अग्नि पुराण · अध्याय 343
:ए इत्य् आग्नेये महापुराणे अलङ्कारे शब्दालङ्कारनिरूपणं
नाम द्विचत्वारिंशदधिकत्रिशततमो ऽध्यायः
% छप्तेर् {343}
:श् अथ त्रिचत्वारिंशदधिकत्रिशततमो ऽध्यायः
अर्थालङ्काराः
अग्निर् उवाच
अलङ्करणमर्थानामर्थालङ्कार इष्यते ।अप्_343.001अब्।
तं विना शब्दसौन्दर्यमपि नास्ति मनोहरम्
अर्थालङ्काररहिता विधवेव(1) सरस्वती ।अप्_343.002अब्।
स्वरूपमथ सादृश्यमुत्प्रेक्षातिशयावपि
विभावना विरोधश् च हेतुश् च सममष्टधा ।अप्_343.003अब्।
स्वभाव एव भावानां स्वरूपमभिधीयते
निजमागन्तुकञ्चेति द्विविधं तदुदाहृतम् ।अप्_343.004अब्।
सांसिद्धिकं नियं नैमित्तिकमागन्तुकं तथा
:न्
1 विधुरेवेति ख.. , ट.. च
:प् 224
सादृश्यं धर्मसामान्यमुपमा रूपकं तथा ।अप्_343.005अब्।
महोक्त्यर्थान्तरन्यासाविति स्यात्तु चतुर्विधम्
उपमा नाम सा यस्यामुपमानोपमेययोः ।अप्_343.006अब्।
सत्ता चान्तरसामान्ययोगित्वेपि विवक्षितं
किञ्चिदादाय सारूप्यं लोकयात्रा प्रवर्तते ।अप्_343.007अब्।
समासेनासमासेन सा द्विधा प्रतियोगिनः
विग्रहादभिधानस्य ससमासान्यथोत्तरा ।अप्_343.008अब्।
उपमाद्योतकपदेनोपमेयपदेनच
ताभ्याञ्च विग्रहात्त्रेधा ससमासान्तिमात् त्रिधा ।अप्_343.009अब्।
विशिष्यमाणा उपमा भवन्त्यष्टादश स्फुटाः
यत्र साधारणो धर्मः कथ्यते गम्यते ऽपि वा ।अप्_343.010अब्।
ते धर्मवस्तुप्राधान्याद्धर्मवस्तूपमे उभे
तुल्यमेवोपमीयेते यत्रान्योन्येन धर्मिणौ ।अप्_343.011अब्।
परस्परोपमा सा स्यात् प्रसिद्धेरन्यथा तयोः
विपरीतोपमा सा स्याद्व्यावृत्तेर् नियमोपमा ।अप्_343.012अब्।
अन्यत्राप्यनुवृत्तेस्तु भवेदनियमोपमा
समुच्चयोपमातो ऽन्यधर्मवाहुल्यकीर्तनात् ।अप्_343.013अब्।
वहोर्धम्मस्य साम्येपि वैलक्ष्ण्यं विवक्षितं
यदुच्यते ऽतिरिक्तत्वं व्यतिरेकोपमा तु सा ।अप्_343.014अब्।
यत्रोपमा स्याद्वहुभिः सदृशैः सा बहूपमा
धर्माः प्रत्युपमानञ्चेदन्ये मालोपमैव साअप्_343.015अब्।
उपमानविकारेण तुलना विक्रियोपमा
त्रिलोक्यासम्भवि किमप्यारोप्य प्रतियोगिनि ।अप्_343.016अब्।
:प् 225
कविनोपमीयते या प्रथते साद्भुतोपमा
प्रतियोगिनमारोप्य तदभेदेन कीर्तनम् ।अप्_343.017अब्।
उपमेयस्य सा मोहोपमासौ भ्रान्तिमद्वचः
उभयोर्धर्मिणोस्तथ्यानिश् चयात् संशयोपमा ।अप्_343.018अब्।
उपमेयस्य संशय्य निश् चयान्निश् चयोपमा
वाक्यार्थनैव वाक्यार्थोपमा स्यादुपमानतः ।अप्_343.019अब्।
आत्मनोपमानादुपमा साधारण्यतिशायिनी
उपमेयं यद्न्यस्य तद्न्यस्योपमा मता ।अप्_343.020अब्।
यद्युत्तरोत्तरं याति तदासौ गगनोपमा(1)
प्रशंसा चैव निन्दा च कल्पिता सदृशी तथा ।अप्_343.021अब्।
किञ्चिच्च सदृशी ज्ञेया उपमा पञ्चधा पुरः
उपमानेन यत्तत्वमुपमेयस्य रूप्यते ।अप्_343.022अब्।
गुणानां समतां दृष्ट्वा रूपकं नाम तद्विदुः
उपमैव तिरोभूतभेदा रूपकमेव वा ।अप्_343.023अब्।
सहोक्तिः सहभावेन कथनं तुल्यधर्मिणां
भवेदर्थान्तरन्यासः सादृश्येनोत्तरेण सः ।अप्_343.024अब्।
अन्यथोपस्थिता वृत्तिश्चेतनस्येतरस्य च
अन्यथा मन्यते यत्र तामुत्प्रेक्षां प्रचक्षते ।अप्_343.025अब्।
लोकसीमान्वृत्तस्य वस्तुधर्मस्य कीर्तनम्
भवेदतिशयो नाम सम्भवासम्भवाद्द्विधा ।अप्_343.026अब्।
गुणजातिक्रियादीनां यत्र वैकल्यर्दर्शनं
विशेषदर्शनायैव सा विशेषोक्तिरुच्यते ।अप्_343.027अब्।
:न्
1 पवनोपमेति ख.. । गमनोपमेति क.. , ट.. च
:प् 226
प्रसिद्धहेतुव्यावृत्या यत् किञ्चित् कारणान्तरम्
यत्र स्वाभाविकत्वं वा विभाव्यं सा विभावना ।अप्_343.028अब्।
सङ्गतीकरणं युक्त्या यदसंगच्छमानयोः
विरोधपूर्वकत्वेन तद्विरोध इति स्मृतं ।अप्_343.029अब्।
सिसाधयिषितार्थस्य हेतुर्भवति साधकः
कारको ज्ञापक इति द्विधा सो ऽप्युपजायते ।अप्_343.030अब्।
प्रवर्तते कारकाख्यः प्राक् पश्चात् कार्यजन्मनः
पूर्वशेष इति ख्यातस्तयोरेव विशेषयोः ।अप्_343.031अब्।
कार्यकारणभावाद्वा स्वमावाद्वा नियामकात्
ज्ञापकाख्यस्य भेदो ऽस्ति नदीपूरादिदर्शनात् ।अप्_343.032अब्।
अविनाभावनियमो ह्य् अविनाभावदर्शनात्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0