अग्नि पुराण · अध्याय 339
:ए इत्य् आग्नेये महापुराणे अलङ्कारे शृङ्गारादिरसनिरूपणं
नामाष्टत्रिंशदधिकत्रिशततमो ऽध्यायः ॥
:न्
1 मुहुरिति ख..
:प् 210
% छप्तेर् {339}
:श् अथोनचत्वारिंशदधिकत्रिशततमो ऽध्यायः
रीतिनिरूपणं
अग्निरुचाच
वाग्विद्यासम्प्रतिज्ञाने रीतिः सापि चतुर्विधा ।अप्_339.001अब्।
पाञ्चाली गौडदेशीया वैदर्भी लाटजा तथा
उपचारयुता मृद्वी पाञ्चाली ह्रस्वविग्रहा ।अप्_339.002अब्।
अनवस्थितसन्दर्भा गौडीया दीर्घविग्रहा
उपचारैर् न बहुभिरुपचारैर् विवर्जिता ।अप्_339.003अब्।
नातिकोमलसन्दर्भा वैदर्भी मुक्तविग्रहा
लाटीया स्फुटसन्धर्भा नातिविस्फुरविग्रहा ।अप्_339.004अब्।
परित्यक्तापि भूयोभिरुपचारैर् उदाहृता
क्रियास्वविषमा वृत्तिर्भारत्यारभटी तथा ।अप्_339.005अब्।
कौशिकी सात्वती चेति सा चतुर्धा प्रतिष्ठिता
वाक्प्रधाना नरप्राया स्त्रीयुक्ता प्राकृतोक्तिता ।अप्_339.006अब्।
भरतेन प्रणीतत्वाद् भारती रीतिरुच्यते
चत्वार्यङ्गानि भारत्या वीथी प्रहसनन्तथा ।अप्_339.007अब्।
प्रस्तावना नाटकादेर्वीथ्यङ्गाश् च त्रयोदश
उद्घातकं तथैव स्याल्लपितं स्याद्द्वितीयकम् ।अप्_339.008अब्।
असत्प्रलापो वाक्श्रेणी(1) नालिका विपणन्तथा
व्याहारस्तिमतञ्चैव(2) छलावस्कन्दिते तथा ।अप्_339.009अब्।
:न्
1 वाग्वेणीति क.. , ञ.. , ट.. च
2 व्याहारस्त्रिगतञ्चैवेति ख..
:प् 211
गण्डो ऽथ मृदवश् चैव त्रयोदशमथाचितम्
तापसादेः प्रहसनं परिहासपरं वचः ।अप्_339.010अब्।
मायेन्द्रजालयुद्धादिबहुलारभटी स्मृता ।अप्_339.010च्द्।
मङ्क्षिप्तकारपातौ च(1) वस्तूत्थापनमेव च
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0