भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 35

35.001

:ए इत्य् आदिमहापुराणे आग्नेये अग्निकार्यकथनं नाम चतुर्त्रिंशो
ऽध्यायः ॥
% छप्तेर् {35}
:श् अथ पञ्चत्रिंशो ऽध्यायः
पवित्राधिवासनादिविधिः
अग्निर् उवाच
सम्पाताहुतिनासिच्य(2) पवित्राण्यधिवासयेत् ।अप्_35.001अब्।
नृसिंहमन्त्रजप्तानि गुप्तान्यस्त्रेण तानि तु

35.002

वस्त्रसंवेष्टितान्येव पात्रस्थान्यभिमन्त्रयेत् ।अप्_35.002अब्।
विल्वाद्यद्भिः प्रोक्षितानि मन्त्रेण चैकधा द्विधा(4)

35.003

कुम्भपार्श्वे तु संस्थाप्य रक्षां विज्ञाप्य देशिकः ।अप्_35.003अब्।
दन्तकाष्ठञ्चामरकं पूर्वे सङ्कर्षणेन तु

35.004

प्रद्युम्नेन भस्मतिलान् दक्षे गोमयमृत्तिकां ।अप्_35.004अब्।
:न्
1 स्वस्तिमुद्रयेति ङ, चिह्नितपुस्तकपाठः
2 पञ्चवक्त्रंश्चेति ङ, चिह्नितपुस्तकपाठः
3 सङ्घाताहुतिनासिच्येति ङ, चिह्नितपुस्तकपाठः
4 मन्त्राणां चैकधा द्विधेति ख, चिहिनितपुस्तकपाठः
:प् 103
वारुणेन चानिरुद्धेन सौम्ये नारायणेन च

35.005

दर्भोदकञ्चाथ हृदा अग्नौ कुङ्कुमरोचनं ।अप्_35.005अब्।
ऐशान्यां शिरसा धूपं शिखया नैरृतेप्यथ

35.006

मूलपुष्पाणि दिव्यानि कवचेनाथ वायवे ।अप्_35.006अब्।
चन्दनाम्ब्वक्षतदधिदूर्वाश् च पुटिकास्थिताः

35.007

गृहं त्रिसूत्रेणावेष्ट्य पुनः सिद्धार्थकान् क्षिपेत् ।अप्_35.007अब्।
दद्यात्पूजाक्रमेणाथ स्वैः स्वैर् गन्धपवित्रकं

35.008

मन्त्रैर् वै द्वारपादिभ्यो विष्णुकुम्भे त्वनेन च ।अप्_35.008अब्।
विष्णुतेजोभवं रम्यं सर्वपातकनाशनं

35.009

सर्वकामप्रदं देवं तवाङ्गे धारयाम्यहं ।अप्_35.009अब्।
सम्पूज्य धूपदीपाद्यैर् व्रजेद्द्वारसमीपतः

35.010

गन्धपुष्पाक्षतोपेतं पवित्रञ्चाखिलेर्पयेत् (1) ।अप्_35.010अब्।
पवित्रं वैष्णवं तेजो महापातकनाशनं

35.011

धर्मकामार्थसिद्ध्यर्थं स्वकेङ्गे धारयाम्यहं ।अप्_35.011अब्।
आसने परिवारादौ गुरौ दद्यात् पवित्रकं

35.012

गन्धादिभिः समभ्यर्च्य गन्धपुष्पाक्षतादिमत् ।अप्_35.012अब्।
विष्णुतेजोभवेत्यादिमूलेन हरयेर्पयेत्

35.013

वह्निस्थाय ततो दत्वा देवं सम्प्रार्थयेत्ततः ।अप्_35.013अब्।
क्षीरोदधिमहानागशय्यावस्थितविग्रहः

35.014

प्रातस्त्वां पूजयिष्यामि सन्निधौ भव केशव ।अप्_35.014अब्।
इन्द्रादिभस्ततो दत्वा विष्णुपार्षदके बलिं

35.015

ततो देवाग्रतः कुम्भं वासोयुगसमन्वितं ।अप्_35.015अब्।
रोचनाचन्द्रकाश्मीरगन्धाद्युदकसंयुतं

35.016

गन्धपुष्पादिनाभूष्य मूलमन्त्रेण पूजयेत् ।अप्_35.016अब्।
:न्
1 पवित्रं पार्श्वतो नयेदिति ङ, चिह्नितपुस्तकपाठः
:प् 104
मण्डपाद्वहिरागत्य विलिप्ते मण्डलत्रये

35.017

पञ्चगव्यञ्चरुन्दन्तकाष्ठञ्चैव क्रमाद्भवेत् ।अप्_35.017अब्।
पुराणश्रवणं स्तोत्रं पठन् जागरणं निशि

35.018

परप्रेषकबालानां स्त्रीणां भोगभुजां तथा ।अप्_35.018अब्।
सद्योधिवासनं कुर्याद्विना गन्धपवित्रकं

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc