भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 338

338.001

:ए इत्य् आग्नेये महापुराणे अलङ्कारे नाटकनिरूपणं नाम
सप्तत्रिंशदधिकत्रिशततमो ऽध्यायः
% छप्तेर् {338}
:श् अथाष्टत्रिंशदधिकत्रिशततमो ऽध्यायः
शृङ्गारादिरसनिरूपणम्
अग्निर् उवाच
अक्षरं परमं ब्रह्म सनातनमजं विभुं ।अप्_338.001अब्।
वेदान्तेषु वदन्त्येकं चैतन्यं ज्योतिरीश्वरम्

338.002

आनन्दः सहजस्तस्य व्यज्यते स कदाचन ।अप्_338.002अब्।
व्यक्तिः सा तस्य चैतन्यचमत्काररसाह्वया

338.003

:प् 205
आद्यस्तस्य विकारो यः सो ऽहङ्कार इति स्मृतः ।अप्_338.003अब्।
ततो ऽभिमानस्तत्रेदं समाप्तं भुवनत्रयं

338.004

अभिमानाद्रतिः सा च परिपोषमुपेयुषी ।अप्_338.004अब्।
व्यभिचार्यादिसामान्यात् शृङ्गार इति गीयते

338.005

तद्भेदाः काममितरे हास्याद्या अप्यनेकशः ।अप्_338.005अब्।
स्वस्वस्थादिविशेषोत्थपरिघोषस्वलक्षणाः

338.006

सत्त्वादिगुणसन्तानाज्जायन्ते परमात्मनः ।अप्_338.006अब्।
रागाद्भवति शृङ्गारो रौद्रस्तैक्ष्णात् प्रजायते

338.007

वीरो ऽवष्टम्भजः सङ्कोचभूर्वीभत्स इष्यते ।अप्_338.007अब्।
शृङ्गाराज्ज्यायते हासो रौद्रात्तु करुणो रसः

338.008

वीराच्चाद्भुतनिष्पत्तिः स्याद्वीभत्साद्भयानकः ।अप्_338.008अब्।
शृङ्गारहास्यकरुणा रौद्रवीरभयानकाः

338.009

वीभत्साद्भुतशान्ताख्याः स्वभावाच्चतुरो रसाः ।अप्_338.009अब्।
लक्ष्मीरिव विना त्यागान्न वाणी भाति नीरसा

338.010

अपारे काव्यसंसारे कविरेव प्रजापतिः ।अप्_338.010अब्।
यथा वै रोचते विश्वं तथेदं परिवर्तते

338.011

शृङ्गारी चेत् कविः काव्ये जातं रसमयं जगत् ।अप्_338.011अब्।
स चेत् कविर्वीतरागो नीरसं व्यक्तमेव तत्

338.012

न भावहीनो ऽस्ति रसो न भावो रसवर्जितः ।अप्_338.012अब्।
भावयन्ति रसानेभिर्भाव्यन्ते च रसा इति

338.013

स्थायिनो ऽष्टौ रतिमुखाः स्तम्भाद्या व्यभिचारिणः ।अप्_338.013अब्।
मनो ऽनुकूले ऽनुभवः सुखस्य रतिरिष्यते

338.014

हर्षादिभिश् च मनसो विकाशो हास उच्यते ।अप्_338.014अब्।
:प् 206
चित्रादिदर्शनाच्चेतोवैक्लव्यं ब्रुवते भयम्

338.015

जुगुप्सा च पदार्थानां निन्दा दौर्भाग्यवाहिनां ।अप्_338.015अब्।
विस्मयो ऽतिशयेनार्थदर्शनाच्चित्तविस्तृतिः

338.016

अष्टौ स्तम्भादयः सत्त्वाद्रजसस्तमसः परम् ।अप्_338.016अब्।
स्तम्भश्चेष्टाप्रतीघातो भयरागाद्युपाहितः(1)

338.017

श्रमरागाद्युपेतान्तःक्षोभजन्म वपुर्जलं ।अप्_338.017अब्।
स्वेदो हर्षादिभिर्देहोच्छासो ऽन्तःपुलकोद्गमः

338.018

हर्षादिजन्मवाक्सङ्गः स्वरभेदो भयादिभिः ।अप्_338.018अब्।
मनोवैक्लव्यमिच्छन्ति शोकमिष्टक्षयादिभिः

338.019

क्रोधस्तैक्ष्णप्रबोधश् च प्रतिकूलानुकारिणि ।अप्_338.019अब्।
पुरुषार्थसमाप्त्यार्थो यः स उत्साह उच्यते

338.020

चित्तक्षोभभवोत्तम्भो वेपथुः परिकीर्तितः ।अप्_338.020अब्।
वैवर्ण्यञ्च विषादादिजन्मा कान्तिविपर्ययः

338.021

दुःखानन्दादिजन्नेत्रजलमश्रु च विश्रुतम् ।अप्_338.021अब्।
इन्द्रयाणामस्तमयः प्रलयो लङ्घनादिभिः

338.022

वैराग्यादिर्मनःखेदो निर्वेद इति कथ्यते ।अप्_338.022अब्।
मनःपीडादिजन्मा च सादो ग्लानिः शरीरगा

338.023

शङ्कानिष्टागमोत्प्रेक्षा स्यादसूया च मत्सरः ।अप्_338.023अब्।
मदिराद्युपयोगोत्थं मनःसंमोहनं मदः

338.024

क्रियातिशयजन्मान्तःशरीरोत्थक्लमः श्रमः ।अप्_338.024अब्।
शृङ्गारादिक्रियाद्वेषश्चित्तस्यालस्यमुच्यते

338.025

:न्
1 भयरागाद्युपस्थित इति ख..
:प् 207
दैन्यं सत्त्वादपभ्रंशश्चिन्तार्थपरिभावनं ।अप्_338.025अब्।
इतिकर्तव्यतोपायाद्रशनं मोह उच्यते

338.026

स्मृतिः स्यादनुभूतस्य वस्तुनः प्रतिविम्बनं ।अप्_338.026अब्।
मतिरर्थपरिच्छेदस्तत्त्वज्ञानोपनायितः

338.027

व्रीडानुरागादिभवः सङ्कोचः कोपि चेतसः ।अप्_338.027अब्।
भवेच्चपलातास्थैर्यं हर्षश्चित्तप्रसन्नता

338.028

आवेशश् च प्रतीकारः शयो वैधुर्यमात्मनः ।अप्_338.028अब्।
कर्तव्ये प्रतिभाभ्रंशो जडतेत्यभिधीयते

338.029

इष्टप्राप्तेरूपचितः सम्पदाभ्युदयो धृतिः ।अप्_338.029अब्।
गर्वाः परेष्ववज्ञानमात्मन्युत्कर्षभावना

338.030

भवेद्विषादो दैवादेर्विघातो ऽभीष्टवस्तुनि ।अप्_338.030अब्।
औत्सुक्यमीप्सिताप्राप्तेर्वाञ्छया तरला स्थितिः

338.031

चित्तेन्द्रियाणां स्तैमित्यमपस्मारो ऽचला स्थितिः ।अप्_338.031अब्।
युद्धे बाधादिभीस्त्रासो वीप्सा चित्तचमत्कृतिः

338.032

क्रोधस्याप्रशमो ऽमर्षः प्रबोधश्चेतनोदयः ।अप्_338.032अब्।
अवहित्थं भवेद्गुप्तिरिङ्गिताकारगोचरा

338.033

रोषतो गुरुवाग्दण्डपारुष्यं विदुरुग्रतां ।अप्_338.033अब्।
ऊहो वितर्कःस्याद्व्याधिर्मनोवपुरवग्रहः

338.034

अनिबद्धप्रलापादिरुन्मादो मदनादिभिः ।अप्_338.034अब्।
तत्त्वज्ञानादिना चेतःकषायो परमः शमः

338.035

कविभिर्योजनीया वै भावाः काव्यादिके रसाः ।अप्_338.035अब्।
विभाव्यते हि रत्यादिर्यत्र येन विभाव्यते

338.036

विभावो नाम सद्वेधालम्बनोद्दीपनात्मकः ।अप्_338.036अब्।
:प् 208
रत्यादिभाववर्गो ऽयं यमाजीव्योपजायते

338.037

आलम्बनविभावो ऽसौ नायकादिभवस् तथा ।अप्_338.037अब्।
धीरोदात्तो धीरोद्धतः स्याद्धीरललितस् तथा

338.038

धीरप्रशान्त इत्य् एवं चतुर्धा नायकः स्मृतः ।अप्_338.038अब्।
अनुकूलो दक्षिणश् च शठो धृष्टः प्रवर्तितः

338.039

पीठमर्दो विटश् चैव विदूषक इति त्रयः ।अप्_338.039अब्।
शृङ्गारे नर्मसचिवा नायकस्यानुनायकाः

338.040

पीठमर्दः सम्बलकः श्रीमांस्तद्वेशजो विटः ।अप्_338.040अब्।
विदूषको वैहसिकस्त्वष्टनायकनायिकाः

338.041

स्वकीया परकीया च पुनर्भूरिति कौशिकाः ।अप्_338.041अब्।
सामान्या न पुनर्भूरिरित्याद्या बहुभेदतः

338.042

उद्दिपनविभावास्ते संस्कारैर् विविधैः स्थितैः ।अप्_338.042अब्।
आलम्बनविभावेषु भावानुद्वीपयन्ति ये

338.043

चतुःषष्टिकला द्वेधा कर्माद्यैर् गीतिकादिभिः ।अप्_338.043अब्।
कुहकं स्मृतिरप्येषां प्रायो हासोपहारकः

338.044

आलम्बनविभावस्य भावैर् उद्बुद्धसंस्कृतैः ।अप्_338.044अब्।
मनोवाग्बुद्धिवपुषां स्मृतीछाद्वेषयत्नतः

338.045

आरम्भ एव विदुषामनुभाव इति स्मृतः ।अप्_338.045अब्।
स चानुभूयते चात्र भवत्युत निरुच्यते

338.046

मनोव्यापारभूयिष्ठो मन आरम्भ उच्यते ।अप्_338.046अब्।
द्विविधः पौरुषस्त्रैण ईदृशो ऽपि प्रसिध्यति

338.047

शोभा विलासो माधुर्यं स्थैर्यं गाम्भीर्यमेव च ।अप्_338.047अब्।
ललितञ्च तथौदार्यन्तेजो ऽष्टाविति पौरुषाः

338.048

:प् 209
नीचनिन्दोत्तमस्पर्धा शौर्यं दाक्षादिकारणं ।अप्_338.048अब्।
मनोधर्मे भवेच्छोभा शोभते भवनं यथा

338.049

भावो हावश् च हेला च शोभा कान्तिस्तथैव च ।अप्_338.049अब्।
दीप्तिर्माधुर्यशौर्ये च प्रागल्भ्यं स्यादुदारता

338.050

स्थैर्यं गम्भीरता स्त्रीणां विभावा द्वादशेरिताः ।अप्_338.050अब्।
भावो विलासो हावःस्याद्भावः किञ्चिच्च हर्षजः

338.051

वाचो युक्तिर्भवेद्वागारम्भो द्वादश एव सः ।अप्_338.051अब्।
तत्राभाषणमालापः प्रलापो वचनं वहु(1)

338.052

विलापो दुःखवचनमनुलापो ऽसकृद्वचः ।अप्_338.052अब्।
संलाप उक्तप्रत्युक्तमपलापो ऽन्यथावचः

338.053

वार्ताप्रयाणं सन्देशो निर्देशः प्रतिपादनम् ।अप्_338.053अब्।
तत्त्वदेशो ऽतिदेशो ऽयमपदेशो ऽन्यवर्णनम्

338.054

उपदेशश् च शिक्षावाक् व्याजोक्तिर्व्यपदेशकः ।अप्_338.054अब्।
बोधाय एष व्यापारःसुबुद्ध्यारम्भ इष्यते ।अप्_338.054च्द्।
तस्य भेदास्त्रयस्ते च रीतिवृत्तिप्रवृत्तयः

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc