भाषा

ENहिગુ
ग्रंथ पाठ

अग्नि पुराण · अध्याय 337

337.001

:ए इत्य् आग्नेये महापुराणे अलङ्कारे काव्यादिलक्षणं नाम
षट्त्रिंशदधिकत्रिशततमो ऽध्यायः
:न्
1 जुष्टमिति ज.. , ट.. च
:प् 202
% छप्तेर् {337}
:श् अथ सप्तत्रिंशदधिकत्रिशततमो ऽध्यायः
नाटकनिरूपणम्
अग्निर् उवाच
नाटकं सप्रकरणं डिम ईहामृगो ऽपि वा ।अप्_337.001अब्।
ज्ञेयः समवकारश् च भवेत् प्रहसनन्तथा

337.002

व्यायोगभाणवीथ्यङ्कत्रोटकान्यथ नाटिका ।अप्_337.002अब्।
सट्टकं शिल्पकः कर्णा एको दुर्मल्लिका तथा

337.003

प्रस्थानं भाणिका भाणी गोष्ठी हल्लीशकानि च ।अप्_337.003अब्।
काव्यं श्रीगदितं नाट्यरासकं रासकं तथा

337.004

उल्लाप्यकं प्रेङ्क्षणञ्च सप्तविंशतिरेव तत् ।अप्_337.004अब्।
सामान्यञ्च विशेषश् च लक्षणस्य द्वयी गतिः

337.005

सामान्यं सर्वविषयं शेषः क्वापि प्रवर्तते ।अप्_337.005अब्।
पूर्वरङ्गे निवृत्ते द्वौ देशकालावुभावपि

337.006

रसभावविभावानुभावा अभिनयास् तथा ।अप्_337.006अब्।
अङ्कः स्थितिश् च सामान्यं सर्वत्रैवोपसर्पणात्

337.007

विशेषो ऽवसरे वाच्यः सामान्यं पूर्वमुच्यते ।अप्_337.007अब्।
त्रिवर्गसाधनन्नाट्यमित्याहुः करणञ्च यत्

337.008

इतिकर्तव्यता तस्य पूर्वरङ्गो यथाविधि ।अप्_337.008अब्।
नान्दीमुखानि द्वात्रिंशदङ्गानि पूर्वरङ्गके

337.009

देवतानां नमस्कारो गुरूणामपि च स्तुतिः ।अप्_337.009अब्।
गोब्राह्मणनृपादीनामाशीर्वादादि गीयते

337.010

नान्द्यन्ते सूत्रधारो ऽसौ रूपकेषु निबध्यते ।अप्_337.010अब्।
गुरुपूर्वक्रमं वंशप्रशंसा पौरुषं कवेः

337.011

:प् 203
सम्बन्धार्थौ च काव्यस्य पञ्चैतानेष निर्दिशेत् ।अप्_337.011अब्।
नटी विदूषको वापि पारिपार्श्विक एव वा

337.012

सहिताः सूत्रधारेण संलापं यत्र कुर्वते ।अप्_337.012अब्।
चित्रैर् वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः

337.013

आमुखं तत्तु विज्ञेयं बुधैः प्रस्तावनापि सा ।अप्_337.013अब्।
प्रवृत्तकं कथोद्घातः प्रयोगातिशयस् तथा

337.014

आमुखस्य त्रयो भेदा वीजांशेषूपजायते ।अप्_337.014अब्।
कालं प्रवृत्तमाश्रित्य सूत्रधृग्यत्र वर्णयेत्

337.015

तदाश्रयश् च पात्रस्य प्रवेशस्तत् प्रवृत्तकं ।अप्_337.015अब्।
सूत्रधारस्य वाक्यं वा यत्र वाक्यार्थमेव वा

337.016

गृहीत्वा प्रविशेत् पात्रं कथोद्घातः स उच्यते ।अप्_337.016अब्।
प्रयोगेषु प्रयोगन्तु सूत्रधृग्यत्र वर्णयेत्

337.017

ततश् च प्रविशेत् पात्रं प्रयोगातिशयो हि सः ।अप्_337.017अब्।
शरीरं नाटकादीनामितिवृत्तं प्रचक्षते

337.018

सिद्धमुत्प्रेक्षितञ्चेति तस्य भेदाबुभौ स्मृतौ ।अप्_337.018अब्।
सिद्धमागमदृष्टञ्च सृष्टमुत्प्रेक्षितं कवेः

337.019

वीजं विन्दुः पताका च प्रकरी कार्यमेव च ।अप्_337.019अब्।
अर्थप्रकृतयः पञ्च पञ्च चेष्टा अपि क्रमात्

337.020

प्रारम्भश् च प्रयत्नश् च प्राप्तिः सद्भाव एव च ।अप्_337.020अब्।
नियता च फलप्राप्तिः फलयोगश् च पञ्चमः

337.021

मुखं प्रतिमुखं गर्भो विमर्षश् च तथैव च ।अप्_337.021अब्।
तथा निर्वहणञ्चेति क्रमात् पञ्चैव सन्धयः

337.022

अल्पमात्रं समुद्दिष्टं बहुधा यत् प्रसर्पति ।अप्_337.022अब्।
:प् 204
फलावसानं यच्चैव वीजं तदभिधीयते

337.023

यत्र वीजसमुत्पत्तिर्नानार्थरससम्भवा ।अप्_337.023अब्।
काव्ये शरीरानुगतं तन्मुखं परिकीर्तितं

337.024

इष्टस्यार्थस्य रचना वृत्तान्तस्यानुपक्षयः ।अप्_337.024अब्।
रागप्राप्तिः प्रयोगस्य गुह्यानाञ्चैव गूहनम्

337.025

आश् चर्यवदभिख्यातं प्रकाशानां प्रकाशनम् ।अप्_337.025अब्।
अङ्गहीनं नरो यद्वन्न श्रेष्ठं काव्यमेव च

337.026

देशकालौ विना किञ्चिन्नेतिवृत्तं प्रवर्तते ।अप्_337.026अब्।
अतस्तयोरुपादाननियमात् पदमुच्यते

337.027

देशेषु भारतं वर्षं काले कृतयुगत्रयं ।अप्_337.027अब्।
नर्ते ताभ्यां प्राणभृतां सुखदुःखोदयः क्वचित् ।अप्_337.027च्द्।
सर्गे सर्गादिवार्ता च प्रसज्जन्ती न दुष्यति

मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc