भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 33

33.001

:ए इत्य् आदिमहापुराणे आग्नेये अष्टचत्वारिंशत्संस्कारकथनं
नाम द्वात्रिंशो ऽध्यायः
% छप्तेर् {33}
:श् अथ त्रयस्त्रिंशो ऽध्यायः
पवित्रारोहणविधानं
अग्निर् उवाच
पवित्रारोहणं वक्ष्ये वर्षपूजाकलं हरेः ।अप्_33.001अब्।
आषाढादौ कार्तिकान्ते प्रतिपद्वनदा तिथिः(1)

33.002

श्रिया गौर्या गणेशस्य सरस्वत्या गुहस्य च ।अप्_33.002अब्।
मार्तण्डमातृदुर्गाणां नागर्षिहरिमन्मथैः

33.003

शिवस्य ब्रह्मणस्तद्वद्द्वितीयादितिथेः क्रमात् ।अप्_33.003अब्।
यस्य देवस्य यो भक्तः पवित्रा तस्य सा तिथिः

33.004

आरोहणे तुल्यविधिः पृथक् मन्त्रादिकं यदि ।अप्_33.004अब्।
:न्
1 वर्धते तिथिरिति ख, चिह्नितपुस्तकपाठः
:प् 93
सौवर्णे राजतं ताम्रं नेत्रकार्पासिकादिकं

33.005

ब्राह्मण्या कर्तितं सूत्रं तदलाभे तु संस्कृतं ।अप्_33.005अब्।
त्रिगुणं त्रिगुणीकृत्य तेन कुर्यात् पवित्रकं

33.006

अष्तोत्तरशतादूर्ध्वं तदर्धं चोत्तमादिकं ।अप्_33.006अब्।
क्रियालोपाविघातार्थं यत्त्वयाभिहितं प्रभो

33.007

मया तत् क्रियते देव यथा यत्र पावित्रकं ।अप्_33.007अब्।
अविघ्नं तु भवेदत्र कुरु नाथ जयाव्यय

33.008

प्रार्थ्य तन्मण्डलायादौ गायत्र्या बन्धयेन्नरः ।अप्_33.008अब्।
ओं नारायणाय विद्महे वासुदेवाय धीमहि

33.009

तन्नो विष्णुः प्रचोदयात् देवदेवानुरूपतः ।अप्_33.009अब्।
जानूरुनाभिनामान्तं प्रतिमासु पवित्रकं

33.010

पादान्ता वनमाला स्यादष्टोत्त्रसहस्रतः(1) ।अप्_33.010अब्।
माला तु कल्पसाध्यं वा द्विगुणं षोडशाङ्गुलात्

33.011

कर्णिका केशरं पत्रं मन्त्राद्यं(2) मण्डलान्तकं ।अप्_33.011अब्।
मण्डलाङ्गुलमात्रैकचक्राब्जाद्यौ(3) पवित्रकं

33.012

स्थण्डिले ऽङ्गुलमानेन आत्मनः सप्तविंशतिः ।अप्_33.012अब्।
आचार्याणां च सूत्राणि पितृमात्रादिपुस्तके

33.013

नाभ्यन्तं द्वादशग्रन्थिं तथा गन्धपवित्रके ।अप्_33.013अब्।
द्व्यङ्गुलात् कल्पनादौ द्विर्माला चाष्टोत्तरं शतं

33.014

अथवार्कचतुर्विंशषड्त्रिंशन्मालिका द्विजः ।अप्_33.014अब्।
अनामामध्यमाङ्गुष्ठैर् मन्दाद्यैः मालिकार्थिभिः (4)

33.015

:न्
1 पादान्तरेण माला स्यादष्टोत्तरसहस्रशः इति ग,
चिह्नितपुस्तकपाठः
2 गदाद्यमिति घ, चिह्नितपुस्तकपाठः
3 चक्राङ्गदौ पवित्रके इति घ, चिह्नितपुतकपाठः
4 मन्दादौ इति ख, ग, चिह्नितपुस्तकद्वयपाठः मन्द्राद्यैर् इति घ,
चिह्नितपुस्तकपाठः
:प् 94
कनिष्टादौ द्वादश वा ग्रन्थयः स्युः पवित्रके ।अप्_33.015अब्।
रवेः कुम्भहुताशादेः सम्भवे विष्णुवन्मतम्

33.016

पीठस्य पीठमानं स्यान्मेखलान्ते च कुण्डकं ।अप्_33.016अब्।
यथाशक्ति सूत्रग्रन्थिपरिचारेथ वैष्णवे

33.017

सूत्राणि वा सप्तदश सूत्रेण त्रिविभक्तके(1) ।अप्_33.017अब्।
रोचनागुरुकर्पूरहरिद्राकुङ्कुमादिभिः

33.018

रञ्जयेच्चन्दनाद्यैर् वा स्नानसन्ध्यादिकृन्नरः ।अप्_33.018अब्।
एकादश्यां यागगृहे भगवन्तं हरिं जयेत्

33.019

समस्तपरिवाराय बलिं पीठे समर्चयेत् ।अप्_33.019अब्।
क्ष्यौं क्षेत्रपालाय द्वारान्ते द्वारोपरि तथा श्रियं

33.020

धात्रे दक्षे विधात्रे च गङ्गाञ्च यमुनां तथा ।अप्_33.020अब्।
शङ्खपद्मनिधी पूज्य मध्ये वास्त्वपसारणं
सारङ्गायेति भूतानां भूतशुद्धिं स्थितश् चरेत्

33.021

ओं ह्रूं हः फट् ह्रूं(2) गन्धतन्मात्रं संहरामि
नमः ॥
ओं ह्रूं हः फट् ह्रूं(3) रसतन्मात्रं संहरामि
नमः
ओं ह्रूं हः फट् ह्रूं(4) रूपतन्मात्रं संहरामि
नमः ॥
ओं ह्रूं हः फट् ह्रूं(5) स्पर्शतन्मात्रं संहरामि
नमः
:न्
1 त्रिसूत्राणि च भद्रके इति घ, चिह्नितपुस्तकपाठः
2 ओं हूं हः फट् हूमिति ग, चिह्नितपुस्तकपाठः ओं ह्रां
हः फट् ह्रूमिति ङ, चिह्नितपुस्तकपाठः
2 ओं ह्रीं हः फट् ह्रूनिति ङ, चिह्नितपुस्तकपाठः
3 ओं ह्रां हः ह्रूं इति ग, चिह्नितपुस्तकपाठः ओं ह्रां
हः फट् ह्रीमिति ङ, चिह्नितपुस्तकपाठः
4 ओं ह्रां हः फट् इति ग, चिह्नितपुस्तकपाठः
:प् 95
ओं ह्रूं हः फट् ह्रूं(1) शब्दतन्मात्रं संहरामि
नमः ॥
पञ्चोद्घातैर् गन्धतन्मात्ररूपं भूमिमण्डलं ।अप्_33.021अब्।
चतुरस्रञ्च पीतञ्च कठिनं वज्रलाञ्छितम्

33.022

इन्द्राधिदैवतं पादयुग्ममध्यगतं स्मरेत् ।अप्_33.022अब्।
शुद्धञ्च रसतन्मात्रं प्रविलिप्याथ संहरेत्
रसमात्ररूपमात्रे क्रमेणानेन पूजकः

33.023

ओं ह्रीं हः फट् ह्रूं(2) रसतन्मात्रं संहरामि
नमः
ओं ह्रूं हः फट्(3) रूपतन्मात्रं संहरामि नमः
ओं ह्रीं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि
नमः
ओं ह्रीं हः फट् ह्रूं(4) शब्दतन्मात्रं संहरामि
नमः
जानुनाभिमध्यगतं(5) श्वेतं वै पद्मलाञ्छितं ।अप्_33.023अब्।
शुक्लवर्णं चार्धचन्द्रं ध्यायेद्वरुणदैवतं

33.024

चतुर्भिश् च तदुद्घातैः शुद्धं तद्रसमात्रकं ।अप्_33.024अब्।
संहरेद्रूपतन्मात्रै रूपमात्रे च संहरेत्

33.025

ओं ह्रूं हः फट् ह्रूं रूपतन्मात्रं संहरामि
नमः
ओं ह्रूं हः फट् ह्रूं स्पर्शतन्मात्रं संहरामि
नमः
ओं ह्रूं हः फट् ह्रूं शब्दतन्मात्रं संहरामि
नमः
इति त्रिभिस्तदुद्घातैस्त्रिकोणं वह्निमण्डलम् ।अप्_33.025अब्।
नाभिकण्ठमध्यगतं रक्तं स्वस्तिकलाञ्छितं

33.026

ध्यात्वानलाधिदैवन्तच्छुद्धं स्पर्शे लयं नयत् ।अप्_33.026अब्।
:न्
1 ओं ह्रां हः फट् हमिति ग, चिह्नितपुस्तकपाठ्ः
2 ओं ह्रीं फट् हमिति ग, चिह्नितपुस्तकपाठः ओं ह्रूं हः
फट् हूमिति ङ, चिह्नितपुस्तकपाठः
3 ओं ह्रीं हः फट् ह्रूं इति ङ, चिह्नितपुस्तकपाठः
4 ओं ह्रं हः फट् हूमिति ङ, चिह्नितपुस्तकपाठः
5 पद्मासनमध्यगतमिति ङ, चिह्नितपुस्तकपाठः
:प् 96
ओं ह्रौं हः फट् ह्रूं(1) स्पर्शतन्मात्रं संहरामि
नमः
ओं ह्रौं हः फट् ह्रूं(2) शब्दतन्मात्रं संहरामि
नमः ॥
कण्ठनासामध्यगतं वृत्तं वै वायुमण्डलम्

33.027

द्विरुद्घातैर् धूम्रवर्णं ध्यायेच्छुद्धेन्दुलाञ्छितम् ।अप्_33.027अब्।
स्पर्शमात्रं शब्दमात्रैः संहरेद्ध्यानयोगतः

33.028

ओं ह्रौं हः फट् ह्रूं शब्दतन्मात्रं संहरामि
नमः
एकोद्घातेन चाकाशं शुद्धस्फटिकसन्निभम् ।अप्_33.028अब्।
नासापुटशिखान्तस्थमाकाशमुपसंहरेत्

33.029

शोषणाद्यैर् देहशुद्धिं कुर्यादेवम् क्रमात्ततः ।अप्_33.029अब्।
शुष्कं कलेवरं ध्यायेत् पादाद्यञ्च शिखान्तकम्

33.030

यं वीजेन वं वीजेन ज्वालामालासमायुतम्(3) ।अप्_33.030अब्।
देहं रमित्यनेनैव ब्रह्मरन्ध्राद्विनिर्गतम्

33.031

विन्दुन्ध्यात्वा चामृतस्य तेन भस्मकलेवरम् ।अप्_33.031अब्।
सम्प्लावयेल्लमित्यस्मात् देहं सम्पाद्य दिव्यकम्

33.032

न्यासं कृत्वा करे देहे मानसं यागमाचरेत् ।अप्_33.032अब्।
विष्णुं साङ्गं हृदि पद्मे मानसैः कुसुमादिभिः

33.033

मूलमन्त्रेण देवेशम्प्रार्चयेद्भुक्तिमुक्तिदम् ।अप्_33.033अब्।
स्वागतं देवदेवेश सन्निधौ भव केशव

33.034

गृहाण मानसीं पूजां यथार्थं(4) परिभाविताम् ।अप्_33.034अब्।
आधारशक्तिः कूर्माथ पूज्योनन्तो मही ततः

33.035

मध्येग्न्यादौ च धर्माद्या अधर्मादीन्द्रमुख्यगम्(4) ।अप्_33.035अब्।
:न्
1 ओं क्षौं हः फट् क्रूमिति ङ, चिह्नितपुस्तकपाठः
2 ओं क्षौं हः फट् क्रूमिति ङ, चिह्नितपुस्तकपाठः
3 ज्वालामालासमप्रभमिति ङ, चिह्नितपुस्तकपाठः
4 यथास्वमिति ख, चिह्नितपुस्तकपाठः
5 धर्मादीनिन्द्रादौ विपरीतकानिति ङ, चिह्नितपुस्तकपाठः
:प् 97
सत्त्वादि मध्ये पद्मञ्च मायाविद्याख्यतत्त्वके

33.036

कालतत्त्वञ्च सूर्यादिमण्डलं पक्षिराजकः ।अप्_33.036अब्।
मध्ये ततश् च वायव्यादीशान्ता गुरुपङ्क्तिकाः

33.037

गणः सरस्वती पूज्या(1) नारदो नलकूवरः ।अप्_33.037अब्।
गुरुर्गुरुपादुका च परो गुरुश् च पादुका

33.038

पूर्वसिद्धाः परसिद्धाः केशरेषु च शक्तयः ।अप्_33.038अब्।
लक्ष्मीः सरस्वती प्रीतिः कीर्तिः शान्तिश् च कान्तिका

33.039

पुष्टिस्तुष्टिर्महेन्द्राद्या मध्ये वाचाहितो हरिः ।अप्_33.039अब्।
धृतिः श्रीरतिकान्त्याद्या मूलेन स्थापितो ऽच्युतः

33.040

ओं अभिमुखो भवेति प्रार्थ्य सन्निहितो भव ।अप्_33.040अब्।
विन्यस्यार्घ्यादिकं दत्वा गन्धाद्यैर् मूलतो यजेत्

33.041

ओं भीषय भीषय हृत् शिरस्त्रासय वै पुनः ।अप्_33.041अब्।
मर्दय मर्दय शिखा अग्न्यादौ शस्त्रतोस्त्रकं

33.042

रक्ष रक्ष प्रध्वंसय प्रध्वंसय कवचाय(2) नमस्ततः ।अप्_33.042अब्।
ओं ह्रूं(3) फट् अस्त्राय नमो मूलवीजेन चाङ्गकं

33.043

पूर्वदक्षाप्यसौम्येषु मूर्त्यावरणमर्चयेत् ।अप्_33.043अब्।
वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः

33.044

अग्न्यादौ श्रीधृतिरतिकान्तयो मूर्तयो हरेः ।अप्_33.044अब्।
शङ्खचक्रगदापद्ममग्न्यादौ पूर्वकादिकं

33.045

शार्ङ्गञ्च मुषलं खड्गं वनमालाञ्च तद्वहिः ।अप्_33.045अब्।
इन्द्राद्याश् च तयानन्तो नैरृत्यां वरुणस्ततः

33.046

ब्रह्मेन्द्रेशानयोर्मध्ये अस्त्रावरणकं वहिः ।अप्_33.046अब्।
ऐरावतस्ततश्छागो महिषो वानरो झषः

33.047

:न्
1 गणश् च तासु पूज्यो ऽथ इति ङ, चिह्नितपुस्तकपाठः
2 रक्ष रक्ष प्रध्वंसय कवचायेति ङ,
चिह्नितपुस्तकपाठः
3 ओं ह्रीमिति ख, चिह्नितपुस्तकपाठः
:प् 98
मृगः शशो ऽथ वृषभः कूर्मो हंसस्ततो वहिः ।अप्_33.047अब्।
पृश्निगर्भः कुमुदाद्या द्वारपाला द्वयं द्वयं

33.048

पूर्वाद्युत्तरद्वारान्तं हरिं नत्वा बलिं वहिः ।अप्_33.048अब्।
विष्णुपार्षदेभ्यो नमो बलिपीठे बलिं ददेत्

33.049

विश्वाय विश्वक्सेनात्मने ईशानके यजेत् ।अप्_33.049अब्।
देवस्य दक्षिणे हस्ते रक्षासूत्रञ्च बन्धयेत्

33.050

संवत्सरकृताचार्याः सम्पूर्णफलदायिने ।अप्_33.050अब्।
पवित्रारोहणायेदं कौतुकं धारय ओं नमः

33.051

उपवासादिनियमं कुर्याद्वै देवसन्निधौ ।अप्_33.051अब्।
उपवासादिनियतो देवं सन्तोषयाम्यहम्

33.052

कामक्रोधादयः सर्वे मा मे तिष्ठन्तु सर्वथा ।अप्_33.052अब्।
अद्यप्रभृति देवेश यावद्वैशेषिकं दिनम्

33.053

यजमानो ह्य् अशक्तश्चेत् कुर्यान्नक्तादिकं व्रती ।अप्_33.053अब्।
हुत्वा विसर्जयेत् स्तुत्वा श्रीकरन्नित्यपूजनम्
ओं ह्रीं(1) श्रीं श्रीधराय त्रैलोक्यमोहनाय नमः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc