अग्नि पुराण · अध्याय 34
:ए इत्य् आदिमहापुराणे आग्नेये पवित्रारोहणे
श्रीधरनित्यपूजाकथनं नाम त्रयस्त्रिंशोध्यायः
% छप्तेर् {34}
:श् अथ चतुस्त्रिंशो ऽध्यायः
होमादिविधिः
अग्निर् उवाच
विशेदनेन मन्त्रेण यागस्थानञ्च भूषयेत् ।अप्_34.001अब्।
नमो ब्रह्मण्यदेवाय श्रीधरायाव्ययात्मने
:न्
1 ओं क्रीमिति ख, चिह्नितपुस्तकपाठः
:प् 99
ऋग्यजुःसामरूपाय शब्ददेहाय ।अप्_34.002अब्।
विलिख्य मण्डलं सायं यागद्रव्यादि चाहरेत्
प्रक्षालितकराङ्घ्रिः सन् विन्यस्यार्घ्यकरो नरः ।अप्_34.003अब्।
अर्घ्यादिभिस्तु शिरः प्रोक्ष्य द्वारदेशादिकं यथा
आरभेद् द्वारयागञ्च तोरणेशान् प्रपूजयेत् ।अप्_34.004अब्।
अश्वत्थोदुम्बरवटप्रक्षाः पूर्वादिगा नगाः
ऋगिन्द्रशोभनं प्रास्यां युजुर्यमसुभद्रकम् ।अप्_34.005अब्।
सामापश् च सुधन्वाख्यं सोमाथर्वसुहोत्रकम्
तोरणान्तः पताकाश् च कुमुदाद्या घटद्वयम् ।अप्_34.006अब्।
द्वारि द्वारि स्वनाम्नार्च्याः पूर्वे पूर्णश् च पुष्करः
आनन्दनन्दनौ दक्षे वीरसेनः सुषेणकः ।अप्_34.007अब्।
सम्भवप्रभवौ सौम्ये द्वारपांश् चैव पूजयेत्
अस्त्रजप्तपुष्पक्षेपाद्विघ्नानुत्सार्य संविशेत् ।अप्_34.008अब्।
भूतशुद्धिं विधायाथ विन्यस्य कृतमुद्रवः
फट्कारान्तां शिखां जप्त्वा सर्षपान् दिक्षु निक्षिपेत् ।अप्_34.009अब्।
वासुदेवेन गोमूत्रं सङ्कर्षणेन गोमयम्
प्रद्युम्नेन पयस्तज्जात् दधि नारायणाद् घृतम् ।अप्_34.010अब्।
एकद्वित्र्यादिवाराणि घृताद्वै भागतोधिकम्
घृतपात्रे तदेकत्र पञ्चगव्यमुदाहृतम् ।अप्_34.011अब्।
मण्डपप्रोक्षणायैकञ्चापरम्प्राशनाय च
आनीय दशकुम्भेषु इन्द्राद्यान् लोकपान् यजेत् ।अप्_34.012अब्।
पूज्याज्ञां श्रावयेत्तांश् च स्थातव्यं चाज्ञया हरेः
यागद्रव्यादि संरक्ष्य विकिरान् विकिरेत्ततः ।अप्_34.013अब्।
मूलाष्टशतसञ्जप्तान् कुशकूर्चान् हरेश् च तान्
ऐशान्यां दिशि तत्रस्थं स्थाप्यं कुम्भञ्च वर्धनीं ।अप्_34.014अब्।
:प् 100
कुम्भे साङ्गं हरिं प्रार्च्य वर्धन्यामस्त्रमर्चयेत्
प्रदक्षिणं यागगृहं वर्धन्याच्छिन्नधारया ।अप्_34.015अब्।
सिञ्चन्नयेत्ततः कुम्भं पूजयेच्च स्थिरासने
सपञ्चरत्नवस्त्राढ्यकुम्भे गन्धादिभिर्हरिम् ।अप्_34.016अब्।
वर्धन्यां हेमगर्भायां यजेदस्त्रञ्च वामतः
तत्समीपे वास्तुलक्ष्मीं भूविनायकमर्चयेत् ।अप्_34.017अब्।
स्रपनं कल्पयेद्विष्णोः सङ्क्रान्त्यादौ तथैव च
पूर्णकुम्भान् नव स्थाप्य नवकोणेषु निर्ब्रणान्
पूर्वादिकलसेग्न्यादौ पञ्चामृतजलादिकम् ।अप्_34.019अब्।
दधि क्षीरं मधूष्णीदं पाद्यं स्याच्चतुरङ्गकम्
पद्मश्यामाकदूर्वाश् च विष्णुपत्नी च पाद्यकम् ।अप्_34.020अब्।
तथाष्टाङ्गार्घ्यमाख्यातं यवगन्धफलाक्षतम्
कुशाः सिद्धार्थपुष्पानि तिला द्रव्याणि चार्हणम्(1) ।अप्_34.021अब्।
लवङ्गकक्कोलयुते दद्यादाचमनीयकम्
स्नापयेन्मूलमन्त्रेण देवं पञ्चामृतैर् अपि ।अप्_34.022अब्।
शुद्धोदं मध्यकुम्भेन देवमूर्ध्नि विनिःक्षिपेत्
कलशान्निःसृतं तोयं कूर्चाग्रं(2) संस्पृशेन्नरः ।अप्_34.023अब्।
शुद्धोदकेन पाद्यञ्च अर्घ्यमाचमनन्ददेत्
परिमृज्य पटेनाङ्गं सवस्त्रं मण्डलं नयेत् ।अप्_34.024अब्।
तत्राभ्यर्च्याचरेद्धोमं कुण्डादौ प्राणसंयमी
प्रक्षाल्य हस्तौ रेखाश् च तिस्रः पूर्वाग्रगामिनीः ।अप्_34.025अब्।
:न्
1 चार्हणा इति ख, ङ, चिह्नितपुस्तकद्वयपाठः
2 दूर्वाग्रमिति ङ, चिह्नितपुस्तकपाठः
:प् 101
दक्षिणादुत्तराश् च तिस्रश् चैवओत्तराग्रगाः
अर्घ्योदकेन सम्प्रोक्ष्य योनिमुद्राम्प्रदर्शयेत् ।अप्_34.026अब्।
ध्यात्वाग्निरूपञ्चाग्निन्तु योन्यां कुण्डे क्षिपेन्नरः
पात्राण्यासादयेत् पश्चाद्दर्भश्रुक्श्रुवकादिभिः ।अप्_34.027अब्।
बाहुमात्राः परिधय इध्मव्रश् चनमेव च
प्रणीता प्रोक्षणीपात्रमाज्यस्थाली घृतादिकम् ।अप्_34.028अब्।
प्रस्थद्वयं तण्डुलानां युग्मं युग्ममधोमुखम्
प्रणीताप्रोक्षणीपात्रे न्यसेत् प्रागग्रगं कुशम् ।अप्_34.029अब्।
अद्भिः पूर्यप्रणीतान्तु ध्यात्वा देवं प्रपूज्य च
प्रणीतां स्थापयेदग्रे द्रव्याणाञ्चैव मध्यतः ।अप्_34.030अब्।
प्रोक्षणीमद्भिः सम्पूर्य प्रार्च्य दक्षे तु विन्यसेत्
चरुञ्च श्रपयेदग्नौ ब्रह्माणं दक्षिणे न्यसेत् ।अप्_34.031अब्।
कुशानास्तीर्य पूर्वादौ परिधीन् स्थापयेत्ततः
वैष्णवीकरणं कुर्याद् गर्भाधानादिना नरः ।अप्_34.032अब्।
गर्भाधानं पुंसवनं सीमन्तोन्नयनञ्जनिः
नामादिसमावर्तनान्तं जुहुयादष्ट चाहुतीः ।अप्_34.033अब्।
पूर्णाहुतीः प्रतिकर्म श्रुचा स्रुवसुयुक्तया
कुण्डमध्ये ऋतुमतीं लक्ष्मीं सञ्चिन्त्य होमयेत् ।अप्_34.034अब्।
कुण्डलक्ष्मीः समाख्याता प्रकृतिस्त्रिगुणात्मका
सा योनिः सर्वभूतानां विद्यामन्त्रगणस्य च ।अप्_34.035अब्।
विमुक्तेः कारणं वह्निः परमात्मा च मुक्तिदः
प्राच्यां शिरः समाख्यातं बाहू कोणे व्यवस्थितौ ।अप्_34.036अब्।
ईशानाग्नेयकोणे तु जङ्घे वायव्यनैरृते
उदरं कुण्डमित्युक्तं योनिर्योनिर्विधीयते ।अप्_34.037अब्।
गुणत्रयं मेखलाः स्युर्ध्यात्वैवं समिधो दश
:प् 102
पञ्चाधिकांस्तु जुहुयात् प्रणवान्मुष्टिमुद्रया(1) ।अप्_34.038अब्।
पुनराघारौ जुहुयाद्वाय्वग्न्यन्तं ततः श्रपेत्
ईशान्तं मूलमन्त्रेण आज्यभागौ तु होमयेत् ।अप्_34.039अब्।
उत्तरे द्वादशान्तेन दक्षिणे तेन मध्यतः
व्याहृत्या पद्ममध्यस्थं ध्यायेद्वह्निन्तु संस्कृतम् ।अप्_34.040अब्।
वैष्णवं सप्तजिह्वं च सूर्यकोटिसमप्रभम्
चन्द्रवक्त्रञ्च(2) सूर्याक्षं जुहुयाच्छतमष्ट च ।अप्_34.041अब्।
तदर्धञ्चाष्ट मूलेन अङ्गानाञ्च दशांशतः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0