अग्नि पुराण · अध्याय 335
:ए इत्य् आग्नेये महापुराणे प्रस्तारनिरूपणं नाम
चतुस्त्रिंशदधिकत्रिशततमो ऽध्यायः
% छप्तेर् {335}
:श् अथ पञ्चत्रिंशदधिकत्रिशततमो ऽध्यायः
शिक्षानिरूपणम्
अग्निर् उवाच
वक्ष्ये शिक्षान्त्रिषष्टिः स्युर्वर्णा वा चतुराधिकाः ।अप्_335.001अब्।
स्वरा विंशतिरेकश् च स्पर्शानां पञ्चविंशतिः
यादयश् च स्मृता ह्य् अष्टौ चत्वारश् च समाः स्मृताः ।अप्_335.002अब्।
अनुस्वारो विसर्गश् च पौख्यौ चापि परान्वितौ
दुष्पृष्टश्चेति विज्ञेया ऌकारः प्लुत एव च ।अप्_335.003अब्।
रङ्गश् च खे अरं प्रोक्तं(1) हकारः पञ्चमैर् युतः
अन्तस्थाभिः समायुक्त औरस्यः कण्ठ्य एव सः ।अप्_335.004अब्।
आत्मबुद्ध्या समस्यर्थं मनोयुक्ते विवक्षया
मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ।अप्_335.005अब्।
:न्
1 वर्गमुखे अरं प्रोक्तमिति ख..
:प् 196
मारुतस्तूरसि चरन् मन्त्रं(1) जनयति स्वरं
प्रातःसवनयोगस्तु छन्दो गायत्रमाश्रितम् ।अप्_335.006अब्।
कण्ठे माध्यन्दिनयुतं मध्यमन्त्रेषु भानुगम्
तारन्तार्तीयसवनं(2) शीर्षण्यं जागतानुगम् ।अप्_335.007अब्।
सोदीर्णो मूर्ध्न्यभिहितो वक्रमापद्य मारुतः
वर्णान् जनयते तेषां विभागः पञ्चधा स्मृतः ।अप्_335.008अब्।
स्वरतः कालतः स्थानात् प्रयत्नार्थप्रदानतः
अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस् तथा ।अप्_335.009अब्।
जिह्वामूलञ्च दन्ताश् च नासिकौष्ठौ च तालु च
स्वभावश् च विवृत्तिश् च शषसा रेफ एव च ।अप्_335.010अब्।
जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः
पद्यो भावप्रसन्धानमुकारादि परम्पदं ।अप्_335.011अब्।
स्वरान्तं तादृशं विद्याद्यदन्यद्व्यक्तमूष्मणः
ऊतीर्थादागतं(3) दग्धमपवर्णञ्च भक्षितं ।अप्_335.012अब्।
एवमुच्चारणं पापमेवमुच्चारणं शुभम्
अतीर्थादागतं द्रव्यं साम्नायं सुव्यवस्थितं ।अप्_335.013अब्।
सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्मराजनि
न करालो न लम्वोष्ठो नाव्यक्तो नानुनासिकः ।अप्_335.014अब्।
गद्गदो बहुजिह्वश् च न वर्णान् वक्तुम् अर्हति
एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीडिन्ताः ।अप्_335.015अब्।
:न्
1 मात्रमिति ख..
2 भावन्तार्तीयसवनमिति ख..
3 कुतीर्थादागतमिति ट.. । क्षतीर्थदागतमिति ख..
:प् 197
सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते
उदात्तश्चानुदात्तश् च स्वरितश् च स्वरास्त्रयः ।अप्_335.016अब्।
ह्रस्वो दीर्घः प्लुत इति कालतो नियमावधि
कण्ठ्या वहाविचुयशास्तालव्या ओष्ठजा वुपु ।अप्_335.017अब्।
स्युर्मूर्धन्या ऋहुरसाः(1) दन्त्याः ऌ+ओलसाः स्मृताः
जिह्वामूले तु ह्वः प्रोक्तो दन्त्योष्ठो वः स्मृतो बुधैः ।अप्_335.018अब्।
एदैतौ कण्टतालव्यौ ओ औ कण्ठ्यौष्ठजौ स्मृतौ
अर्धमात्रा तु कण्ठस्य एकारैकारयोर्भवेत् ।अप्_335.019अब्।
अयोगवाहा विज्ञेया आश्रयस्थानभागिनः
अचो ऽस्पृष्टापणस्त्वीषन्नोमाः स्पृष्ता हलःस्मृताः ।अप्_335.020अब्।
शेषाः स्पृष्टा हलः प्रोक्ता निबोधात्र प्रधानतः
अमो ऽनुनासिकानक्रौ नादिमौ हसषः स्मृताः ।अप्_335.021अब्।
ईषन्नादोपणयशः श्वासिनश् च थकादयः ।अप्_335.021च्द्।
ईषच्छासं स्वरं विद्याद्दीर्घमेतत् प्रचक्षते
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0