अग्नि पुराण · अध्याय 341
:ए इत्य् आग्नेये महापुराणे अलङ्कारे
नृत्यादावङ्गकर्मनिरूपणम् नाम चत्वरिंशदधिकत्रिशततमो
ऽध्यायः ॥
% छप्तेर् {341}
:श् अथैकचत्वारिंशदधिकत्रिशततमो ऽध्यायः
अभिनयादिनिरूपणं
अग्निर् उवाच
आभिमुख्यन्नयन्नर्थान्विज्ञेयो ऽभिनयो बुधैः ।अप्_341.001अब्।
चतुर्धा सम्भवः सत्त्ववागङ्गाहरणाश्रयः
स्तम्भादिः सात्त्विको वागारम्भो वाचिक आङ्गिकः ।अप्_341.002अब्।
शरीरारम्भ आहार्यो बुद्ध्यारम्भप्रवृत्तयः
रसादिविनियोगो ऽथ कथ्यते ह्य् अभिमानतः ।अप्_341.003अब्।
तमन्तरेण सर्वे षामपार्थैव स्वतन्त्रता
सम्भोगो विप्रलम्भश् च शृङ्गारो द्विविधः स्मृतः ।अप्_341.004अब्।
:प् 214
प्रच्छन्नश् च प्रकाशश् च तावपि द्विविधौ पुनः
विप्रलम्भाभिधानो यः शृङ्गारः स चतुर्विधः ।अप्_341.005अब्।
पूर्वानुरागानाख्यः प्रवामकरुणात्मकः
एतेभ्यो ऽन्यतरं जायमानमम्भोगलक्षणम् ।अप्_341.006अब्।
विवर्तते चतुर्धैव न च प्रागतिवर्तते
स्त्रीपुंसयोस्तदुदयस्तस्य निर्विर्तिका रतिः ।अप्_341.007अब्।
निखिलाः सात्त्विकास्तत्र वैवर्ण्यप्रलयौ विना
धर्मार्थकाममोक्षैश् च शृङ्गार उपचीयते ।अप्_341.008अब्।
आलम्वनविशेषैश् च तद्विशेषैर् निरन्तरः
शृङ्गारं द्विविधं विद्याद्वाङ्नेपथ्यक्रियात्मकम् ।अप्_341.009अब्।
हासश् च तुर्विधो ऽलक्ष्यदन्तः स्मित इतीरितः
किञ्चिल्लक्षितदन्ताग्रं हसितं फुल्ललोचनम् ।अप्_341.010अब्।
विहसितं सस्वनं स्याज्जिह्मोपहसितन्तु तत्
सशब्दं पापहसितमशब्दमतिहासितं ।अप्_341.011अब्।
यश्चासौ करुणो नाम स रसस्त्रिविधो भवेत्
धर्मोपघातजश्चित्तविलासजनितस् तथा ।अप्_341.012अब्।
शोकः शोकाद्भवेत् स्थायी कः स्थायी पूर्वजो मतः
अङ्गनेपथ्यवाक्यैश् च रौद्रो ऽपि त्रिविधो रसः ।अप्_341.013अब्।
तस्य निर्वर्तकः क्रोधः स्वेदो रोमाञ्चवपथुः
दानवीरो धर्मवीरो युद्धवीर इति त्रयम् ।अप्_341.014अब्।
वीरस्तस्य च निष्पत्तिहेतुरुत्साह इष्यते
आरम्भेषु भवेद्यत्र वीरमेवानुवर्तते ।अप्_341.015अब्।
:प् 215
भयानको नाम रसस्तस्य निर्वर्तकं भयं
उद्वेजनः क्षोभणश् च वीभत्सो द्विविधः स्मृतः ।अप्_341.016अब्।
उद्वेजनः स्यात् प्लुत्याद्यैः क्षोभणो रुधिरादिभिः
जगुप्सारम्भिका तस्य सात्त्विकांशो निवर्तते ।अप्_341.017अब्।
काव्यशोभाकरान् धर्मानलङ्कारान् प्रचक्ष्यते
अलङ्करिष्णवस्ते च शब्दमर्थमुभौ त्रिधा ।अप्_341.018अब्।
ये व्युत्पत्त्यादिना शब्दमलङ्कर्तुमिह क्षमाः
शब्दालङ्कारमाहुस्तान् काव्यमीमांसका विदः ।अप्_341.019अब्।
छाया मुद्रा तथोक्तिश् च युक्तिर्गुम्फनया सह
वाकोवाक्यमनुप्रासश्चित्रं दुष्करमेव च ।अप्_341.020अब्।
ज्णेया नवालङ्कृतयः शब्दानामित्यसङ्करात्
तत्रान्योक्तेरनुकृतिश्छाया सापि चत्रुव्विधा ।अप्_341.021अब्।
लोकच्छेकार्भकोक्तीनामेकोक्तेरनुकारतः
आभाणकोक्तिर्लोकोक्तिः सर्वसामान्य एव ताः ।अप्_341.022अब्।
यानुधावति लोकोक्तिश्छायामिच्छन्ति तां बुधाः
छेका विदग्धा वैदग्ध्यं कलासु कुशला मतिः ।अप्_341.023अब्।
तामुल्लिखन्ती छेकोक्तिश्छाया कविभिरिष्यते
अव्युत्पन्नोक्तिरखिलैर् अर्भकोक्त्योपलक्ष्यते ।अप्_341.024अब्।
तेनार्भकोक्तिश्छाया तन्मात्रोक्तिमनुकुर्वती
विप्लुताक्षरमश्लीलं वचो मत्तस्य तादृशी ।अप्_341.025अब्।
या सा भवति मत्तोक्तिश्छायोक्ताप्यतिशोभते
अभिप्रायविशेषेण कविशक्तिं विवृण्वती ।अप्_341.026अब्।
:प् 216
मुत्प्रदायिनीति सा मुद्रा सैव शय्यापि नो मते
उक्तिः सा कथ्यते यस्यामर्थको ऽप्युपपत्तिमान् ।अप्_341.027अब्।
लोकयात्रार्थविधिना धिनोति हृदयं सतां
उभौ विधिनिषेधौ च नियमानियमावपि ।अप्_341.028अब्।
विकल्पपरिसङ्ख्ये च तदीयाः षडथोक्तयः
अयुक्तयोरिव मिथो वाच्यवाचकयोर्द्वयोः ।अप्_341.029अब्।
योजनायै कल्प्यमाना युक्तिरुक्ता मनीषिभिः
पदञ्चैव पदार्थश् च वाक्यं वाक्यर्थमेव च ।अप्_341.030अब्।
विषयो ऽस्त्याः प्रकरणं प्रपञ्चश्चेति षड्विधः
गुम्फना रचनाचर्या शब्दार्थक्रमगोचरा ।अप्_341.031अब्।
शब्दानुकारादर्थानुपूर्वार्थेयं क्रमात्त्रिधा
उक्तिप्रत्युक्तिमद्वाक्यं वाकोवाक्यं द्विधैव तत् ।अप्_341.032अब्।
ऋजुवक्रोक्तिभेदेन तत्राद्यं सहजं वचः
सा पूर्वप्रश्निका प्रश्नपूर्विकेति द्विधा भवेत् ।अप्_341.033अब्।
वक्रोक्तिस्तु भवेड्भङ्ग्या काकुस्तेन कृता द्विधा
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0