अग्नि पुराण · अध्याय 336
:ए इत्य् आग्नेये महापुराणे शिक्षानिरूपणं नाम
पञ्चत्रिंशदधिकत्रिशततमो ऽध्यायः
:न्
1 खटवसा इति ख..
:प् 198
% छप्तेर् {336}
:श् अथ षट्त्रिंशदधिकत्रिशततमो ऽध्यायः
काव्यादिलक्षणं
अग्निर् उवाच
काव्यस्य नाटकादेश् च अलङ्कारान् वदाम्य् अथ ।अप्_336.001अब्।
ध्वनिर्वर्णाः पदं वाक्यमित्येतद्वाङ्मयं मतं
शास्त्रेतिहासवाक्यानां त्रयं यत्र समाप्यते ।अप्_336.002अब्।
शास्त्रे शब्दप्रधानत्वमितिहासेषु निष्ठता
अभिधायाः प्रधानत्वात् काव्यं ताभ्यां विभिद्यते ।अप्_336.003अब्।
नरत्वं दुर्लभं लोके विद्या तत्र च दुर्लभा
कवित्वं दुर्लभं तत्र शक्तिस्तत्र च दुर्लभा ।अप्_336.004अब्।
व्युत्पातिर्दुर्लभा तत्र विवेकस्तत्र दुर्लभः
सर्वं शास्त्रमविद्वद्भिर्मृग्यमाणन्न सिध्यति ।अप्_336.005अब्।
आदिवर्णा द्वितीयाश् च महाप्राणस्तुरीयकः
वर्गेषु वर्णवृन्दं स्यात् पदं सुप्तिड्प्रभेदतः ।अप्_336.006अब्।
सङ्क्षेपाद्वाक्यमिष्टार्थव्यवछिन्ना पदाबली
काव्यं स्फुटदलङ्कारं गुणवद्दोषवर्जितम् ।अप्_336.007अब्।
योनिर्वेदश् च लोकश् च सिद्धमन्नादयोनिजं
देवादीनाम् संस्कृतं स्यात् प्राकृतं त्रिविधं नृणां ।अप्_336.008अब्।
गद्यं पद्यञ्च मिश्रञ्च काव्यादि त्रिविधं स्मृतम्
अपदः पदसन्तानो गद्यन्तदपि गद्यते ।अप्_336.009अब्।
चूर्णकोत्कलिकागन्धिवृत्तभेदात् त्रिरूपकम्
अल्पाल्पविग्रहं नातिमृदुसन्दर्भनिर्भरं ।अप्_336.010अब्।
:प् 199
चूर्णकं नाम्तो दीर्घसमासात् कलिका भवेत्
भवेन्मध्यमसन्दर्भन्नातिकुत्सितविग्रहम् ।अप्_336.011अब्।
वृत्तच्छायाहरं वृत्तं गन्धिनैतत् किलोत्कटम्
आख्यायिका कथा खण्डकथा परिकथा तथा ।अप्_336.012अब्।
कथानिकेति मन्यन्ते गद्यकाव्यञ्च पञ्चधा
कर्तृवंशप्रशंसा स्याद्यत्र गद्येन विस्तरात् ।अप्_336.013अब्।
कन्याहरणसंग्रामविप्रलम्भविपत्तयः
भवन्ति यत्र दीप्ताश् च रीतिवृत्तिप्रवृत्तयः ।अप्_336.014अब्।
उच्छासैश् च परिच्छेदो यत्र या चूर्णकोत्तरा
वक्त्रं वापरवक्त्रं वा यत्र साख्यायिका स्मृता ।अप्_336.015अब्।
श्लोकैः स्ववंशं संक्षेपात् कविर्यत्र प्रशंसति
सुख्यस्यार्थावताराय भवेद्यत्र कथान्तरम् ।अप्_336.016अब्।
परिच्छेदो न यत्र स्याद्भवेद्वालम्भकैः क्वचित्
सा कथा नाम तद्गर्भे निबध्नीयाच्चतुष्पदीं ।अप्_336.017अब्।
भवेत् खण्डकथा यासौ यासौ परिकथा तयोः
अमात्यं सार्थकं वापि द्विजं वा नायकं विदुः ।अप्_336.018अब्।
स्यात्तयोः करुणं विद्धि विप्रलम्भश् चतुर्विधः
समाप्यते तयोर् नाद्या सा कथामनुधावति ।अप्_336.019अब्।
कथाख्यायिकयोर्मिश्रभावात् परिकथा स्मृता
भयानकं सुखपरं गर्भे च करुणो रसः ।अप्_336.020अब्।
अद्भुतो ऽन्ते सुकॢप्तार्थो नोदात्ता सा कथानिका
पद्यं चतुष्पदी तच्च वृत्तं जातिरितित्रिधा ।अप्_336.021अब्।
वृत्तमक्षरसंख्येयमुक्थं तत् कृतिशेषजम्
:प् 200
मात्राभिर्गणना सा जातिरिति काश्यपः(1) ।अप्_336.022अब्।
सममर्धसमं वृत्तं विषमं पैङ्गलं त्रिधा
सा विद्या नौस्तितीषूर्णां गभीरं काव्यसागरं ।अप्_336.023अब्।
महाकाव्यं कलापश् च पर्याबन्धो विशेषकम्
कुलकं मुक्तकं कोष इति पद्यकुटुम्बकम् ।अप्_336.024अब्।
सर्गबन्धो महाकाव्यमारब्धं संस्कृतेन यत्
तादात्म्यमजहत्तत्र(2) तत्समं नाति दुष्यति ।अप्_336.025अब्।
इतिहासकथोद्भूतमितरद्वा सदाश्रयं
मन्त्रदूतप्रयाणाजिनियतं नातिविस्तरम् ।अप्_336.026अब्।
शक्कर्यातिजगत्यातिशक्कर्या त्रिष्टुभा(3) तथा
पुष्पिताग्रादिभिर्वक्राभिजनैश्चारुभिः समैः ।अप्_336.027अब्।
मुक्ता(4) तु भिन्नवृत्तान्ता नातिसंक्षिप्तसर्गकम्
अतिशर्क्वरिकाष्टिभ्यामेकसङ्कीर्णकैः परः ।अप्_336.028अब्।
मात्रयाप्यपरः सर्गः प्राशस्त्येषु च पश्चिमः
कल्पो ऽतिनिन्दितस्तस्मिन्विशेषानादरः सतां ।अप्_336.029अब्।
नगरार्णवशैलर्तु चन्द्रार्काश्रमपादपैः
उद्यानसलिलक्रीडामधुपानरतोत्सवैः ।अप्_336.030अब्।
दूतीवचनविन्यासैर् असतीचरिताद्भूतैः
तमसा मरुताप्यन्यैर् विभावैर् अतिनिर्भरैः ।अप्_336.031अब्।
:न्
1 कश्यप इति ज.. , ञ.. , ट.. च
2 तादर्थमजहत्तत्रेति ज..
3 अनुष्टुभेति ज..
4 व्यक्तेति ञ..
:प् 201
सर्ववृत्तिप्रवृत्तञ्च सर्वभावप्रभावितम्
सर्वरीतिरसैः पुष्टं(1) पुष्टङ्गुणविभूषणैः ।अप्_336.032अब्।
अत एव महाकाव्यं तत्कर्ता च महाकविः
वाग्वैदग्ध्यप्रधानेपि रस एवात्र जीवितम् ।अप्_336.033अब्।
पृथक्प्रयत्ननिर्वर्त्यं वाग्वक्रिम्नि रसाद्वपुः
चतुर्वर्गफलं विश्वग्व्याख्यातं नायकाख्यया ।अप्_336.034अब्।
समानवृत्तिनिर्व्यूटः कौशिकीवृत्तिकोमलः
कलापो ऽत्र प्रवासः प्रागनुरागाह्वयो रसः ।अप्_336.035अब्।
सविशेषकञ्च प्राप्त्यादि संस्कृतेनेत्रेण च
श्लोकैर् अनेकैः कुलकं स्यात् सन्दानितकानि तत् ।अप्_336.036अब्।
मुक्तकं श्लोक एकैकश् चमत्कारक्षमः सता ं
सूक्तिभिः कविसिंहानां सुन्दरीभिः समन्वितः ।अप्_336.037अब्।
कोषो ब्रह्मापरिच्छिन्नः स विदग्धाय रोचते
आभासोपमशक्तिश् च सर्गे यद्भिन्नवृत्तता ।अप्_336.038अब्।
मिश्रं वपुरिति ख्यातं प्रकीर्णमिति च द्विधा ।अप्_336.038च्द्।
श्रव्यञ्चैवाभिनेयञ्च प्रकीर्णं सकलोक्तिभिः
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0