अग्नि पुराण · अध्याय 32
:ए इत्य् आदिमहापुराणे आग्नेये कुशापमार्जनं नाम एकत्रिंशो
ऽध्यायः
% छप्तेर् {32}
:श् अथ द्वातिंशो ऽध्यायः
संस्कारकथनं
अग्निर् उवाच
निर्वाणादिषु दीक्षासु चत्त्वारिंशत्तथाष्ट च ।अप्_32.001अब्।
संस्कारान् कारयेद्धीमान् शृणुतान्यैः सुरो भवेत्
गर्भाधानन्तु योन्यां वै ततः पुंसवनञ्चरेत् ।अप्_32.002अब्।
सीमन्तोन्नयनञ्चैव जातकर्म च नाम च
अन्नाशनं ततश्चूडा ब्रह्मचर्यव्रतानि च ।अप्_32.003अब्।
चत्वारि वैष्णवी पार्थी भौतिकी श्रोत्रिकी तथा
गोदानं सूतकत्वञ्च पाकयज्ञाश् च सप्त ते(1) ।अप्_32.004अब्।
अष्टका पार्वणश्राद्धं श्रावण्यग्रायणीति च
चैत्री चाश्वयुजी सप्त हविर्यज्ञांश् च तान् शृणु ।अप्_32.005अब्।
आधानञ्चाग्निहोत्रञ्च दर्शो वै पौर्णमासकः
चातुर्मास्यं पशुबन्धः सौत्रामणिरथापरः ।अप्_32.006अब्।
सोमसंस्थाः सप्त शृणु अग्निष्टोमः क्रतूत्तमः
अत्यग्निष्टोम उक्थश् च षोडशो वाजपेयकः ।अप्_32.007अब्।
अतिरात्राप्तोर्यामश् च सहस्रेशाः सवा इमे
हिरण्याङ्घ्रिर्हिरण्याक्षो हिरण्यमित्र इत्य् अतः ।अप्_32.008अब्।
:न्
1 सप्त च इति ग, ख, चिह्नितपुस्त्कद्वयपाठः
:प् 92
हिरण्यपाणिर्हेमाक्षो हेमाङ्गो हेमसूत्रकः
हिरण्यास्यो हिरण्याङ्गो हेमजिह्वो हिरण्यवान् ।अप्_32.009अब्।
अश्वमेधो हि सर्वेशो गुणाश्चाष्टाथ तान् शृणु
दया च सर्वभूतेषु क्षान्तिश् चैव तथार्जवम् ।अप्_32.010अब्।
शौचं चैवमनायासो मङ्गलं चापरो गुणः
अकार्पण्यञ्चास्पृहा च मूलेन जुहुयाच्छतम् ।अप्_32.011अब्।
सौरशाक्तेयविष्ण्वीशदीक्षास्त्वेते समाः स्मृताः
संस्कारैः संस्कृतश् चैतैर् भुक्तिमुक्तिमवाप्नुयात् ।अप्_32.012अब्।
सर्वरोगाद्विनिर्मुक्तो देववद्वर्तते नरः ।अप्_32.012च्द्।
जप्याद्धोमात्पूजनाच्च ध्यानाद्देवस्य चेष्टभाक्
मूल पाठ: Agnipurāṇa · Edition: Rajendralal Mitra, Calcutta: Asiatic Society of Bengal 1870-1879, 3 vols. (Bibliotheca Indica, 65,1-3) · Data entry Jun Takashima · GRETIL (Göttingen) · CC BY-NC-SA 4.0