भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 340

340.001

:ए इत्य् आग्नेये महापुराणे अलङ्कारे रीतिनिरूपणं
नामोनचत्वारिंशदधिकत्रिशततमो ऽध्यायः
% छप्तेर् {340}
:श् अथ चत्वारिंशदधिकत्रिशततमो ऽध्यायः
नृत्यादावङ्गकर्मनिरूपणं
अग्निर् उवाच
चेष्टाविशेषमप्यङ्गप्रत्यङ्गे कर्म चानयोः ।अप्_340.001अब्।
शरीरारम्भमिच्छन्ति प्रायः पूर्वो ऽवलाश्रयः

340.002

लीला विलासो विछित्तिर्विभ्रमं किलकिञ्चितं ।अप्_340.002अब्।
मोट्टायितं कुट्टमितं विव्वोको ललितन्तथा

340.003

विकृतं क्रीडितं केलिरिति द्वादशधैव सः ।अप्_340.003अब्।
लीलेष्टजनचेष्टानुकरणं संवृतक्षये

340.004

विशेषान् दर्शयन् किञ्चिद्विलासः सद्भिरिष्यते ।अप्_340.004अब्।
हसितक्रान्दितादीनां सङ्करः किलकिञ्चितं

340.005

विकारः कोपि विव्वोको ललितं सौकुमार्यतः ।अप्_340.005अब्।
शिरः पाणिरुरः पार्श्वङ्कटिरङ्घ्रिरिति क्रमात्

340.006

अङ्गानि भ्रूलतादीनि प्रत्यङ्गान्यभिजानते ।अप्_340.006अब्।
:न्
1 सङ्क्षिप्तकरपातौ चेति ज..
:प् 212
अङ्गप्रत्यङ्गयोः कर्म प्रयत्नजनितं विना

340.007

न प्रयोगः क्वचिन्मुख्यन्तिरश्चीनञ्च तत् क्वचित् ।अप्_340.007अब्।
आकम्पितं कम्पितञ्च(1) धूतं विधूतमेव च

340.008

परिवाहितमाधूतमवधूतमथाचितं ।अप्_340.008अब्।
निकुञ्चितं परावृत्तमुत्क्षिप्तञ्चाप्यधोगतम्

340.009

ललितञ्चेति विज्ञेयं त्रयोदशविधं शिरः ।अप्_340.009अब्।
भ्रूकर्म सप्तधा ज्ञेयं पातनं भ्रूकुटीमुखं

340.010

दृष्तिस्त्रिधा रमस्थायिसञ्चारिप्रतिबन्धना ।अप्_340.010अब्।
षट्त्रिंशद्भेदविधुरा रसजा तत्र चाष्टधा

340.011

नवधा तारकाकर्म भ्रमणञ्चलनादिकं ।अप्_340.011अब्।
षोढा च नासिका ज्ञेया निश्वासो नवधा मतः

340.012

षोटौष्ठकर्मकं पापं सप्तधा चिवुकक्रिया ।अप्_340.012अब्।
कलुषादिमुखं षोढा ग्रीवा नवविधा स्मृता

340.013

असंयुतः संयुतश् च भूम्ना हस्तः प्रमुच्यते ।अप्_340.013अब्।
पताकस्त्रिपाताकश् च तथा वै कर्तरीमुखः

340.014

अर्धचन्द्रोत्करालश् च शुकतुण्डस्तथैव च ।अप्_340.014अब्।
सुष्टिश् च शिखरश् चैव कपित्थः खेटकामुखः

340.015

सूच्यास्यः पद्मकोषो हि शिराः समृगशीर्षकाः ।अप्_340.015अब्।
कांमूलकालपद्मौ(2)* च चतुरभ्रमरौ तथा

340.016

हंसास्यहंसपक्षौ च सन्दंशमुकुलौ तथा ।अप्_340.016अब्।
:न्
1 आकल्पितं कल्पितञ्चेति ख..
2 काङ्गूलकालपद्माविति ञ..
कांमूलकालपद्मौ काङ्गूलकालपद्मौ एतत्पाठद्वयं न
समीचीनं
:प् 213
उर्णनाभस्ताम्रचूडश् चतुर्विंशतिरित्यमी

340.017

असंयुतकराः प्रोक्ताः संयुतास्तु त्रयोदश ।अप्_340.017अब्।
अञ्जलिश् च कपोतश् च कर्कटः स्वस्तिकस् तथा

340.018

कटको वर्धमानश्चाप्यसङ्गो निषधस् तथा ।अप्_340.018अब्।
दोलः पुष्पपुटश् चैव तथा मकर एव च

340.019

गजदन्तो वहिस्तम्भो वर्धमानो ऽपरे कराः ।अप्_340.019अब्।
उरः पञ्चविधं स्यात्तु आभुग्ननर्तनादिकम्

340.020

उदरन्दुरतिक्षामं खण्डं पूर्णमिति त्रिधा ।अप्_340.020अब्।
पार्श्वयोः पञ्चकर्माणि जङ्घाकर्म च पञ्चधा ।अप्_340.020च्द्।
अनेकधा पादकर्म नृत्यादौ नाटके स्मृतम्

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc