अग्नि पुराण · अध्याय 342
:ए इत्य् आग्नेये महापुराणे अलङ्कारे अभिनयादिनिरूपणं
नामैकचत्वारिंशदधिकत्रिशततमो ऽध्यायः
:प् 217
% छप्तेर् {342}
:श् अथ द्विचत्वारिंशदधिकत्रिशततमो ऽध्यायः
शब्दालङ्काराः
अग्निरुचाच
स्यादावृत्तिरनुप्रासो वर्णानां पदवाक्ययोः ।अप्_342.001अब्।
एकवर्णानेकवर्णावृत्तेर्वर्णगुणो द्विधा
एकवर्णगतावृत्तेर्जायन्ते पञ्च वृत्तयः ।अप्_342.002अब्।
मधुरा ललिता प्रौटा भद्रा परुषया सह
मधुरायाश् च वर्गन्तादधो वर्ग्या रणौ स्वनौ(1) ।अप्_342.003अब्।
ह्रस्वस्वरेणान्तरितौ संयुक्तत्वं नकारयोः
न कार्या वर्ग्यवर्णानामावृत्तिः पञ्चमाधिका ।अप्_342.004अब्।
महाप्राणोष्मसंयोगप्रविमुक्तलघूत्तरौ(2)
ललिता बलभूयिष्ठा(3) प्रौटा या पणवर्गजा ।अप्_342.005अब्।
ऊर्ध्वं रेफेण युज्यन्ते नटवर्गोनपञ्चमाः
भद्रायां परिशिष्टाः स्युः परुषा साभिधीयते ।अप्_342.006अब्।
भवन्ति यस्यामूष्माणः संयुक्तास्तत्तदक्षरैः
अकारवर्जमावृत्तिः स्वराणामतिभूयसी ।अप्_342.007अब्।
अनुस्वारविसर्गौ च पारुष्याय निरन्तरौ
शषसा रेफसंयुक्ताश्चाकारश्चापि भूयसा ।अप्_342.008अब्।
:न्
1 रशौ घनाविति ञ..
2 महाप्राणोष्मसंयोगादवियुक्तलघूत्तराविति ट..
3 ललिता वनभूयिष्ठेति ख.. । ललिता वत्सभूयिष्ठेति ट..
:प् 218
अन्तस्थाभिन्नमाभ्याञ्च हः पारुष्याय संयुतः
अन्यथापि गुरुर्वर्णः संयुक्तेपरिपन्थिनि ।अप्_342.009अब्।
पारुष्यायादिमांस्तत्र पूजिता न तु पञ्चमो
क्षेपे शब्दानुकारे च परुषापि प्रयुज्यते ।अप्_342.010अब्।
कर्णाटी कौन्तली कौन्ती कौङ्कणी वामनासिका(1)
द्रावणी माधवी पञ्चवर्णान्तस्थोष्मभिः क्रमात् ।अप्_342.011अब्।
अनेकवर्णावृत्तिर्या भिन्नार्थप्रतिपादिका
यमकं साव्यपेतञ्च व्यपेतञ्चेति तद्द्विधा ।अप्_342.012अब्।
आनन्तर्यादव्यपेतं व्यपेतं व्यवधानतः
द्वैविध्येनानयोः स्थानपादभेदाच्चतुर्विधम् ।अप्_342.013अब्।
आदिपादादिमध्यान्तेष्वेकद्वित्रिनियोगतः
सप्तधा सप्तपूर्वेण(2) चेत् पादेनोत्तरोत्तरः ।अप्_342.014अब्।
एकद्वित्रिपदारम्भस्तुल्यः षोढा तदापरं
तृतीयं त्रिविधं पादस्यादिमध्यान्तगोचरम् ।अप्_342.015अब्।
पादान्तयमकञ्चैव काञ्चीयमकमेव च
संसर्गयमकञ्चैव(3) विक्रान्तयमकन्तथा ।अप्_342.016अब्।
पादादियमकञ्चैव तथाम्रेडितमेव च
चतुर्व्यवसितञ्चैव मालायमकमेव च ।अप्_342.017अब्।
दशधा यमकं श्रेष्ठं तद्भेदा बहवो ऽपरे
स्वतन्त्रस्यान्यतन्त्रस्य पदस्यावर्तना द्विधा ।अप्_342.018अब्।
:न्
1 बालवासिकेति ख.. , ट.. च । वनवासिकेति ञ..
2 पूर्वपूर्वेणेति ज.. , ञ.. , ट.. च
3 सम्बन्धयमकश् चैवेति ख..
:प् 219
भिन्नप्रयोजनपदस्यावृत्तिं मनुजा विदुः
द्वयोरावृत्तपदयोः समस्ता स्यात्समासतः ।अप्_342.019अब्।
असमासात्तयोर्व्यस्ता पादे त्वेकत्र विग्रहात्
वाक्यस्यावृत्तिरप्येवं यथासम्भवमिष्यते ।अप्_342.020अब्।
अलङ्काराद्यनुप्रासो लघुमध्येवमर्हणात्(1) *
यया कयाचिद्वृत्या यत् समानमनुभूयते ।अप्_342.021अब्।
तद्रूपादिपदासत्तिः सानुप्रसा रसावहा
गोष्ठ्यां कुतूहलाध्यायी वाग्बन्धश्चित्रमुच्यते ।अप्_342.022अब्।
प्रश्नः प्रहेलिका गुप्तं च्युतदत्ते तथोभयम्
समस्या सप्त तद्भेदा नानार्थस्यानुयोगतः ।अप्_342.023अब्।
यत्र प्रदीयते तुल्यवर्णविन्यासमुत्तरं
स प्रश्नः स्यादेकपृष्टद्विपृष्टोत्तरभेदतः ।अप्_342.024अब्।
द्विधैकपृष्टो द्विविधः समस्तो व्यस्त एव च
द्वयोरप्यर्थयोर्गुह्यमानशब्दा प्रहेलिका ।अप्_342.025अब्।
सा द्विधार्थो च शाब्दी च तत्रार्थी चार्थबोधतः
शब्दावबोधतः शाब्दी प्राहुः षोढा प्रहेलिकां ।अप्_342.026अब्।
यस्मिन् गुप्ते ऽपि वाक्याङ्गे भाव्यर्थो ऽपारमार्थिकः
तदङ्गविहिताकाङ्क्षस्तद्गुप्तं गूढमप्यदः ।अप्_342.027अब्।
यत्रार्थान्तरनिर्भासो वाक्याङ्गच्यवनादिभिः
तदङ्गविहिताकाङ्क्षस्तच्चुतं स्याच्चतुर्विधम् ।अप्_342.028अब्।
:न्
1 लघुमप्येवमर्हणादिति ट.. । लघुमध्येव वर्हणादिति ज..
लघुमध्येवमर्हणात्, लघुमप्येवमर्हणात्, लघुमध्येव
वर्हणात् एतत् पाठत्रयं न सम्यक् प्रतिभाति
:प् 220
स्वरव्यञ्जनविन्दूनां विसर्गस्य च विच्युतेः
दत्तेपि यत्र वाक्याङ्गे द्वितीयोर्थः प्रतीयते ।अप्_342.029अब्।
दत्तन्तदाहुस्तद्भेदाः स्वराद्यैः पूर्ववन्मताः
अपनीताक्षरस्थाने न्यस्ते वर्णान्तरे ऽपि च ।अप्_342.030अब्।
भासते ऽर्थान्तरं यत्र च्युतदत्तं तदुच्यते
सुश्लिष्टपद्यमेकं यन्नानाश्लोकांशनिर्मितम् ।अप्_342.031अब्।
सा ममस्या परस्यात्मपरयोः कृतिसङ्करात्
दुःखेन कृतमत्यर्थं कविसामर्थ्यसूचकम् ।अप्_342.032अब्।
दुष्करं नीरसत्वेपि विदग्धानां महोत्सवः
नियमाच्च विदर्भाच बन्धाच्च भवति त्रिधा ।अप्_342.033अब्।
कवेः प्रतिज्ञा निर्माणरम्यस्य नियमः स्मृतः
स्थानेनापि स्वरेणापि व्यञ्जनेनापि स त्रिधा ।अप्_342.034अब्।
विकल्पः प्रातिलोम्यानुलोम्यादेवाभिधीयते
प्रतिलोम्यानुलोम्यञ्च शब्देनार्थेन जायते ।अप्_342.035अब्।
अनेकधावृत्तवर्णविन्यासैः शिल्पकल्पना
तत्तत्प्रसिद्धवस्तूनां बन्ध इत्य् अभिधीयते ।अप्_342.036अब्।
गोमूत्रिकार्धभ्रमणे सर्वतोभद्रमम्बुजम्
चक्रञ्चक्राब्जकं दण्डो मुरजाश्चेति चाष्टधा ।अप्_342.037अब्।
प्रत्यर्धं प्रतिपादं स्यादेकान्तरसमाक्षरा
द्विधा गोमूत्रिकां पूर्वामाहुरश्वपदां परे ।अप्_342.038अब्।
अन्त्याङ्गोमूत्रिकां धेनुं जालबन्धं(1) वदन्ति हि
अर्धाभ्यामर्धपादैश् च कुर्याद्विन्यासमेतयोः ।अप्_342.039अब्।
:न्
1 जानुबन्धमिति क.. , ख.. च
:प् 221
न्यस्तानामिह वर्णानामधोधः क्रमभागिनां
अधोधःस्थितवर्णानां यावत्तूर्यपदन्नयेत् ।अप्_342.040अब्।
तुर्यपादान्नयेदूर्ध पादार्धं प्रातिलोम्यतः
तदेव सर्वतोभद्रं त्रिविधं सरसीरुहं ।अप्_342.041अब्।
चतुष्पत्रं ततो विघ्नं चतुष्पत्रे उभे अपि
अथ प्रथमपादस्य मूर्धन्यस्त्रिपदाक्षरं ।अप्_342.042अब्।
सर्वेषामेव पादानामन्ते तदुपजायते
प्राक्पदस्यान्तिमं प्रत्यक् पादादौ प्रातिलोम्यतः ।अप्_342.043अब्।
अन्त्यपादान्तिमञ्चाद्यपादादावक्षरद्वयं
चतुश्छदे भवेदष्टच्छदे वर्णत्रयं पुनः ।अप्_342.044अब्।
स्यात् षोडशच्छदे त्वेकान्तरञ्चेदेकमक्षरं
कर्णिकां तोलयेदूर्ध्वं पत्राकाराक्षरावलिं ।अप्_342.045अब्।
प्रवेशयेत् कर्णिकायाञ्चतुष्पत्रसरोरुहे
कर्णिकायां लिखेदेकं द्वे द्वे दिक्षु विदिक्षु च ।अप्_342.046अब्।
प्रवेशनिर्गमौ दिक्षु कुर्यादष्टच्छदे ऽम्बुजे
विश्वग्विषमवर्णानां तावत् पत्राबलीजुषां ।अप्_342.047अब्।
मध्ये समाक्षरन्यासःसरोजे षोडशच्छदे
द्विधा चक्रं चतुररं षडरन्तत्र चादिमं ।अप्_342.048अब्।
पूर्वार्धे सदृशा वर्णाः पादप्रथमपञ्चमाः
अयुजो ऽश्वयुजश् चैव तुर्यावप्यष्टमावपि ।अप्_342.049अब्।
तस्योपपादप्राक्प्रत्यगरेषु च यथाक्रमं
स्यात्पादार्धचतुष्कन्तु नाभौ तस्याद्यमक्षरं ।अप्_342.050अब्।
पश्चिमारावधि नयेन्नेमौ शेषे पदद्वयी
:प् 222
तृतीयं तुर्यपादान्ते प्रथमौ सदृशावुभौ ।अप्_342.051अब्।
वर्णौ पादत्रयस्यापि दशमः सदृशो यदि
प्रथमे चरमे तस्य षड्तर्णाः पथिमे यदि ।अप्_342.052अब्।
भवन्ति द्व्यन्तरं तर्हि वृहच्च क्रमुदाहृतं
सम्मुखारद्वये पादमेकैकं क्रमशो लिखेत् ।अप्_342.053अब्।
नाभौ तु वर्णं दशमं नेमौ तूर्यपदन्नयेत्
श्लोकस्याद्यन्तदशमाः समा आद्यन्तिमौ युजोः ।अप्_342.054अब्।
आदौ वर्णः समौ तुर्यपञ्चमावाद्यतर्ययोः
द्वितीयप्रातिलोम्येन तृतीयं जायते यदि ।अप्_342.055अब्।
पदं विदध्यात् पत्रस्य दण्डश् चक्राब्जकं कृतेः
द्वितीयौ प्राग्दले तुल्यौ सप्तमौ च तथापरौ ।अप्_342.056अब्।
सदृशावुत्तरदलौ द्वितीयाभ्यामथार्धयोः
द्वितीयषष्ठाः सदृशाश् चतुर्थपञ्चमावपि ।अप्_342.057अब्।
आद्यन्तपादयोस्तुल्यौ परार्धसप्तमावपि
समौ तुर्यं पञ्चमन्तु क्रमेण विनियोजयेत् ।अप्_342.058अब्।
तुर्यौ योज्यौ तु तद्वच्च दलान्ताः क्रमपादयोः
अर्धयोरन्तिमाद्यौ तु मुरजे सदृशावभौ ।अप्_342.059अब्।
पादार्धपतितो वर्णः प्रातिलोम्यानुलोमतः
अन्तिमं परिबध्नीयाद्यावत्तुर्यमिहादिमत् ।अप्_342.060अब्।
पादात्तुर्याद्यदेवाद्यं नवमात् षोडशादपि
अक्षरात् पुटके मध्ये मध्ये ऽक्षरचतुष्टयम् ।अप्_342.061अब्।
कृत्वा कुर्याद्यथैतस्य मुरजाकारता भवेत्
द्वितीयं चक्रशार्दूलविक्रीडितकसम्पदम् ।अप्_342.062अब्।
:प् 223
गोमूत्रिका सर्ववृत्तैर् अन्ये बन्धास्त्वनुष्टुभा
नामधेयं यदि न चेदमीषु कविकाव्ययोः ।अप्_342.063अब्।
मित्रधेयाभितुष्यन्ति नामित्रः खिद्यते तथा
वाणवाणासनव्योमखड्गमुद्गरशक्तयः ।अप्_342.064अब्।
द्विचतुर्थत्रिशृङ्गाटा दम्भोलिमुषलाङ्कुशाः
पदं रथस्य नागस्य पुष्करिण्यसिपुत्रिका ।अप्_342.065अब्।
एते बन्धास् तथा चान्ये एवं ज्ञेयाः स्वयं बुधैः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0