता ।अप्_344.002अब्।
अभिव्यक्तिरिति व्यक्तं षड्भेदास्तस्य जाग्रति
प्रशस्तिः परवन्मर्मद्रवीकरणकर्मणः ।अप्_344.003अब्।
वाचो युक्तिर्द्विधा सा च प्रेमोक्तिस्तुतिभेदतः
:प् 227
प्रेमोक्तिस्तुतिपर्यायौ प्रियोक्तिगुणकीर्तने ।अप्_344.004अब्।
कान्तिः सर्वमनोरुच्यवाच्यवात्तकसङ्गतिः
यथा वस्तु तथा रीतिर्यथा वृत्तिस् तथा रसः ।अप्_344.005अब्।
ऊर्जस्विमृदुसन्दर्भादौचित्यमुपजायते
संक्षेपो वाचकैर् अल्पैर् वहोरर्थस्य संग्रहः ।अप्_344.006अब्।
अन्यूनाधिकता शब्दवस्तुनोर्यावदर्थता
प्रकटत्वमभिव्यक्तिः श्रुतिराक्षेप इत्य् अपि ।अप्_344.007अब्।
तस्या भेदौ श्रुतिस्तत्र शब्दं स्वार्थसमर्पणम्
भवेन्नैमित्तिकी पारिभाषिकी द्विविधैव सा ।अप्_344.008अब्।
सङ्केतः परिभाषेति ततः स्यात् पारिभाषिकी
मुख्यौपचारिकी चेति सा च सा च द्विधा द्विधा ।अप्_344.009अब्।
स्वाभिधेयस्खलद्वृत्तिरमुख्यार्थस्य वाचकः
यया शब्दो निमित्तेन केनचित्सौपचारिकी ।अप्_344.010अब्।
सा च लाक्षणिकी गौणी लक्षणागुणयोगतः
अभिधेयाविनाभूता प्रतीतिर् लक्षणोच्यते ।अप्_344.011अब्।
अभिधेयेन सम्बन्धात्सामीप्यात्समवायतः
वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता ।अप्_344.012अब्।
गौणीगुणानामानन्त्यादनन्ता तद्विवक्षया
अन्यधर्मस्ततो ऽन्यत्र लोकसीमानुरोधिना ।अप्_344.013अब्।
सम्यगाधीयते यत्र स समाधिरिह स्मृतः
श्रूतेरलभ्यमानो ऽर्थो यस्माद्भाति सचेतनः ।अप्_344.014अब्।
स आक्षेपो धनिः स्याच्च ध्वनिना व्यज्यते यतः
शब्देनार्थेन यत्रार्थः कृत्वा स्वयमुपार्जनम् ।अप्_344.015अब्।
:प् 228
प्रतिषेध इवेष्टस्य यो विशेषो ऽभिधित्सया
तमाक्षेपं व्रुवन्त्यत्र स्तुतं स्तोत्रमिदं पुनः ।अप्_344.016अब्।
अधिकारादपेतस्य वस्तुनो ऽन्यस्य या स्तुतिः
यत्रोक्तं गम्यते नार्थस्तत्समानविशेषणं ।अप्_344.017अब्।
सा समासोकितिरुदिता सङ्क्षेपार्थतया बुधैः
अपह्नुतिरपह्नुत्य किञ्चिदन्यार्थसूचनम् ।अप्_344.018अब्।
पर्यायोक्तं यदन्येन प्रकारेनाभिधीयते ।अप्_344.018च्द्।
एषामेकंतमस्येव समाख्या ध्वनिरित्यतः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0